संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २३९

ब्रह्मपुराणम् - अध्यायः २३९

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


योगविधिनिरूपणम्
मुनय ऊचुः
सांख्यं योगस्य नो विप्र विशेषं वक्तुमर्हसि ।
तव धर्मज्ञ सर्वं हि विदितं मुनिसत्तम ॥१॥

व्यास उवाच
सांख्यां सांख्यं प्रशंसन्ति योगान्योगविदुत्तमाः ।
वदन्ति कारणैः श्रेष्ठैः स्वपक्षोद्भवनाय वै ॥२॥

अनीश्वरः कथं मुच्येदित्येवं मुनिसत्तमाः ।
वदन्ति कारणैः श्रेष्ठं योगं सम्यङ्मनीषिणः ॥३॥

वदन्ति कारणं वेदं सांख्यं सम्यग्द्विजातयः ।
विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः ॥४॥

ऊर्ध्वं स देहात्सुव्यक्तं विमुच्येदिति नान्यथा ।
एतदाहुर्महाप्राज्ञाः सांख्यं वै मोक्षदर्शनम् ॥५॥

स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् ।
शिष्टानां हि मतं ग्राह्यं भवद्भिः शिष्टसंमतैः ॥६॥

प्रत्यक्षं हेतवो योगाः सांख्याः शास्त्रविनिश्चयाः ।
उभे चैते तत्त्वे समवेते द्विजोत्तमाः ॥७॥

उभे चैते मते ज्ञाते मुनीन्द्राः शिष्टसंमते ।
अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् ॥८॥

तुल्यं शौचं तयोर्युक्तं दया भूतेषु चानघाः ।
व्रतानां धारणं तुल्यं दर्शनं त्वसमं तयोः ॥९॥

मुनय ऊचुः
यदि तुल्यं व्रतं शौचं दया चात्र महामुने ।
तुल्यं तद्दर्शनं कस्मात्तन्नौ ब्रूहि द्विजोत्तम ॥१०॥

व्यास उवाच
रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् ।
योगास्थिरोदितान्दोषान्पञ्चैतान्प्राप्नुवन्ति तान् ॥११॥

यथा वाऽनिमिषाः स्थूलं जालं छित्त्वा पुनर्जलम् ।
प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥१२॥

तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः ।
प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥१३॥

लोभजानि तथा विप्रा बन्धनानि बलान्वितः ।
छित्त्वा योगात्परं मार्गं गच्छन्ति विमलं शुभम् ॥१४॥

अचलास्त्वाविला विप्रा वागुरासु तथाऽऽपरे ।
विनश्यन्ति न संदेहस्तद्वद्योगबलादृते ॥१५॥

बलहीनाश्च विप्रेन्द्रा यथा जालं गता द्विजाः ।
बन्धं न गच्छन्त्यनघा योगास्ते तु सुदुर्लभाः ॥१६॥

यथा च शकुनाः सूक्ष्मं प्राप्य जालमरिन्दमाः ।
तत्राशक्ता विपद्यन्ते मुच्यन्ते तु बलान्विताः ॥१७॥

कर्मजैर्बन्धनैर्बद्धास्तद्वद्योगपरा द्विजाः ।
अबला न विमुच्यन्ते मुच्यन्ते च बलान्विताः ॥१८॥

अल्पकश्च यथा विप्रा वह्निः शाम्यति दुर्बलः ।
आक्रान्त इन्धनैः स्थूलैस्तद्वद्योगबलः स्मृतः ॥१९॥

स एव च तदा विप्रा वह्निर्जातबलः पुनः ।
समीरणगतः कृत्स्नां दहेत्क्षिप्रं महीमिमाम् ॥२०॥

तत्त्वज्ञानबलो विप्रा वह्निर्जातबलः पुनः ।
समीरणगतः कृत्स्नां दहेत्क्षिप्रं महीमिमाम् ॥२१॥

दुर्बलश्च यथा विप्राः स्रोतसा ह्रियते नरः ।
बलहीनस्तथा योगी विषयैर्ह्रियते च सः ॥२२॥

