TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १०८

ब्रह्मपुराणम् - अध्यायः १०८

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १०८
अथाष्टाधिकशततमोऽध्यायः
इलातीर्थवर्णनम्

इलातीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् ।
ब्रह्महत्यादिपापानां पावनं सर्वकामदम् ॥१॥

वैवस्वतान्वये जात इलो नाम जनेश्वरः ।
महत्या सेनया सार्धं जगाम मृगयावनम् ॥२॥

परिब्रभ्राम गहनं बहुव्यालसमाकुलम् ।
नानाकारद्विजयुतं विटपैः परिशोभितम् ॥३॥

वनेचरं नृपक्षेष्ठो मृगयागतमानसः ।
तत्रैव मतिमाधत्त इलोऽमात्यानथाब्रवीत् ॥४॥

इल उवाच
गच्छन्तु नगरं सर्वे मम पुत्रेण पालितम् ।
देशं कोशं बलं राज्यं पालयन्तु पुनश्च तम् ॥५॥

वसिष्ठोऽपि तथा यातु आदायाग्नीन्पितेव नः ।
पत्नीभिः सहितो धीमनरण्येऽहं वसाम्यथ ॥६॥

अरण्यभोगभुग्भिश्च वाजिवारणमानुषैः ।
मृगयाशीलिभिः कैश्चिद्यान्तु सर्व इतः पुरीम् ॥७॥

ब्रह्मोवाच
तथेत्यक्त्वा ययुस्तेऽपि स्वयं प्रायाच्छनैर्गिरिम् ।
हिमवन्तं रत्नमयं वसंस्तत्र इलो नृपः ॥८॥

ददर्श कन्दरं तत्र नानारत्नविचित्रितम् ।
तत्र यक्षेश्वरः कश्चित्समन्युरिति विश्रुतः ॥९॥

तस्य भार्या समानाम्नी भर्तृव्रतपरायणा ।
तस्मिन्वसत्यसौ यक्षो रमणीये नगोत्तमे ॥१०॥

मृगरूपेण व्यचरद्भार्यया स महामतिः ।
स्वेच्छया स्ववने यक्षः क्रीडते नृत्यगीतकैः ॥११॥

इत्थं स यक्षो जानाति मृगरूपधरोऽपि च ।
इलस्तु तं न जानाति कन्दरं यक्षपालितम् ॥१२॥

यक्षस्य गेहं विपुलं नानारत्नविचित्रितम् ।
तत्रोपविष्टो नृपतिर्महत्या सेनया वृतः ॥१३॥

वासं चक्रे स तत्रैव गेहे यक्षस्य धीमतः ।
स यक्षोऽधर्मकोपेन भार्यया मृगरूपधृक् ॥१४॥

इलं जेतुं न शक्नोमि याचितो न ददाति च ।
हृतं गेहं ममानेन किं करोमीत्यचिन्तयत् ॥१५॥

युधि मत्तं कथं हन्यां चेति स्थित्वा स यक्षराट् ।
आत्मीयान्प्रेषयामास यक्षाञ्शुरान्धनुर्धरान् ॥१६॥

यक्ष उवाच
युद्धे जित्वा च राजानमिलमुद्धतदन्तिनम् ।
गृहाद्यथाऽन्यतो याति मम तत्कर्तुमर्हथ ॥१७॥

ब्रह्मोवाच
यक्षेश्वरस्य तद्वाक्याद्यक्षास्ते युद्धदुर्मदाः ।
इलं गत्वाऽब्रुवन्सर्वे निर्गच्छास्माद्गुहालयात् ॥१८॥

न चेद्युद्धात्परिभ्रष्टः पलाय्य क्व गमिष्यसि ।
तद्यक्षवचनात्कोपाद्युद्धं चक्रे स राजराट् ॥१९॥

जित्वा यक्षान्बहुविधानुवास दश शर्वरीः ।
यक्षेश्वरो मृगो भूत्वा भार्ययाऽपि वने वसन् ॥२०॥

हृतगेहो वनं प्राप्तो हृतभृत्यः स यक्षिणीम् ।
प्राह चिन्तापरो भूत्वा मृगीरूपधरां प्रियाम् ॥२१॥

यक्ष उवाच
राजाऽयं दुर्मनाः कान्ते व्यसनासक्तमानसः ।
कथमायाति विपदं तत्रोपायो विचिन्त्यताम् ॥२२॥

