TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १८

ब्रह्मपुराणम् - अध्यायः १८

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १८
तत्रादौ भुवनकोश्द्वीपवर्णनम्
मुनय ऊचुः
अहो सुमहदाख्यानं भवता परिकीर्त्तितम् ।
भारतानां च सर्व्वेषां पार्थिवानां तथैव च ॥१॥

देवानां दानवानां च गन्धर्व्वोरगरक्षसाम् ।
दैत्यानामथ सिद्धानां गुह्यकानां तथैव च ॥२॥

अत्यद्‌भुतानि कर्म्माणि विक्रमा धर्म्मनिश्चयाः ।
विविधाश्च कथा दिव्या जन्म चाग्य्रमनुत्तमम् ॥३॥

सृष्टिः प्रजापतेः सम्यक्तवया प्रोक्ता महामते ।
प्रजापतीनां सर्व्वेषां गुह्यकाप्सरसां तथा ॥४॥

स्थावारं जङ्मं सर्व्वमुत्पन्नं विविधं जगत् ।
त्वया प्रोक्तं महाभाग श्रुतं चैतन्मनोहरम् ॥५॥

कथितं पुण्यफलदं पुराणं श्लक्ष्णया गिरा ।
मनःकर्णसुखं सम्यक् प्रीणात्यमृतसम्मितम् ॥६॥

इदानीं श्रोतुमिच्छामः सकलं मण्डलं भुवः ।
वक्तुमर्हसि सर्व्वज्ञ पं कौतूहलं हि नः ॥७॥

यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्व्वताः ।
वनानि सरितः पुण्यवादीनां महामते ॥८॥

यत्प्रमाणमिदं सर्व्वं यदाधारं यदात्मकम् ।
संस्थानमस्य जगतो यथावद्वक्तुमर्हसि ॥९॥

मुनयः श्रूयतामेतत् संक्षेपाद्वदतो मम ।
नास्य वर्षशतेनापि वक्तुं शवयोऽतिविस्तरः ॥१०॥

जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश्चापरो द्विजाः ।
कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः ॥११॥

एते द्वीपाः समुद्रैस्तु सप्तसप्तभिरावृताः ।
लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम् ॥१२॥

जम्बूद्वीपः समस्तानामेतेषां मध्यसंस्थितः ।
तस्यापि मध्ये विप्रेन्द्राः मेरुः कनकपर्व्वतः ॥१३॥

चतुरशीतिसाहस्रैर्योजनैस्तस्य चोच्छ्रयः ।
प्रविष्टः षौडशाधस्ताद्‌द्वात्रिंशन्मूर्ध्नि विस्तृतः ॥१४॥

मूले षोडशसाहस्रैर्विस्तारस्तस्य सर्व्वतः ।
भूपद्मस्यास्य शैलोऽसौ कर्णिकाकारसस्थिंतः ॥१५॥

जम्बूद्वीपः समस्तानामेतेषां मध्यसंस्थितः ।
तस्यापि मध्ये विप्रेन्द्राः मेरुः कनकपर्व्वतः ॥१६॥

लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथापरे ।
सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥१७॥

भारतं प्रथमं वर्षं ततः किंपुरुषं स्मृतम् ।
हरिवर्षं तथैवान्यन्मेरोद्‌र्दक्षिणतो द्विजाः ॥१८॥

रम्यकं चोत्तरं वर्षं तस्यैव तु हिरण्ययम् ।
उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥१९॥

नवसाहस्रमेकैकमेतेषां द्विजसत्तमाः ।
इलावृतं च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः ॥२०॥

मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तृतम् ।
इलावृतं महाभागाश्चत्वारश्चात्र पर्व्वताः ॥२१॥

विष्कम्भा वितता मेरोर्योजनायुतविस्तृताः ।
पूर्व्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥२२॥

विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः ।
कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च ॥२३॥

एकादशशतायामाः पादपा गिरिकेतवः ।
जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्द्विजोत्तमाः ॥२४॥

महागजप्रमामानि जम्बास्तस्याः फलानि वै ।
पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्व्वतः ॥२५॥

रसेन तेषआं विख्याता तत्र जम्बूनदीति वै ।
सरित्प्रवर्तते सा च पीयते तन्निवासिभिः ॥२६॥

न खेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः ।
तत्पानस्वस्तमनसां जनानां तत्र जायते ॥२७॥

तीरमृत्तद्रसं प्राप्य सुखवायुविसोषिता ।
जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥२८॥

भद्राश्वं पूर्व्वतो मेरोः केतुमालञ्च पश्चिमे ।
वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये त्विलावृतम् ॥२९॥

वनं चैत्ररथं पूर्व्वे दक्षिणे गन्धमादनम् ।
वै भ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ॥३०॥

अरुणोदं महाभद्रमसितोदं समानसम् ।
सरास्येतानि चत्वारि देवभोग्यानि सर्व्वदा ॥३१॥

शान्तवांश्चक्रकुञ्जश्च कुररी माल्यवांस्तथा ।
वैकङ्कप्रमुखा मेरोः पूर्व्वतः केसराचलाः ॥३२॥

त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा ।
निषधादयो दक्षिणतस्तस्य केसरपर्व्वताः ॥३३॥

सिखिवासः सवैदूर्य्यः कपिलो गन्धमादनः ।
जानुधिप्रमुखास्तद्वत् पश्चिमे केसराचलाः ॥३४॥

मेरोरनन्तरास्ते च जठरादिष्ववस्थिताः ।
शङ्खकूटोऽथ ऋषभो हंसो नागस्तथापराः ॥३५॥

कालञ्जराद्याश्च तथा उत्तरे केसराचलाः ।
चतुद्‌र्दश सहस्राणि योजनानां महपुरो ॥३६॥

मेरोरुपरि विप्रन्द्रा ब्रह्मणः कथिता दिवि ।
तस्यां समन्ततश्चाष्टौ दिशासु विदिशासु च ॥३७॥

इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः ।
विष्णुपादविनिष्क्रान्ता प्लावयन्तोन्दुमण्डलम् ॥३८॥

समन्ताद्‌ब्रह्मणः पुर्य्याः गङ्गा पतति वै दिवि ।
सा तत्र पतिता दिक्षु चतुर्धा प्रत्यपद्यत ॥३९॥

सोता चालकनन्दा च चक्षुर्भद्रा च वै क्रमात् ।
पूर्व्वेण सीता शैलाच्च शैलं यान्त्यन्तरिक्षगाः ॥४०॥

ततश्च पूर्व्ववर्षेण भद्राश्वेनेति सार्णवम् ।
तथैवालकनन्दा च दक्षिणेनैत्य भारतम् ॥४१॥

प्रयाति सागरं भूत्वा सप्तभेदा द्विजोत्तमाः ।
चक्षुश्च पश्चिमगिरीनतीत्य सकलांस्ततः ॥४२॥

पश्चिमं केतुमालाख्यं वर्षमन्वेति सार्णवम् ।
भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून् ॥४३॥

अतीत्योत्तरमम्भोधिं समभ्येति द्विजोत्तमाः ।
आनीलनिषधायामौ माल्यवद्‌गन्धमादनौ ॥४४॥

तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्तितः ।
भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा ॥४५॥

पत्राणि लोकशैलस्य मर्य्यादाशैलबाह्यतः ।
जठरो देवटकूटश्च मर्य्यदापर्व्वतावुभौ ॥४६॥

तौ दक्षिणोत्तरायाभावानीलनिषधायतौ ।
गन्धमादनकैलासौ पूर्व्वपश्चात्तु तावुभौ ॥४७॥

अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ ।
निषधः पारियात्रश्च मर्य्यादापर्व्वतावुभौ ॥४८॥

तौ दक्षिणोत्तरायामावानीलनिषधायतौ ।
मेरोः पश्चिमदिग्भागे यथा पूर्व्वौ तथा स्थितौ ॥४९॥

त्रिश्रृङ्गो जारुधिश्चैव उत्तरौ वर्षपर्व्वतौ ।
पूर्व्वपश्चायतावेतावर्मवान्तर्व्यवस्थितौ ॥५०॥

इत्येते हि मया प्रोक्ता मर्य्यादापर्व्वता द्विजाः ।
जठरावस्थिता मेरोर्य्येषां द्वौद्वौ चतुर्दिदशम् ॥५१॥

मेरोश्चतुर्द्दिशं ये तु प्रोक्ताः केसरपर्व्वताः ।
सीतान्ताद्या द्विजास्तेषामतीव हि मनोहराः ॥५२॥

शैलानामन्तरद्रोण्यः सिद्धचारणसेविताः ।
सुरम्याणि तथा तासु काननानि पुराणि च ॥५३॥

लक्ष्मीविष्ण्वग्निसूर्य्येन्द्रदेवानां मुनिसत्तमाः ।
तास्वायतनवर्षाणि जुष्टानि नरकिन्नरैः ॥५४॥

गन्धर्व्वयक्षरक्षांसि तथा दैतेयदानवाः ।
क्रीडन्ति तासु रम्यासु शैलद्रोणिष्वहर्निशम् ॥५५॥

भौमा ह्येते स्मृताः सर्गा धर्म्मिणामालया द्विजाः ।
नैतेषु पापकर्त्तारो यान्ति जन्मशतैरपि ॥५६॥

भद्राश्वे भगवान् विष्णुरास्ते हयशिरा द्विजाः ।
वाराहः केतुमाले तु भारते कूर्म्मरूपधृक् ॥५७॥

मत्स्यरूपश्च गोविन्दः कुरुषवास्ते सनातनः ।
विश्वरूपेण सर्व्वत्र सर्व्वः सर्व्वेस्वरो हरिः ॥५८॥

सर्व्वस्याधारभूतोऽसौ द्विजा आस्तेऽखिलात्मकः ।
यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ द्विजोत्तमा ॥५९॥

न तेषु शोको नायासो नोद्वेगः क्षुद्भयादिकम् ।
सुस्थाः प्रजा निरातङ्काः सर्व्वदुःखविवर्ज्जिताः ॥६०॥

दसद्वादशवर्षाणां सहस्राणि स्थिरायुषः ।
नैतेषु भौमान्यन्यानि श्रुत्पिपासादि नो द्विजाः ॥६१॥

कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना ।
सर्व्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः ।
नद्यश्च शतशस्तेभ्यः प्रसूता या द्विजोत्तमाः ॥६२॥

इति श्रीब्रह्मे महापुराणे भुवनकोशद्वीपवर्णनं नामाष्टादशोऽध्यायः॥१८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:34.0370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पावसाचा तोडगा

  • पाऊस पडावा म्हणून कांहींतरी मंत्र, तंत्र, वगैरे करणें. 
RANDOM WORD

Did you know?

बांस की लकड़ी
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site