तदेव तु यथा स्रोतसा विष्कम्भयति वारणः ।
तद्वद्योगबलं लब्धवा न भवेद्विषयैर्हृतः ॥२३॥

विशन्ति वा वशाद्वाऽथ योगाद्योगबलन्विताः ।
प्रजापतीन्मनून्सर्वान्महाभूतानि चेश्वराः ॥२४॥

न यमो नान्तकः क्रुद्धो न मृत्युर्भीमविक्रमः ।
विशन्ते तद्‌द्विजाः सर्वे योगस्यामिततेजसः ॥२५॥

आत्मनां च सहस्राणि बहूनि द्विजसत्तमाः ।
योगं कुर्याद्‌बलं प्राप्य तैश्च सर्वैर्महीं चरेत् ॥२६॥

प्राप्नुयाद्विषयान्कश्चित्पुनश्चोग्रं तपश्चरेत् ।
संक्षिप्येच्च पुनर्विप्राः सूर्यस्तेजोगुणानिव ॥२७॥

बलस्थस्य हि योगस्य बलार्थं मुनिसत्तमाः ।
विमोक्षप्रभवं विष्णुमुपपन्नमसंशयम् ॥२८॥

बलानि योगप्रोक्तानि मयैतानि द्विजोत्तमाः ।
निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनर्द्विजाः ॥२९॥

आत्मनश्च समाधाने धारणां प्रति वा द्विजाः ।
निदर्शनानि सूक्ष्माणि सूक्ष्माणि श्रृणुध्वं मुनिसत्तमाः ॥३०॥

अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः ।
युक्तः सम्यक्तथा योगी मोक्षं प्राप्नोत्यसंशयम् ॥३१॥

स्नेहपात्रे यथा पूर्णे मन आधाय निश्चलम् ।
पुरुषो युक्त आरोहेत्सोपानं युक्तमानसः ॥३२॥

मुक्तस्तथाऽयमात्मानं योगं तद्वत्सुनिश्चलम् ।
करोत्यमलामात्मानं भास्करोपमदर्शने ॥३३॥

यथा च नावं विप्रेन्द्राः कर्णधारः समाहितः ।
महार्णवगतां शीघ्रं नयेद्विप्रांस्तु पत्तनम् ॥३४॥

तद्वदात्मसमाधानं युक्तो योगेन योगवित् ।
दुर्गमं स्थानमाप्नोति हित्वा देहमिमं द्विजाः ॥३५॥

सारथिश्च यथा युक्तः सदश्वान्सुसमाहितः ।
प्राप्नोत्याशु परं स्थानं लक्ष्यमुक्त इवाऽऽशुगः ॥३६॥

तथैव च द्विजा योगी धारणासु समाहितः ।
प्राप्नोत्यशु परं स्थानं लक्ष्यमुक्त इवाऽऽशुगः ॥३७॥

आविश्याऽऽत्मनि चाऽऽत्मानं योऽवतिष्ठति सोऽचलः ।
पाशं वहत्वे मीनानां पदमाप्नोति सोऽजरम् ॥३८॥

नाभ्यां शीर्षे च कुक्षौ च हृदि वक्षसि पार्श्वयोः ।
दर्शने श्रवणे वाऽपि घ्राणे चामितविक्रमः ॥३९॥

स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः ।
आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग्द्विजोत्तमाः ॥४०॥

सुशीघ्रमचलप्रख्यं कर्म दग्ध्वा शुभाशुभम् ।
उत्तमं योगमास्थाय यदीच्छति विमुच्यते ॥४१॥

मुनय ऊचुः
आहारान्कीदृशान्कृत्वा कानि जित्वा च सत्तम ।
योगी बलमवाप्नोति तद्भवान्वक्तुमर्हति ॥४२॥

व्यास उवाच
कणानां भक्षणे युक्तः पिण्याकस्य च भो द्विजाः ।
स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात् ॥४३॥