पापर्धिव्यसनान्तानि राज्यन्यखिलभूभुजाम् ।
प्रापयोमावनं सुभ्रूर्मूगी भूत्वा मनोहरा ॥२३॥

प्रविशेत्तत्र राजाऽयं स्त्री भविष्यत्यसंशयम् ।
करणीयं त्वया भद्रे न चैतद्युज्यते मम ॥
अहं तु पुरुषो येन त्वं पुनः स्त्री च यक्षिणी ॥२४॥

यक्षिण्युवाच
कथं त्वया न गन्तव्यमुमावनमनुत्तमम् ।
गतेऽपि त्वयि को दोषस्तन्मे कथय तत्त्वतः ॥२५॥

यक्ष उवाच
हिमवत्पर्वतश्रेष्ठ उमया सहितः शिवः ।
देवैर्गणैरनुवृतो विचचार यथासुखम् ॥
पार्वती शंकरं प्राह कदाचिद्रहसि स्थितम् ॥२६॥

पार्वत्युवाच
स्त्रीणामेष स्वभावोऽस्ति रतं गोपायितं भवेत् ।
तस्मान्मे नियतं देशमाज्ञया रक्षितं तव ॥२७॥

देहि मे त्रिदशेशान उमावनमिति श्रुतम् ।
विना त्वया गणेशेन कार्तिकेयेन नन्दिना ॥२८॥

यस्त्वत्र प्रविशेन्नाथ स्त्रीत्वं तस्य भवेदिति ॥२९॥

यक्ष उवाच
इत्याज्ञोमावने दत्ता प्रसन्नेनेन्दुमौलिना ।
किं करोमि पुमान्कान्ते त्वया प्रणयनार्दितः ॥
तस्मान्मया न गन्तव्यमुमाया वनमुत्तमम् ॥३०॥

ब्रह्मोवाच
तद्भर्तृवचनं श्रुत्वा यक्षिणी कामरूपिणी ।
मृगी भूत्वा विशालाक्षी इलस्य पुरतोऽभवत् ॥३१॥

यक्षस्तु संस्थितस्तत्र ददर्शेलो मृगीं तदा ।
मृगयासक्तचित्तो वै मृगीं दृष्ट्वा विशेषतः ॥३२॥

एक एव हयारूढो निर्ययौ तां मृगीमनु ।
साऽऽकर्षत शनैस्तं तु राजानं मृगयाकुलम् ॥३३॥

शनैर्जगाम सा तत्र यदुमावनमुच्यते ।
अदृश्या तु मृगी तस्मै दर्शयन्ती क्वचित्क्वचित् ॥३४॥

तिष्ठन्ती चैव गच्छन्ती धावन्ती च विभीतवत् ।
हरिणा चपलाक्षी सा तमाकर्षदुमावनम् ॥३५॥

अनुप्राप्तो हयारूढस्तत्प्राप स उमावनम् ।
उमावनं प्रविष्टं तं ज्ञात्वा सा यक्षिणी तदा ॥३६॥

मृगीरूपं परित्यज्य यक्षिणी कामरूपिणी ।
दिव्यरूपं समास्थाय चाशोकतरुसंनिधौ ॥३७॥

तच्छाखालम्बितकरा दिव्यगन्धानुलेपना ।
दिव्यरूपधरा तन्वी कृतकार्या समा तदा ॥३८॥

हसन्ति नृपतिं प्रेक्ष्य श्रान्तं हयगतं तदा ।
मृगीमालोकयन्तं तं चपलाक्षमिलं तदा ॥३९॥

भर्तृवाक्यमशेषेण स्मरन्ती प्राह भूमिपम् ॥४०॥

समोवाच
हयारूढाऽबला तन्वि क्व एकैव तु गच्छसि ।
पुरुषस्य च वेषेम इले कमनुयास्यसि ॥४१॥

ब्रह्मोवाच
इलेति वचनं श्रुत्वा राजाऽसौ क्रोधमूर्च्छितः ।
यक्षिणीं भर्त्सयित्वाऽसौ तामपृच्छन्मृगीं पुनः ॥४२॥

तथापि यक्षिणी प्राह इले किमनुवीक्षसे ।
इलेति वचनं श्रुत्वा धृतचापो हयस्थितः ॥४३॥

कुपितो दर्शयामास त्रैलोक्यविजयी धनुः ।
पुनः सा प्राह नृपतिं महात्मानमिले स्वयम् ॥४४॥

प्रेक्षस्व पश्चान्मां ब्रूहि आसत्यां सत्यवादिनीम् ।
तदा चाऽऽलोकयद्राजा स्तनौ तुङ्गौ भुजान्तरे॥ १०८.४५॥

किमिदं मम संजातमित्येवं चकितोऽभवत् ॥४६॥

इलोवाच
किमिदं मम संजातं जानीते भवती स्फुटम् ।
वद सर्वं यथातथ्यं त्वं का वा वद सुव्रते ॥४७॥

यक्षिण्युवाच
हिमवत्कंदरश्रेष्ठे समन्युर्वसते पतिः ।
यक्षाणामधिपः श्रीमांस्तद्भार्याऽहं तु यक्षिणी ॥४८॥

यत्कंदरे भवान्राजा तूविष्टः सुशीलते ।
यस्य यक्षा हता मोहात्त्वया हि संगरं विना ॥४९॥

ततोऽहं निर्गमार्थं ते मृगी भूत्वा उमावनम् ।
प्रविष्टा त्वं प्रविष्टोऽपि पुरा प्राह महेश्वरः ॥५०॥

यस्त्वत्र प्रविशेन्मन्दः पुमान्स्त्रीत्वमवाप्स्यति ।
तस्मात्स्त्रीत्वमवाप्तोऽसि न त्वं दुःखितुमर्हसि ॥
प्रौढोऽपि कोऽत्र जानाति विचित्रवितव्यताम् ॥५१॥

ब्रह्मोवाच
यक्षिणीवचनं श्रुत्वा हयारूढस्तदाऽपतत् ।
तमाश्वास्य पुनः सैव यक्षिणी वाक्यमब्रवीत् ॥५२॥

यक्षिण्युवाच
स्त्रीत्वं जातं जातमेव न पुंस्त्वं कर्तुमर्हसि ।
गृहाण विद्यां स्त्रीयोग्यां नृत्यं गीतमलंकृतिम् ॥
स्त्रीललित्यं स्त्रीविलासं स्त्रीकृत्यं सर्वमेव तत् । १०८.५३॥

ब्रह्मोवाच
इला सर्वमथावाप्य यक्षिणीं वाक्यमब्रवीत् ॥५४॥

इलोवाच
को वा भर्ता किं तु कृत्यं पुनः पुंस्त्वं कथं भवेत् ।
एवद्वदस्व कल्याणी दुःखार्ताया विशषेतः ॥
आर्तानामार्तिशमनाच्छ्रेयो नाभ्यधिकं क्वचित् ॥५५॥

यक्षिण्युवाच
बुधः सोमसुतो नाम वनादस्माच्च पूर्वतः ।
आश्रमस्तस्य सुभगे पितरं नित्यमेष्यति ॥५६॥

अनेनैव पथा सोमं पितरं स बुधो ग्रहः ।
द्रष्टुं याति ततो नित्यं नमस्कर्तुः तथैव च ॥५७॥

यदा याति बुधः शान्तस्तदाऽऽत्मानं च दर्शय ।
तं दृष्ट्वा त्वं तु सुभगे सर्वकामानवाप्स्यसि ॥५८॥

ब्रह्मोवाच
तामश्वास्य ततः सुभ्रूर्यक्षिण्यन्तरधीयत ।
यक्षिणी सा तमाचष्ट यक्षोऽपि सुखमाप्तवान् ॥५९॥

इलसैन्यं च तत्राऽऽसीत्तद्गतं च यथासुखम् ।
उमावनस्थिता चेला गायन्ती नृत्यती पुनः ॥६०॥

स्त्रीभावमनुचेष्टन्ती स्मरन्ती कर्मणो गतिम् ।
कदाचित्क्रियमाणे तु इलया नृत्यकर्मणिः ॥६१॥

तामपश्यद्बुधो धीमान्पितरं गन्तुमुद्यतः ।
इलां दृष्ट्वा गतिं त्यक्त्वा तामागत्याब्रवीद्बुधः ॥६२॥

बुध उवाच
भार्या भव मम स्वस्था सर्वाभ्यस्त्वं प्रिया भव ॥६३॥

ब्रह्मोवाच
बुधवाक्यमिला भक्त्या त्वभिनन्द्य तथाऽकरोत् ।
स्मृत्वा च यक्षिणीवाक्यं ततस्तुष्टाऽऽभवन्मुने ॥६४॥

बुधो रेमे तया प्रीत्वा स्वस्थानमुत्तमम् ।
सा चापि सर्वभावेन तोषयामास तं पतिम् ॥
ततो बहुतिथे काले बुधस्तुष्टोऽवदत्प्रियाम् ॥६५॥

बुध उवाच
किं ते देयं मया भद्रे प्रियं यन्मनसि स्थितम् ॥६६॥

ब्रह्मोवाच
तद्वाक्यमकालं तु पुत्रं देहीत्यभाषत ।
इला बुधं सोमसुतं प्रीतिमन्तं प्रियं तथा ॥६७॥

बुध उवाच
अमोघमेतन्मद्वीर्यं तथा प्रीतिसमुद्भवम् ।
पुत्रस्ते भविता तस्मात्क्षत्रियो लोकविश्रुतः ॥६८॥

सोमवंशकरः श्रीमानादित्य इव तेजसा ।
बुद्ध्या बृहस्पतिसमः क्षमया पृथिवीसमः ॥६९॥

वीर्येणाऽऽजौ हरिरिव कोपेन हुतभुग्यथा ॥७०॥

ब्रह्मोवाच
तस्मिन्नुत्पद्यमाने तु बुधपुत्रे महात्मनि ।
जयशब्दश्च सर्वत्र त्वासीच्च सुरवेश्मनि ॥७१॥

बुधपुत्रे समुत्पन्ने तत्राऽऽजग्मुः सुरेश्वराः ।
अहमप्यागमं तत्र मुदा युक्तो महामते ॥७२॥

जातमात्रः सुतो रावमरोत्स पृथुस्वरम् ।
तेन सर्वेऽप्यवोचन्वै संगता ऋषयः सुराः ॥७३॥

यस्मात्पुरूरवोऽस्येति तस्मादेष पुरूरवाः ।
स्यादित्येवं नाम चक्रुः सर्वे संतुष्टमानसाः ॥७४॥

वृधोऽप्यध्यापयामास क्षात्रविद्यां सुतं शुभाम् ।
धनुर्वेदं सप्रयोगं बुधः प्रादात्तदाऽऽत्मजे ॥७५॥

स शीघ्रं वृद्धिमगमच्छुक्लपक्षे यथा शशी ॥
स मातरं दुःखयुतां समीक्ष्येलां महामतिः ॥
तमस्याथ विनीतात्मा इलामैलोऽब्रवीदिदम् ॥७६॥

ऐल उवाच
बुधो मातर्मम पिता तव भर्ता प्रियस्तथा ।
अहं च पुत्रः कर्मण्यः कस्मात्ते मानसो ज्वरः ॥७७॥

इलोवाच
सत्यं पुत्र बुधो भर्ता त्वं च पुत्रो गुणाकरः ।
भर्तृपुत्रकृता चिन्ता न ममास्ति कदाचनः ॥७८॥

तथाऽपि पूर्वजं किंचिद्दुःखं स्मृत्वा पुनः पुनः ।
चिन्तयेयं महाबुद्धे ततो मातरमब्रवीत् ॥७९॥

ऐल उवाच
निवेदयस्व मे मातस्तदेव प्रथमं मम ॥८०॥

ब्रह्मोवाच
इला चैनमुवाचेदं रहोवाचं कथं वदे ।
तथाऽपि पुत्र ते वच्मि पित्रोः पुत्रो यतो गतिः ॥
मग्नानां दुःखपाथोऽब्धौ पुत्रः प्रवहणं परम् ॥८१॥

ब्रह्मोवाच
तन्मातृवचनं श्रुत्वा विनीतः प्राह मातरम् ।
पादयोः पतितश्चापि वद मातर्यथा तथा ॥८२॥

ब्रह्मोवाच
सा पुरुरवसं प्राह इक्ष्वाकूणां तथा कुलम् ।
तत्रोऽपत्तिं स्वस्य नाम राज्यप्राप्तिं प्रियान्सुतान् ॥८३॥

पुरोधसं वसिष्ठं च प्रियां भार्यां स्वकं पदम् ।
वननिर्याणमेवाथ अमात्यानां पुरोधसः ॥८४॥

प्रेषणं च नगर्यां तां मृगयासक्तिमेव च ।
हिमवत्कंदरगतिं यक्षेश्वरगृहे गतिम् ॥८५॥

उमावनप्रवेशं च स्त्रीत्वप्राप्तिमशेषतः ।
महेश्वराज्ञया तत्र चाप्रवेशं नरस्य तु ॥८६॥

यक्षिणीवाक्यमप्यस्य वरदानं तथैव च ।
बुधप्राप्तिं तथा प्रीतं पुत्रोत्पत्त्याद्यशेषतः ॥८७॥

कथयामास तत्सर्वं श्रुत्वा मातरमब्रवीत् ।
पुरूरवाः किं करोमि किं कृत्वा सुकृतं भवेत् ॥८८॥

एतावता ते तृप्तिश्चेदलमेतेन चाम्बिके ।
यदप्यन्यन्मनोवर्ति तदप्याज्ञापयस्व मे ॥८९॥

इलोवाच
इच्छेयं पुंस्त्वमुत्कृष्टमिच्छेयं राज्यमुत्तमम् ।
अभिषेकं च पुत्राणां तव चापि विशेषतः ॥९०॥

दानं दातुं च यष्टुं च मुक्तिमार्गस्य वीक्षणम् ।
सर्वं च कर्तुमिच्छामि तव पुत्र प्रसादतः ॥९१॥

पुत्र उवाच
उपायं त्व तु पृच्छामि येन पुंस्त्वमवाप्स्यसि ।
तपसो वाऽन्यतो वाऽपि वदस्व मम तत्त्वतः ॥९२॥

इलोवाच
बुधं त्वं पितरं पृच्छ गत्वा पुत्र यथार्थवत् ।
स तु सर्वं तु जानाति उपदेक्ष्यति ते हितम् ॥९३॥?

ब्रह्मोवाच
तन्मातृवचनादैलो गत्वा पितरमञ्जसा ।
उवाच प्रणतो भूत्वा मातुः कृत्यं तथाऽऽमनः ॥९४॥

बुध उवाच
इलं जाने महाप्राज्ञ इलां जातां पुनस्तथा ।
उमावनप्रवेशं च शंभोराज्ञां तथैव च ॥९५॥

तस्माच्छंभुप्रसादेन उमायाश्च प्रसादतः ।
विशापो भविता पुत्र तावाराध्य न चान्यथा ॥९६॥

पुरूरवा उवाच
पश्येयं तं कथं देवं कथं वा मातरं शिवाम् ।
तीर्थाद्वा तपसो वाऽपि तत्पितः प्रथमं वद ॥९७॥

बुध उवाच
गौतमीं गच्छ पुत्र त्वं तत्राऽस्ते सर्वदा शिवः ।
उमया सहितः श्रीमाञ्शापहन्ता वरप्रदः ॥९८॥

ब्रह्मोवाच
पुरूरवाः पितुर्वाक्यं श्रुत्वा मुदितोऽभवत् ।
गौतमीं तपसे धीमान्गङ्गां त्रैलोक्यपावनीम् ॥९९॥

पुंस्त्वमिच्छंस्तथा मातुर्जगामं तपसे त्वरन् ।
हिमवन्तं गिरिं नत्वा मातरं पितरं गुरुम् ॥१००॥

गच्छन्तमन्वगात्पुत्रमिला सोमसुतस्तथा ।
ते सर्वे गौतमीं प्राप्ता हिमवत्पर्वतोत्तमात् ॥१०१॥

तत्र स्नात्वा तपः किंचित्कृत्वा चक्रुः स्तुतिं पराम् ।
भवस्य देवदेवस्य स्तुतिक्रममिमं श्रृणु । १०८.१०२॥

बुधस्तुष्टाव प्रथममिला च तदनन्तरम् ।
ततः पुरूरवाः पुत्रो गौरीं देवीं च शंकरम् ॥१०३॥

बुध उवाच
यौ कुङ्कुमेन स्वशरीरजेन, स्वभावहेमप्रतिमौ सरूपौ ।
यावर्चितौ स्कन्दगणेश्वराभ्यां, तौ मे शरण्यौ शरणं भवेताम् ॥१०४॥

इलोवाच
संसारतापत्रयदावदग्धाः, शरीरिणो यौ परिचिन्तयन्तः ।
सद्यः परां निर्वृतिमाप्नुवन्ति, तौ शंकरौ मे शरणं भवेताम् ॥१०५॥

आर्ता ह्यहं पीडितमानसा ते, क्लेशादिगोप्ता न परोऽस्ति कश्चित् ।
देव त्वदीयौ चरणौ सुपुण्यौ,तौ मे शरण्यौ शरणं भवेताम् ॥१०६॥

पुरूरवा उवाच
ययोः सकाशादिदमभ्युदैति, प्रयाति चानते लयमेव सर्वम् ।
जगच्छरण्यौ जगदात्मकौ तु, गौरीहरौ शरणं भवेताम् ॥१०७॥

