संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १७०

ब्रह्मपुराणम् - अध्यायः १७०

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


चक्षुस्तीर्थवर्णनम्
ब्रह्मोवाच
चक्षुस्तीर्थमिति ख्यातं रूपसौभाग्यदायकम् ।
यत्र योगेश्वरो देवो गौतम्या दक्षिणे तटे ॥१॥

पुरं भौवनमाख्यातं गिरिमूर्ध्न्यभिधीयते ।
यत्रासौ भौवनो राजा क्षत्रधर्मपरायणः ॥२॥

तस्मिन्पुरवरे कश्चिद्ब्राह्मणो वृद्धकौशिकः ।
तत्पुत्रो गौतम इति ख्यातो वेदविदुत्तमः ॥३॥

तस्य मातुर्मनोदोषाद्विपरीतोऽभवद्‌द्विजः ।
सखा तस्य वणिक्कश्चिन्मणिकुण्डल उच्यते ॥४॥

तेन सख्यं द्विजोस्याऽऽसीद्धिषमं द्विजवैश्ययोः ।
श्रीमद्दरिद्रयोर्नित्यं परस्परहितैषिणोः ॥५॥

कदाचिद्‌गौतमो वैश्यं वित्तेशं मणिकुण्डलम् ।
प्राहेदं वचनं प्रीत्य रहः स्थित्वा पुनः पुनः ॥६॥

गौतम उवाच
गच्छामो धनमादातुं पर्वतानुदधीनपि ।
यौवनं तद्वृथा ज्ञेयं विना सौख्यानुकूल्यतः ॥
धनं विना तत्कथं स्यादहो धिङ्‌निर्धनं नरम् ॥७॥

ब्रह्मोवाच
कुण्डलो द्विजमाहेदं मत्पित्रोपार्जितं धनम् ।
बह्वस्ति किं धनेनाद्य करिष्ये द्विजसत्तम ॥
द्विजः पुनरुवाचेदं मणिकुण्डलमोजसा ॥८॥

गौतम उवाच
धर्मार्थज्ञानकामानं को नु तृप्तः प्रशस्यते ।
उत्कर्षप्राप्तिरेवैषां सखे श्लाध्या शरीरिणाम् ॥९॥

स्वेनैव व्यावसायेन धन्या जीवन्ति जन्तवः ।
परदत्तार्थसंतुष्टाः कष्टजीविन एव ते ॥१०॥

स पुत्रः शस्यते लोके पितृभिश्चाभिनन्द्यते ।
यः प्रत्र्यमभिलिप्सेन न वाचाऽपि तु कुण्डल ॥११॥

स्बबाहुबालमाश्रित्य योऽर्थानर्जयते सुतः ।
स कृतार्थो भवेल्लोके पैत्र्यं वित्तं न तु स्पृशेत् ॥१२॥

स्वयमार्ज्य सुतो वित्तं पित्रे दास्यति बन्धवे ।
तं तु पुत्रं विजानीयादितरो योनिकीटकः ॥१३॥

ब्रह्मोवाच
एतच्छ्रुत्वा तु तद्वाक्यं ब्राह्मणस्याभिलाषिणः ।
तथेति मत्वा तद्वाक्यं रत्नान्यादाय सत्वरः ॥१४॥

आत्मकीयानि वित्तानि गौतमाय न्यवेदयत् ।
धनेनैतेन देशांश्च परिभ्रम्य यथासुखम् ॥१५॥

धनान्यादाय वित्तानि पुनरेष्यामहे गृहम् ।
सत्यमेव वणिग्वक्ति स तु विप्रः प्रतारकः ॥१६॥

पापात्मा पापिचित्तं च न बुबोध वणिग्द्विजम् ।
तौ परस्परमामन्त्र्य मातापित्रोरजानतोः ॥१७॥

