TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १३०

ब्रह्मपुराणम् - अध्यायः १३०

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १३०
आपस्तम्बतीर्थवर्णनम्
ब्रह्मोवाच
आपस्तम्बमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् ।
स्मारणादप्यशेषाघसंघविध्वंसनक्षमम् ॥१॥

आपस्तम्बो महाप्राज्ञो मुनिरासीन्महायशाः ।
तस्य भार्याऽक्षसूत्रेति पतिधर्मपरायणा ॥२॥

तस्य पुत्रो महाप्राज्ञः कर्किनामाऽथ तत्त्ववित् ।
तस्याऽऽश्रममनुप्राप्तो ह्यगस्त्यो मुनिसत्तमः ॥३॥

तमगस्त्यं पूजयित्वा आपस्तम्बो मुनीश्वरः ।
शिष्यैरनुगतो धीमांस्तं प्रष्टुमुपचक्रमे ॥४॥

आपस्तम्ब उवाच
त्रयाणां को नु पूज्यः स्याद्‌देवानां मुनिसत्तम ।
भुक्तिर्मुक्तिश्च कस्माद्वा स्यादनादिश्च को भवेत् ॥५॥

अनन्तश्चापि को विप्र देवानामपि दैवतम् ।
यज्ञैः क इज्यते देवः को वदेष्वनुगीयते ॥
एवं मे संशंयं छेत्तुं वदागस्त्य महामुने ॥६॥

अगस्त्य उवाच
धर्मार्थकाममोक्षाणां प्रमाणं शब्द उच्यते ।
तत्रापि वैदिकः शब्दः प्रमाणं परमं मतः ॥७॥

वेदेन गीयते यस्तु पुरुषः स परात्परः ।
मृतोऽपरः स विज्ञेयो ह्यमृतः पर उच्यते ॥८॥

योऽमूर्तः स परो ज्ञेयो ह्यपरो मूर्त उच्यते ।
गुणाभिव्याप्तिभेदेन मूर्तोऽसौ त्रिविधो भवेत् ॥९॥

ब्रह्मा विष्णुः शिवश्चेति एक एव त्रिधोच्यते ।
त्रयाणामपि देवनां वेद्यमेकं परं हि तत् ॥१०॥

एकस्य बहुधा व्याप्तिर्गुणकर्मविभेदतः ।
लोकानामुपकारार्थमाकृतित्रितयं भवेत् ॥११॥

यस्तत्त्वं वेत्ति परमं स च विद्वान्न चेतरः ।
तत्र यो भेदमाचष्टे लिङ्गभेदी स उच्यते ॥१२॥

प्रायश्चित्तं न तस्यास्ति यश्चैषां व्याहरेद्भिदम् ।
त्रयाणामपि देवानां मूर्तिभेदः पृथक्पृथक् ॥१३॥

वेदाः प्रमाणं सर्वत्र साकारेषु पृथक्पृथक् ।
निराकारं च यत्त्वेकं तत्तेभ्यः परमं मतम् ॥१४॥

आपस्तम्ब उवाच
नानेन निर्णयः कश्चिन्मयाऽत्र विदितो भवते ।
तत्राप्यत्र रहस्यं यत्तद्विमृश्याऽऽशु कीर्त्यताम् ॥
निःसंशयं निर्विकल्पं भाजनं सर्वसंपदाम् ॥१५॥

ब्रह्मोवाच
एतदाकर्ण्य भगवानगस्त्यो वाक्यमब्रवीत् ॥१६॥

अगस्त्य उवाच
यद्यप्येषां न भेदोऽस्ति देवानां तु परस्परम् ।
तथाऽपि सर्वसिद्धिः स्याच्छिवादेव सुखात्मनः ॥१७॥

प्रपञ्चस्य निमित्तं यत्तज्ज्योतिश्च परं शिवः ।
तमेव साधय हरं भक्त्या परमया मुने ॥
गौतम्यां सकलाघौघसंहर्ता दण्डके वने ॥१८॥

ब्रह्मोवाच
एतच्छ्रुत्वा मुनेर्वाक्यं परां प्रीतिमुपागतः ।
भुक्तिदो मुक्तिदः पुंसां साकारोऽथ निराकृतिः ॥१९॥

सृष्ट्याकारस्ततः शक्तः पालनाकार एव च ।
दाता च हन्ति सर्वं यो यस्मादेतत्समाप्यते ॥२०॥

अगस्त्य उवाच
ब्रह्माकृतिः कर्तृरूपा वैष्णवी पालनी तथा ।
रुद्राकृतिर्निहन्त्री सा सर्ववेदेषु पठ्यते ॥२१॥

ब्रह्मोवाच
आपतम्बस्तदा गङ्गं गत्वा स्नात्वा यतव्रतः ।
तुष्टाव शंकरं देवं स्तोत्रेणानेन नारद ॥२२॥

आपस्तम्ब उवाच
काष्ठेषु वह्निः कुसुमेषु गन्धो, वीजेषु वृक्षादि दृषत्सु हेम ।
भूतेषु सर्वेषु तथाऽस्ति यो वै, तं सोमनाथं शरणं व्रजामि ॥२३॥

यो लीलया विश्वमिदं चकार, धाता विधाता भुवनत्रयस्य ।
यो विश्वरूपः सदसत्परो यः, सोमेश्वरं तं शरणं व्रजामि ॥२४॥

यं स्मृत्य दारिद्‌य्रमहाभिशापरोगादिभिर्न स्पृश्यते शरीरी ।
यमाश्रिताश्चेप्सितमाप्नुवन्ति, सोमेश्वरं तं शरणं व्रजामि ॥२५॥

येन त्रयीधर्ममवेक्ष्य पूर्वं, ब्रह्मादयस्तत्र समीहिताश्च ।
एवं द्विधा येन कृतं शरीरं, सोमेश्वरं तं शरणं व्रजामि ॥२६॥

यस्मै नमो गच्छति मन्त्रपूतं, हुतं हविर्या च कृता च पूजा ।
दत्तं हविर्येन सूरा भजन्ते, सोमेश्वरं तं शरणं व्रजामि ॥२७॥

यस्मात्परं नान्यदस्ति प्रशस्तं यस्मात्परं नैव सुसूक्ष्ममन्यत् ।
यस्मात्परं नो महतां महच्च, सोमेश्वरं तं शरणं व्रजामि ॥२८॥

यस्याऽऽज्ञया विश्वमीदं विचित्रमचिन्त्यरूपं विविधं महच्च ।
एकक्रियं यद्वदनुप्रयाति सोमेश्वरं तं शरणं व्रजामि ॥२९॥

यस्मिन्विभूतिः सकलाधिपत्यं, कर्तृत्वदातृत्वमहात्त्वमेव ।
प्रीतिर्यशः सौख्यमनादिधर्मः, सोमेश्वरं तं शरणं व्रजामि ॥३०॥

नित्यं शरण्यः सकलस्य पूज्यो, नित्यं प्रियो यः शरणागतस्य ।
नित्यं शिवो यः सकलस्य रूपं, सोमेश्वरं तं शरणं व्रजामि ॥३१॥

ब्रह्मोवाच
ततः प्रसन्नो भगवानाह नारद तं मुनि(न्वरं वृण्विति चाऽऽह त)म् ।
आत्मार्थ च परार्थं च आपस्तम्बोऽब्रवीच्छिवम् ॥३२॥

सर्वान्कामानाप्नुयुस्ते ये स्नात्वा देवमीश्वरम् ।
पश्येयुर्जगतामीशमस्त्वित्याह शिवो मुनिम् ॥३३॥

ततः प्रभृति तत्तीर्थमापस्तम्बमुदाहृतम् ।
अनाद्यविद्यातिमिरव्रातमिर्मूलनक्षमम् ॥३४॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये दक्षिणकूलस्थापस्तम्बसोमेश्वरतीर्थवर्णनं नाम त्रिंशदधिकशततमोऽध्यायः ॥१३०॥

गौतमीमाहात्म्ये एकषष्टितमोऽध्यायः ॥६१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:40.7700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सातकर्णि II.

  • n. एक आंध्रवंशीय राजा, जो वायु के अनुसार पुत्रिकषेण राजा का पुत्र था । 
RANDOM WORD

Did you know?

What is Gotra?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.