यौ दववृन्देषु महोत्सवे तु, पादौ गृहाणेश(ति)गिरीशपुत्र्याः ।
प्रोक्तं धृतौ प्रीतिवशाच्छिवेन, तौ मे शरण्यौ शरणं भवेताम् ॥१०८॥

श्रीदेव्युवाच
किमभीष्टं प्रदास्यामि युष्मभ्यं तद्वदन्तु मे ।
कृतकृत्यः स्थ भद्रं वो देवनामपि दुष्करम् ॥१०९॥

पुरूरवा उवाच
इलो राजा तवाज्ञात्वा वनं प्रविशदम्बिके ।
तत्क्षमस्व सुरेशानि पुंस्त्वं दातुं त्वमर्हसि ॥११०॥

ब्रह्मोवाच
तथेत्युवाच तान्सर्वान्भवस्य तु मते स्थिता ।
ततः स भगवानाह देवीवाक्यरतः सदा ॥१११॥

शिव उवाच
अत्राभिषेकमात्रेण पुंस्त्वं प्राप्नोत्वयं नृपः ॥११२॥

ब्रह्मोवाच
स्नाताया बुधभार्यायाः शरीराद्वारि सुस्रुवे ।
नृत्यं गीतं च लावण्यं यक्षिण्या यदुपार्जितम् ॥११३॥

तत्सर्वं वारिधाराभिर्गङ्गाम्भसि समाविशत् ।
नृत्या गीता चसौभाग्या इमा नद्यो बभूविरे ॥११४॥

ताश्चापि संगता गङ्गां ते पुण्याः संगमास्त्रयः ।
तेषु स्नानं च दानं च सुरराज्यफलप्रलदम् ॥११५॥

इला पुंस्त्वमवाप्याथ गौरीशंभोः प्रसादतः ।
महाभ्युदयसिद्ध्यर्थं वाजिमेधमथाकरोत् ॥११६॥

पुरोधसं वसिष्ठं च भार्यां पुत्रांस्तथैव च ।
अमात्यांश्च बलं कोशमानीय स नृपोत्तमः ॥११७॥

चतुरङ्गं बलं राज्यं दण्डकेऽस्थापयत्तदा ।
इलस्य नाम्ना विख्यातं तत्र तत्पुरमुच्यते ॥११८॥

पूर्वजातानतो पुत्रान्सूर्यवंशक्रमागते ।
राज्येऽभिषिच्य पश्चात्तमैलं स्नेहादसिञ्चयत् ॥११९॥

सोमवंशकरः श्रीमानयं राजा भवेदिति ।
सर्वेभ्यो मतिमानेभ्यो जयेष्ठः श्रेष्ठोऽभवन्मुने ॥१२०॥

यत्र च क्रतवो वृत्ता इलस्य नृपतेः शुभाः ।
यत्र पुंस्तमवाप्याथ यत्र पुत्राः समागताः ॥१२१॥

यक्षिणीदत्तनृत्यादिगीतसौभाग्यमङ्गलाः ।
नद्यो भूत्वा यत्र गङ्गां संगतास्तानि नारद ॥१२२॥

तीर्थानि शुभदान्यासन्सहस्राण्यथ षोडश ।
उभयोस्तीरयोस्तात तत्र शंभुरिलेश्वरः ॥
तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥१२३॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभवृषिसंवादे तीर्थमाहात्म्ये बुधेलापुरूरवोवसिष्ठनृत्यगीतसौभाग्येलेश्वरादिषोडशसहस्रतीर्थवर्णनं नामाष्टाधिकशततमोऽधायायः ॥१०८॥
गौतमीमाहात्म्ये एकोनचत्वारिंशत्तमोऽध्यायः ॥३९॥


Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:39.5830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बांकणें

  • अ.क्रि. 
  • वांकणें ; बांक येणें , असणें ; खालीं झुकणें ; ओणवें होणें ; नमणें . 
  • ( ल . ) बेमुर्वतखोरपणानें वागणें ; मित्रत्व सोडून असणें ; वांकडें अगर वैमन्स्य असणें ( वाक्यांत ह्या क्रियापदाला ऊन प्रत्यय लागून पुढें दुसरें क्रियापद येतें . जसें :- वांकून असणें - वागणें - वर्तणें - चालणें - राखणें इ० ). [ हिं . ] 
RANDOM WORD

Did you know?

लग्न ठरवितांना पत्रिका पाहणे किती योग्य आहे? पत्रिका पाहूनही कांही विवाह अयशस्वी कां होतात
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site