देशाद्देशान्तरं यातौ धनार्थं तौ वणिग्द्विजौ ।
वणिग्घस्तस्थितं वित्तं ब्राह्मणो हर्तुमिच्छति ॥१८॥

ब्राह्मण उवाच
येन केनाप्युपायेन तद्वनं हि समाहरे ।
अहो पृथिव्यां रम्याणि नगराणि सहस्रशः ॥१९॥

इष्टप्रदात्र्यः कामस्य देवता इव योषितः ।
मनोहरास्तत्र तत्र सन्ति किं क्रियते मया ॥२०॥

धनमाहृत्य यत्नेन योषिद्‌भ्यो यदि दीयते ।
भुज्यन्ते तास्ततो नित्यं सफलं जीवितं हि तत् ॥२१॥

नृत्यगीतरतो नित्यं पण्यस्त्रीभिरलंकृतः ।
भोक्ष्ये कतं तु तद्वित्तं वैश्यामद्धस्तमागतम् ॥२२॥

ब्रह्मोवाच
एवं चिन्तयमानोऽसौ गौतमः प्रहसन्निव ।
मणिकुण्जलमाहेदमधर्मादेव जन्तवः ॥२३॥

वृद्धि सुखमभीष्टानि प्राप्नुवन्ति न संशयः ।
धर्मिष्ठाः प्राणिनो लोके दृश्यन्ते दुःखभागिनः ॥२४ ॥
तस्माद्धर्मेण किं तेन दुःखैकफलहेतुना ॥२५॥

ब्रह्मोवाच
नेत्युवाच ततो वैश्यः सुखं धर्मे प्रतिष्ठितम् ।
पापे दुःखं शोको दारिद्र्यं क्लेश एव च ॥
यतो धर्मस्ततो मुक्तिः स्वधर्मः किं विनश्यति ॥२६॥

ब्रह्मोवाच
एवं विवदतोस्तत्र संपरायस्तयोरभूत् ।
यस्य पक्षो भवेज्ज्यायान्स परार्थमवाप्नुयात् ॥२७॥

पृच्छावः कस्य प्राबल्यं धर्मिणो वाऽप्यधर्मिणः ।
वेदात्तु लौकिकं ज्येष्ठं लोके धर्मात्सुखं भवेत् ॥२८॥

एवं विवदमानौ तावूचतुः सकलाञ्जनान् ।
धर्मस्य वाऽप्यधर्मस्य प्राबल्यमनयोर्भुवि ॥२९॥

तद्वदन्तु यथावृत्तमेवमूचतुरोजसा ।
एवं तत्रोचिरे केचिद्ये धर्मेणानुवर्तिनः ॥३०॥

तैर्दुःखमनुभूयते पापिष्ठाः सुखिनो जनाः ।
संपराये धनं सर्वं जितं विप्रे न्यवेदयत् ॥३१॥

मणिमान्धर्मविच्छ्रेष्ठः पुनर्धर्म प्रशंसति ।
मणिमन्तं द्विजः प्राह किं धर्ममनुशंससि ॥
ब्रह्मोवाच
तथेति चेत्याह वैश्यो ब्राह्मणः पुनरब्रवीत् ॥३२॥

ब्रह्मण उवाच
जितं मया धनं वैश्य निर्लज्जः किंनु भाषसे ।
मयैव विजितो धर्मो यथेष्टचरणात्मना ॥३३॥

ब्रह्मोवाच
तद्‌ब्राह्मणवचः श्रुत्वा वैश्यः सस्मित ऊचिवान् ॥३४॥

वैश्य उवाच
पुलाका इव धान्येषु पित्तिका इव पक्षिषु ।
तथैव तान्सखे मन्ये येषां धर्मो न विद्यते ॥३५॥

चतुर्णां पुरुषार्थानां धर्मः प्रथम उच्यते ।
पश्चादर्थश्च कामश्च स धर्मो मयि तिष्ठति ॥
कथं ब्रूषे द्विजश्रेष्ठ मया विजितमित्यदः ॥३६॥