भुञ्जानो यावकं रूक्षं दीर्घकालं द्विजोत्तमाः ।
एकाहारी विशुद्धात्मा योगी बलमवाप्नुयात् ॥४४॥

पक्षान्मासानृतूंश्चित्रान्संचरंश्च गुहास्तथा ।
अपः पीत्वा पयोमिश्रा योगी बलमावाप्नुयात् ॥४५॥

अखण्डमपि वा मासं सततं मुनिसत्तमाः ।
उपोष्य सम्यक्शुद्धात्मा योगी बलमवाप्यनुयात् ॥४६॥

कामं जित्वा तथा क्रोधं शीतोष्णं वर्षमेव च ।
भयं शोकं तथा स्वापं पौरुषीन्विषयांस्तथा ॥४७॥

अरतिं दुर्जयां चैव घोरां दृष्ट्वा च भो द्विजाः ।
स्पर्शं निद्रां तथा तन्द्रां दुर्जयां मुनिसत्तमाः ॥४८॥

दीपयन्ति महात्मानं सूक्ष्ममात्मानमात्मना ।
वीतरागा महाप्राज्ञा ध्यानाध्ययनसंपदा ॥४९॥

दुर्गस्त्वेष मतः पन्था ब्राह्मणानां विपश्चिताम् ।
यः कश्चिद्‌व्रजति क्षिप्रं क्षेमेण मुनिपुंगवाः ॥५०॥

यथा कश्चिद्वनं घोरं बहुसर्पसरीसृपम् ।
श्वभ्रवत्तोयहीनं च दुर्गमं बहुकण्टकम् ॥५१॥

अभक्तमटवीप्रायं दावदग्धमहीरुहम् ।
पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेत्तथा ॥५२॥

योगमार्गं समासाद्य यः कश्चिद्‌व्रजते द्विजः ।
क्षेमेणोपरमेन्मार्गाद्‌बहुदोषोऽपि संमतः ॥५३॥

आस्थेयं क्षुरधारासु निशितासु द्विजोत्तमाः ।
धारणा सा तु योगस्य दुर्गेयमकृतात्मभिः ॥५४॥

विषमा धारणा विप्रा यान्ति वैन शुभां गतिम् ।
नेतृहीना यथा नावः पुरुषाणां तु वै द्विजाः ॥५५॥

यस्तु तिष्ठति योगाधौ धारणासु यथाविधि ।
मरणं जन्मदुःखित्वं सुखित्वं स विशिष्यते ॥५६॥

नानाशास्त्रेषु नियतं नानामुनिनिषेवितम् ।
परं योगस्य पन्थानं निश्चितं तं द्विजातिषु ॥५७॥

परं हि तद्‌ब्रह्ममयं मुनीन्द्रा, ब्रह्मणमीशं वरदं च विष्णुम् ।
भवं च धर्मं च महानुभावं यद्‌ब्रह्मपुत्रान्सुमहानुभावान् ॥५८॥

तमश्च कष्टं सुमहद्रजश्च, सत्त्वं च शुद्धं प्रकृतिं परां च ।
सिद्धिं च देवीं वरुणस्य पत्नीं, तेजश्च कृत्स्नं सुमहच्च धैर्यम् ॥५९॥

ताराधिपं खे विमलं सुतारं, विश्वांश्च देवानुरगान्पितॄंश्च ।
शैलांश्च कृत्स्नानुदधींश्च वाऽचलान्नदीश्च सर्वाः सनगांश्च नागान् ॥६०॥

साध्यांस्तथा यक्षगणान्दिशश्च, गन्धर्वसिद्धान्पुरुषान्स्त्रियश्च ।
परस्परं प्राप्य महान्महात्मा विशेत योगी नचिराद्विमुक्तः ॥६१॥

कथा च या विप्रवराः प्रसक्ता, दैवे महावीर्यमतौ शुभेयम् ।
योगान्स सर्वाननुभूय मर्त्या, नारायणं तं द्रुतमाप्नुवन्ति ॥६२॥

इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे योगविधिनिरूपणं नाम एकोनचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२३९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP