TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १४७

ब्रह्मपुराणम् - अध्यायः १४७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १४७
अपसरोयुगसंगमतीर्थवर्णनम्
ब्रह्मोवाच
अप्सरोयुगमाख्यातमप्सरासंगमं ततः ।
तीरे च दक्षिणे पुण्यं स्मरणात्सुभगो भवेत् ॥१॥

मुक्तो भवत्यसंदेहं तत्र स्नानादिना नरः ।
स्त्री सती संगमे तस्मिन्नृतुस्नाता च नारद ॥२॥

वन्ध्याऽपि जनयेत्पुत्रं त्रिमासात्पतिना सह ।
स्नानदानेन वर्तन्ती नान्यथा मद्वचो भवेत् ॥३॥

अप्सरोयुगमाख्यातं तीर्थं येन च हेतुना ।
तत्रेदं कारणं वक्ष्ये शृणु नारद यत्नतः ॥४॥

स्पर्धाऽऽसीन्महती ब्रह्मन्विश्वामित्रवसिष्ठयोः ।
तपस्यन्तं गाधिसुतं ब्राह्मण्यार्थे यतव्रतम् ॥५॥

गङ्गाद्वारे समासीनं प्रेरितेन्द्रेण मेनका ।
तं गत्वा तपसो भ्रष्टं कुरु भद्रे ममाऽऽज्ञया ॥६॥

तदोक्तेन्द्रेण सा मेन विश्वमित्रं तपश्च्युतम् ।
कृत्वा कन्यां तथा दत्त्वा जगामेन्द्रपुरं पुनः ॥७॥

तस्यां गतायां सस्मार गाधिपुत्रोऽखिलं कृतम् ।
तं तु देशं परित्यज्य तीर्थं तु सुरवल्लभम् ॥८॥

जगाम दक्षिणां गङ्गां यत्र कालंजरो हरः ।
तपस्यन्तं तदोवाच पुनरिन्द्रः सहस्रदृक् ॥९॥

उर्वशीं च ततो मेनां रम्भां चापि तिलोत्तमाम् ।
नैवेत्यूचुर्भयत्रस्ताः पुनराह शचीपतिः ॥१०॥

गम्भीरां चातिगम्भीरामुभे ये गर्विते तदा ।
ते ऊचतुरुभे देवं सहस्राक्षं पुरंदरम् ॥११॥

गम्भीरातिगम्भीरे ऊचतुः
आवां गत्वा तपस्यन्त गाधिपुत्रं महाद्युतिम् ।
च्यावयावो नृत्यगति रूपयौवनसंपदा ॥१२॥

यासामपाङ्गे हसिते वाचि विभ्रमसंपदि ।
नित्यं वसति पञ्चेषुस्ताभिः कोऽत्र न जीयते ॥१३॥

ब्रह्मोवाच
तथात्युक्ते सहस्राक्षे त आगत्य महानदीम् ।
ददृशाते तपस्यन्तं विश्वामित्रं महामुनिम् ॥१४॥

मृत्योरपि दुराधर्षं भूमिस्थमिव धूर्जटिम् ।
सहस्रमेकं वर्षाणामीक्षितुं न च शक्नुतः ॥१५॥

दूरे स्थिते नृत्यगीतचाटुकाररते तदा ।
विलोक्य मुनिशार्दूलस्ततः कोपाकुलोऽभवत् ॥१६॥

प्रतीपाचरणं दृष्ट्वा क्रोधः कस्य न जायते ।
निस्पृहोऽपि महाबाहुस्तमिन्द्रं प्रसहन्निव ॥१७॥

आभ्यां मुक्तः सहस्राक्षो ह्यप्सरोभ्यां ब्रवन्निव ।
शशाप ते स गाधेयो द्रवरूपे भविष्यथः ॥१८॥

द्रवितुं मां समायाते यतस्त्विह ततो लघु ।
ततः प्रसादितस्ताभ्यां सापमोक्षं चकार सः ॥१९॥

भवेतां दिव्यरूपे वां गङ्गया संगते यदा ।
तच्छापात्ते नदीरूपे तत्क्षणात्संबभूवतुः ॥२०॥

अप्सरोयुगमाख्यातं नदीद्वयमतोऽभवत् ।
ताभ्यां परस्परं चापि ताभ्यां गङ्गासु संगमः ॥२१॥

सर्वलोकेषु विख्यातो भुक्तिमुक्तिप्रदः शिवः ।
तत्राऽऽस्ते दृष्ट एवासौ सर्वसिद्धिप्रदायकः ॥२२॥

तत्र स्नात्वा तु तं दृष्ट्वा मुच्यते सर्वबन्धनात् ॥२३॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्येऽप्सरोयुगसंगमतीर्थवर्णनं नाम सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥१४७॥

गौतमीमाहात्म्येऽष्टसप्ततितमोऽध्यायः ॥७८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:41.6770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

गळगळां

  • ad  With piteous weeping or whiningbeseeching &c. 
  • v  ये. 
RANDOM WORD

Did you know?

’ एकोद्दिष्ट श्राद्ध ’ बद्दल माहिती द्यावी.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site