ब्रह्मोवाच
द्विजो वैश्यं पुनः प्राह हस्ताभ्यां जायतां पणः ।
तथेति मन्ते वैश्यस्तौ गत्वा पुनरूचतुः ॥३७॥

पूर्ववल्लौकिकान्गत्वा जितमित्यब्रवीद्‌द्विजः ।
करौ छित्त्वा ततः प्राह कथं धर्मं तु मन्यसे ॥
आक्षिप्तो ब्राह्मणेनैवं वैश्यो वचनमब्रवीत् ॥३८॥

वैश्य उवाच
धर्ममेव परं मन्ये प्राणैः कण्ठगतैरपि ।
माता पिता सुहृद्‌बन्धुर्धर्म एव शरीरिणाम् ॥३९॥

ब्रह्मोवाच
एवं विवदमानौ तावर्थवान्ब्राह्मणोऽभवत् ।
विमुक्तो वैश्यकस्तत्र बाहुभ्यां च धनेन च ॥४०॥

एवं भ्रमन्तौ संप्राप्तौ गङ्गां योगेश्वरं हरिम् ।
यदृच्छया मुनिश्रेष्ठः मिथस्तावूचतुः पुनः ॥४१॥

वैश्यो गङ्गां तु योगेशं धर्ममेव प्रशंसति ।
अतिकोपाद्‌द्विजो वैश्यमाक्षिप्न्पुनरब्रवीत् ॥४२॥

ब्राह्मण उवाच
गतं धनं करौ छिन्नाववशिष्टोऽसुभिर्भवान् ।
त्वमन्यथा यदि ब्रूष आहरिष्येऽसिना शिरः ॥४३॥

ब्रह्मोवाच
विहस्य पुनराहेदं वैश्यो गौतममञ्जसा ॥४४॥

वैश्य उवाच
धर्ममेव परं मन्ये यथेच्छसि तथा कुरु ।
ब्राह्मणांश्च गुरून्देवान्वेदान्धर्मं जनार्दनम् ॥४५॥

यस्तु निन्दयते पापो नासौ स्पृश्योऽथ पापकृत् ।
उपेक्षणीयो दुर्वृत्तः पापात्मा धर्मदूषकः ॥४६॥

ब्रह्मोवाच
ततः प्राह स कोपेन धर्मं यद्यनुशंससि ।
आवयोः प्राणयोरत्र पणः स्यादिति वै मुने ॥४७॥

एवमुक्ते गौतमेन तथेत्याह वणिक्तदा ।
पुनरप्यूचतुरुभौ लोकाँल्लोकास्तथोचिरे ॥४८॥

योगेश्वरस्य पुरतो गौतम्या दक्षिणे तटे ।
तं निपात्य विशं विप्रश्चक्षुरुत्पाट्य चाब्रवीत् ॥४९॥

विप्र उवाच
गतोऽसीमां दशां वैश्य नित्यं धर्मप्रशंसया ।
गतं धनं गतं चक्षुश्छेदितौ करपल्लवौ ॥
पृष्टोऽसि मित्र गच्छामि मैवं ब्रूयाः कथान्तरे ॥५०॥

ब्रह्मोवाच
तस्मिन्प्रयाते वैश्योऽसौ चिन्तयामास चेतसि ।
हा कष्टं मे किमभवद्धर्मैकमनसो हरे ॥५१॥

स कुण्डलो वणिक्श्रेष्ठो निर्धनो गतवाहुकः ।
गतनेत्रः शुचं प्राप्तो धर्ममेवानुसंस्मरन् ॥५२॥

एवं बहुविधां चिन्तां कुर्वन्नास्ते महीतले ।
निश्चेष्टोऽथ निरुत्साहः पतितः शोकसागरे ॥५३॥

दिनावसाने शर्वर्यामुदिते चन्द्रमण्डले ।
एकादश्यां शुक्लपक्षे तत्राऽऽयाति विभीषणः ॥५४॥

स तु योगेश्वरं देवं पूजयित्वा यथाविधि ।
स्नात्वा तु गौतमीं गङ्गां सपुत्रो राक्षसैर्वृतः ॥५५॥

विभीषणस्य हि सुतो विभीषण इवापरः ।
वैभीषणिरिति ख्यातस्तमपश्यदुवाच ह ॥५६॥

वैश्यस्य वचनं श्रुत्वा यथावृत्तं स धर्मवित् ।
पित्रे निवेदयामास लङ्केशाय महात्मने ॥
सतु लङ्केश्वरः प्राह पुत्रं प्रीत्य गुणाकरम् ॥५७॥

विभीषण उवाच
श्रीमान्रामो मम गुरुस्तस्य मान्यः सखा मम ।
हनुमानिति विख्यातस्तेनाऽऽनीतो गिरिर्महान् ॥५८॥

पुरा कार्यान्तरे प्राप्ते सर्वैषध्याश्रयोऽचलः ।
जाते कार्ये तमादाय हिमवन्तमथागमत् ॥५९॥

विशल्यकरणी चेति मृतसंजीवनीति च ।
तदाऽऽनीय महाबुद्धी रामायाक्लिष्टकर्मणे ॥६०॥

निवेदयित्वा तत्साध्यं तस्मिन्वृत्ते समागतः ।
पुनर्गिरिं समादाय आगच्छेद्देवपर्वतम् ॥६१॥

तामानीयास्य हृदये निवेशय हरिं स्मरन् ।
ततः प्राप्स्यत्ययं सर्वमपेक्षितमुदारधीः ॥६२॥

गच्छतस्तस्य वेगेन विशल्यकरणी पुनः ।
अपतद्‌गौतमीतीरे यत्र योगेश्वरो हरिः ॥६३॥

वैभीषणिरुवाच
तामोषधीं मम पितर्दर्शयाऽऽशु विलम्ब मा ।
परार्तिशमनादन्यच्छ्रेयो न भुवनत्रये ॥६४॥

ब्रह्मोवाच
विभीषणस्तथेत्युक्त्वा तां पुत्रस्याप्यदर्शयत् ।
इषे त्वेत्यस्य वृक्षस्य शाखां चिच्छेद तत्सुतः ॥
वैश्यस्य चैपि वै प्रीत्य सन्तः परहिते रताः ॥६५॥

वैभीषणिरुवाच
यत्रापतन्नगे चास्मिन्स वृक्षस्तु प्रतापवान् ।
तस्य शाखां समादाय हृदयेऽस्य विनेशय ॥
तत्स्पृष्टमात्र एवासौ स्वकं रूपमवाप्नुयात् ॥६६॥

ब्रह्मोवाच
एतच्छ्रुत्वा पितुर्वाक्यं वैभषणिरुदारधीः ।
तथा चकार वै सम्यक्काष्ठखण्डं न्यवेशयत् ॥६७॥

हृदये स तु वैश्योऽपि सचक्षुः सकरोऽभवत् ।
मणिमन्त्रौषधीनां हि वीर्थं कोऽपि न बुध्यते ॥६८॥

तदेव काष्ठमादाय धर्ममेवानुसंस्मरन् ।
स्नात्वा तु गौतमीं गङ्गां तथा योगेश्वरं हरिम् ॥६९॥

नमस्कृत्वा पुनरगात्कष्ठखण्डेन वैश्यकः ।
परिभ्रमन्नृपपुरं महापुरमिति श्रुतम् ॥७०॥

महाराज इति ख्यातस्तत्र राजा महाबलः ।
तस्य नास्ति सुतः कश्चित्पुत्रिका नष्टलोचना ॥७१॥

सैव तस्य सुता पुत्रस्तस्यापि व्रतमिदृशम् ।
देवो वा दानवो वाऽपि ब्राह्मणः क्षत्रियो भवेत् ॥७२॥

वैश्यो वा शुद्रयोनिर्वा सगुणो निर्गुणोऽपि वा ।
तस्मै देया इयं पुत्री यो नेत्रे आहरिष्यति ॥७३॥

राज्येन सह देयेयमिति राजा ह्यघोषयत् ।
अहर्निशमसौ वैश्यः श्रुत्वा घोषमथाब्रवीत् ॥७४॥

वैश्य उवाच
अहं नेत्रे आहरिष्ये राजपुत्र्या असंशयम् ॥७५॥

ब्रह्मोवाच
तं वैश्यं तरसाऽऽदाय महाराज्ञे न्यवेदयत् ।
तत्काष्ठस्पर्शमात्रेण सनेत्राऽभून्नृपात्मजा ॥७६॥

ततः सविस्मयो राजा को भवानिति चाब्रवीत् ।
वैश्यो राज्ञे यथावृत्त न्यवेदयदशेषतः ॥७७॥

वैश्य उवाच
ब्राह्मणानां प्रसादेन धर्मस्य तपसस्तथा ।
दानप्रभावाद्यज्ञैश्च विविधैर्भूरिदक्षिणैः ॥
दिव्यौषधिप्रभावेन मम सामर्थ्यमीदृशम् ॥७८॥

ब्रह्मोवाच
एतद्वैश्यवचः श्रुत्वा विस्मितोऽभून्महीपतिः ॥७९॥

राजोवाच
अहो महानुभावोऽयं प्रायो वृन्दारको भवेत् ।
अन्यथैतादृगन्यस्य सामर्थ्यं दृश्यते कथम् ॥
तस्मादस्मै तु तां कन्यां प्रदास्ये राजपूर्विकाम् ॥८०॥

ब्रह्मोवाच
इति संकल्प्य मनसि कन्यां राज्यं च दत्तवान् ।
विहारार्थं गतः स्वैरं परं खेदमुपागतः ॥८१॥

न मित्रण विना राज्यं न मित्रेण विना सुखम् ।
तमेव सततं विप्रं चिन्तयन्वैश्यनन्दनः ॥८२॥

एतदेव सुजातानां लक्षणं भुवि देहिनाम् ।
कृपार्द्रं यन्मनो नित्यं तेषामप्यहितेषु हि ॥८३॥

महानृपो वनं प्रायात्स राजा मणिकुण्डलः ।
तस्मिञ्शासति राज्यं तु कदाचिद्‌गौतमं द्विजम् ॥८४॥

हृतस्वं द्यूतकैः पापैरपश्यन्मणिकुण्डलः ।
तमादाय द्विजं मित्रं पूजयामास धर्मवित् ॥८५॥

धर्माणां तु प्रभावं तं तस्मै सर्वं न्यवेदयत् ।
स्नापयामास गङ्गायां तं सर्वाघनिवृत्तये ॥८६॥

तेन विप्रेण सर्वैस्तैः स्वकीयैर्गोत्रजैर्वृतः ।
वैश्यैः स्वदेशसंभूतैर्ब्राह्मणस्य तु बान्धवैः ॥८७॥

वृद्धकौशिकमुख्यैश्च तस्मिन्योगेश्वरान्तिके ।
यज्ञानिष्ट्वा सुरान्पूज्य ततः स्वर्गमुपेयिवान् ॥८८॥

ततः प्रभृति तत्तीर्थं मृतसंजीवनं विदुः ।
चक्षुस्तीर्थं सयोगेशं स्मरणादपि पुण्यदम् ॥
मनःप्रसादजननं सर्वदुर्भावनाशनम् ॥८९॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये चक्षुस्तीर्थादिवर्णनं नाम सप्तत्यधिकशततमोऽध्यायः ॥१७०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP