TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ८०

ब्रह्मपुराणम् - अध्यायः ८०

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः ८०
अथाशीतितमोऽध्यायः
कपोततीर्थवर्णनम्
ब्रह्मोवाच
कुशावर्तस्य माहात्म्यमहं वक्तुं न ते क्षमः ।
तस्य स्मरणमात्रेण कृतकृत्यो भवेन्नरः ॥१॥

कुशावर्तमिति ख्यातं नराणां सर्वकामदम् ।
कुशोनाऽऽवर्तितं यत्र गौतमेन महात्मना ॥२॥

कुशोनाऽऽवर्तयित्वा तु आनयामास तां मुनिः ।
तत्र स्नानं च दानं च पितॄणां तृप्तिदायकम् ॥३॥

नीलगङ्गा सरित्छेष्ठा निःसृता नीलपर्वतात् ।
तत्र स्नानादि यकिंचित्करोति प्रयतो नरः ॥४॥

सर्वं तदक्षयं विद्यात्पितॄणां तृप्तिदायकम् ।
विश्रुतं त्रिषु लोकेषु कपोतं तीर्थमुत्तमम् ॥५॥

तस्य रूपं च वक्ष्यामि मुने शृणु महाफलम् ।
तत्र ब्रह्मगिरौ कश्चिद्व्याधः परमदारुणः ॥६॥

हिनस्ति ब्राह्मणान्साधून्यतीन्गोपक्षिणो मृगान् ।
एवंभूतः स पापात्मा क्रोधनोऽनृतभाषणः ॥७॥

भीषणकृतिरत्युग्रो नीलाक्षे ह्लास्वबाहुकः ।
दन्तुरो नष्टनासाक्षो ह्लास्वपात्पृथुकुक्षिकः ॥८॥

ह्लास्वोदरो हस्वभुजो विकृतो गर्दभस्वनः ।
पाशहस्तः पापचित्तः पापिष्ठः सधनुः सदा ॥९॥

तस्य भार्या तथाभूता अपत्यान्यपि नारद ।
तया तु प्रेर्यमाणोऽसौ विवेश गहनं वनम् ॥१०॥

स जघान मृगान्पापः पक्षिणो बहुरूपिणः ।
पञ्जरे प्राक्षिपत्कांश्चिज्जीवमानांस्तथेतरान् ॥११॥

क्षुधया परितप्ताङ्गो विहवलस्तृषया तथा ।
भ्रान्तदेशो बहुतरं न्यवर्तत गृहं प्रति ॥१२॥

ततोऽपराह्णे संप्राप्ते निवृत्ते मधुमाधवे ।
क्षणात्तडिद्गर्जितं च साभ्रं चैवाभवत्तदा ॥१३॥

ववौ वायुः साश्मवर्षो वारिधारातिभीषणः ।
स गच्छंल्लुब्धकः श्रान्तः पन्थानं नावबुध्यत ॥१४॥

जलं स्थलं गर्तमथो पन्थनमथवा दिशः ।
न बुबोध तदा पापः श्रान्तः शरणमप्यथ ॥१५॥

क्व गच्छामि क्व तिष्ठेयं किं करोमीत्यचिन्तयत् ।
सर्वेषांप्राणिनां प्राणानाहर्ताऽहं यथाऽन्तकः ॥१६॥

ममाप्यन्तकरं भूतं संप्राप्तं चाश्मवर्षणम् ।
त्रातारं नैव पश्यामि शिलां वा वृक्षमन्तिके ॥१७॥

एवं बहुविधं व्याधो विचिन्त्यापश्यदन्तिके ।
वने वनस्पतिमिव नक्षत्राणां यथाऽत्रिजम् ॥१८॥

मृगाणां च यथा सिंहमाश्रमाणां गृहाधिपम् ।
इन्द्रियाणां मन इव त्रातारं प्राणिनां नगम् ॥१९॥

श्रेष्ठ विटपिनं शुभ्रं शाखापल्लवमण्डितम् ।
तमाश्रित्योपविष्टोऽभूत्क्लिन्नवासा स लुब्धकः ॥२०॥

स्मरन्भार्यामपत्यानि जीवेयुरथवा न वा ।
एतस्मिन्नन्तरे तत्र चास्तं प्राप्त दिवाकरः ॥२१॥

तमेव नगमाश्रित्य कपोतो भार्यया सह ।
पुत्रपौत्रैः परिवृतो ह्यास्ते तत्र नगोत्तमे ॥२२॥

सुखेन निर्भयो भूत्वा सुतृप्तः प्रीत एव च ।
बहवो वत्सरा याता वसतस्तस्य पक्षिणः ॥२३॥

पतिव्रता तस्य भार्या सुप्रीता तेन चैव हि ।
कोटरे तन्नगे श्रेष्ठे जलवाय्वग्निवर्जिते ॥२४॥

भार्यापुत्रैः परिवृतः सर्वदाऽऽस्ते कपोतकः ।
तस्मिन्दि दैववशात्कपोतश्च कपोतकी ॥२५॥

भक्ष्यार्थं तु उभौ यातौ कपोतो नगमभ्यगात् ।
साऽपि दैववशात्पुत्र पञ्जरस्थैव वर्तते ॥२६॥

गृहीता लुब्धकेनाथ जीवमानेव वर्तते ।
कपोतकोऽप्यपत्यानि मातृहीनान्युदीक्ष्य च ॥२७॥

वर्षं च भीषणं प्राप्तमस्तं यातो दिवाकरः ।
स्वकोटरं तयाहीनमालोक्य विललाप सः ॥२८॥

तां बद्धां पञ्जरस्थां वा न बुबोध कपोतराट् ।
अन्वारेभे कपोतो वै प्रियाया गुणकीर्तनम् ॥२९॥

नाद्याप्यायाति कल्याणी मम हर्षविवर्धिनी ।
मम धर्मस्य जननी मम देहस्य चेश्वरी ॥३०॥

धर्मार्थकाममोक्षाणां सैव नित्यं सहायिनी ।
तुष्टे हसन्ती रुष्टे च मम दुःखप्रमार्जनी ॥३१॥

सखी मन्त्रेषु सा नित्यं मम वाक्यरता सदा ।
नाद्याप्यायाति कल्याणी संप्रयातेऽपि भास्करे ॥३२॥

न जानाति व्रतं मन्त्रं दैवं धर्मार्थमेव च ।
पतिव्रता पतिप्राणा पतिमन्त्रा पतिप्रिया ॥३३॥

नद्याप्यायाति कल्याणी किं करोमि क्व यामि वा ।
किं मे गृहं काननं च तया हीनं हि दृश्यते ॥३४॥

तया युक्तं श्रिया युक्तं भीषणं वाऽपि शोभनम् ।
नाद्याप्यायाति मे कान्ता यया गृहमुदीरितम् ॥३५॥

विनाऽनया न जीविष्ये त्यजे वाऽपि प्रियां तनुम् ।
किं कुर्वन्तु त्वपत्यानि लुप्तधर्मस्त्वहं पुनः ॥३६॥

एवं विलपतस्तस्य भर्तुर्वाक्यं निशम्य सा ।
पञ्जरस्थैव सा वाक्यं भर्तारमिदमब्रवीत् ॥३७॥

कपोतक्युवाच
अत्राहमस्मि बद्धैव विवशाऽस्मि खगोत्तम ।
आनीताऽहं लुब्धकेन बद्धा पाशैर्महामते ॥३८॥

धन्याऽस्म्यनुगृहीताऽस्मि पतिर्वक्ति गुणान्मम ।
सतो वाऽप्यसतो वाऽपि कृतार्थाऽहं न संशयः ॥३९॥

तुष्टे भर्रि नारीणां तुष्टाः स्युः सर्वदेवताः ।
विपर्यये तु नारीणामवश्यं नाशमाप्नुयात् ॥४०॥

त्वं दैवं त्वं प्रभुर्मह्यं त्वं सुहृत्त्वं परायणम् ।
त्वं व्रतं त्वं परं ब्रह्म स्वर्गो मोक्षस्तत्वमेव च ॥४१॥

मा चिन्तां कुरु कल्याण धर्मे बुद्धिं स्थिरां कुरु ।
त्वत्प्रसादाच्च भुक्ता हि भोगाश्च विविधा मया ॥४२॥

अलं खेदेन मज्जेन धर्मे बुद्धिं कुरु स्थिराम् ॥४३॥

ब्रह्मोवाच
इति श्रुत्वा प्रियावाक्यमुत्ततार नगोत्तमात् ।
यत्र सा पञ्जरस्था तु कपोती वर्तते त्वर (द्रुत)म् ॥४४॥

तामागत्य प्रियां दृष्ट्वा मृतवच्चापि लुब्धकम् ।
मोचयामीति तामाह निश्चेष्टो लुब्धकोऽधुना ॥४५॥

मा मुञ्चस्व महाभाग ज्ञात्वा संबन्धमस्थिरम् ।
लुब्धानां खेचरा ह्यन्नं जीवो जीवस्य चाशनम् ॥४६॥

नापराधं स्मराम्यस्य धर्मभुद्धिं स्थिरां कुरु ।
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ॥४७॥

पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ।
अभ्यागतमनुप्राप्तं वचनैस्तोषयन्ति ये ॥४८॥

तेषां वागीश्वरी देवी तृप्ता भवति निश्चितम् ।
तस्यान्नस्य प्रदानेन शक्रस्तृप्तिमवाप्नुयात् ॥४९॥

पिरतः पादशौचेन अन्नाद्येन प्रजापतिः ।
तस्योपचारद्वै लक्ष्मीर्विष्णुना प्रीतिमाप्नुयात् ॥५०॥

शयने सर्वदेवास्तु तस्मात्पूज्यतमोऽतिथिः ।
अभ्यागतमनुश्रान्तं सूर्योढं गृहमागतम् ॥

तं विद्याद्देवरूपेण सर्वक्रातुफलो ह्यसौ ॥५१॥
अभ्यागतं श्रान्तमनुव्रजन्ति, देवाश्च सर्वे पितरोऽग्नयश्च ।

तस्मिन्हि तृप्ते मुदमाप्नुवन्ति, गते निराशेऽपि च ते निराशाः ॥५२॥
तस्मात्सर्वात्मना कान्त दुःखं त्यक्त्वा शमं व्रज ।

कृत्वा तिष्ठ शुभां बुद्धिं धर्मकृत्यं समाचर ॥५३॥
उपकारोऽपकारश्च प्रवराविति संमतौ ।

उपकारिषु सर्वोऽपि करोत्युपकृतिं पुनः ॥५४॥
अपकारिषु यः साधु पुण्यभाक्स उदाहृतः ॥५५॥

कपोत उवाच
आवयोरनुरूपं च त्वयोक्तं साधु मन्यसे ।
किंतु वक्तव्यमप्यस्ति तच्छृणुष्व वरानने ॥५६॥

सहस्रं भरते कश्चिच्छतमन्यो दशापरः ।
आत्मानं च सुखेनान्यो वयं कष्टोदरंभराः ॥५७॥

गर्तधान्यधनाः केचित्कुशूलधनिनोऽपरे ।
घटक्षिप्तधनाः केचिच्चञ्चुक्षिप्तधना वयम् ॥५८॥

पूजयामि कथं श्रान्तमभ्यागतमिमं शुभे ॥५९॥

अग्निरापः शुभा वाणी तृणकाष्ठादिकं च यत् ।
एतदप्यर्थिने देयं शीतार्तो लुब्धकस्त्वयम् ॥६०॥

ब्रह्मोवाच
एतच्छ्रुत्वा प्रियावाक्यं वृक्षमारुह्य पक्षिराट् ।
आलोकयामास तदा वह्निं दूरं ददर्श ह ॥६१॥

स तु गत्वा वह्निदेशं चञ्चुनोल्मुकमाहरत् ।
पुरोऽग्निं ज्वालयामास लुब्धकस्य कपोतकः ॥६२॥

शुष्ककाष्ठानि पर्णानि तृणानि च पुनः पुनः ।
अग्नौ निक्षेपयामास निशीथे स कपोतराट् ॥६३॥

तमग्निं ज्वलितं दृष्ट्वा लुब्धकः शीतदुःखितः ।
अवशानि स्वकाङ्गानि प्रताप्य सुखमाप्तवान् ॥६४॥

क्षुधाग्निना दह्यमानं व्याधं दृष्ट्वा कपोतकी ।
मा मुञ्चस्व महाभाग इति भर्तारमब्रवीत् ॥६५॥

स्वशरीरेण दुःखार्तं लुब्धकं प्रीणयामि तम् ।
इष्टतिथीनां ये लोकास्तांस्त्वं प्राप्नुहि सुव्रत ॥६६॥

कपोत उवाच
मयि तिष्ठति नैवायं तव धर्मो विधियते ।
इष्टातिथिर्भवामीह अनुजानीहि मां शुभे ॥६७॥

ब्रह्मोवाच
इत्युक्त्वाऽग्निं त्रिरावर्त्य स्मरन्देवं चतुर्भुजम् ।
विश्वात्मकं महाविष्णुं शरण्यं भक्तवत्सलम् ॥६८॥

यथासुखं जुषस्वेति वदन्नग्निं तथाऽऽविशत् ।
तं दृष्ट्वाऽग्नौ क्षिप्तजीवं लुब्धको वाक्यमब्रवीत् ॥६९॥

लुब्धक उवाच
अहो मानुषदेहस्य धिग्जीवितमिदं मम ।
यदिदं पक्षिराजेन मदर्थे साहसं कृतम् ॥७०॥

ब्रह्मोवाच
एवं ब्रुवन्तं लुब्धं पक्षिणी वाक्यमब्रवीत् ॥७१॥

कपोत्युवाच
मां त्वं मुञ्च महाभाग दूरं यात्येष मे पतिः ॥७२॥

ब्रह्मोवाच
तस्यास्तद्वचनं श्रुत्वा पञ्जरस्थां कपोतकीम् ।
लुब्धको मोचयामास तरसा भीतवत्तदा ॥७३॥

साऽपि प्रदक्षिणं कृत्वा पतिमग्निं तदा जगौ ॥७४॥

कपोत्युवाच
स्त्रीणामयं परो धर्मो यद्भर्तुरनुवेशनम् ।
वेदे च विहितो मार्गं सर्वलोकेषु पूजितः ॥७५॥

व्यालग्राही यथा व्यालं बिलादुद्धरते बलात् ।
एवं त्वनुगता नारी सह भर्त्रा दिवं व्रजेत् ॥७६॥

तिस्रः कोटच्योऽर्धकोटी च यानि रोमाणि मानुषे ।
तापत्कालं वसेत्स्वर्गे भर्तारं याऽनुगच्छति ॥७७॥

नमस्कृत्वा भुवं देवान्गङ्गां चापि वनस्पतीन् ।
आश्वास्य तान्यपत्यानि लुब्धकं वाक्यमब्रवीत् ॥७८॥

कपोत्युवाच
त्वत्प्रसादान्महाभाग उपपन्नं ममेदृशम् ।
अपत्यानां क्षमस्वेह भर्त्रा यामि त्रिविष्टपम् ॥७९॥

ब्रह्मोवाच
इत्युक्त्वा पक्षिणी साध्वी प्रविवेश हुताशनम् ।
प्रविष्टायां हुतवहे जयशब्दो न्यवर्तत ॥८०॥

गगने सूर्यसंकाशं विमानमतिशोभनम् ।
तदाऽऽरूढौ सुरनिभौ दंपती ददृशे ततः ॥८१॥

हर्षेण प्रोचतुरुभौ लुब्धकं विस्मयान्वितम् ॥८२॥

दंपती ऊचतुः
गच्छावस्त्रिदशस्थानमापृष्टोऽसि महामते ।
आवयोः स्वर्गसोपानमतिथिस्त्वं नमोऽस्तु ते ॥८३॥

ब्रह्मो उवाच
विमानवरमारूढौ तौ दृष्ट्वा लुब्धकोऽपि सः ।
सधनुः पञ्जरं त्यक्त्वा कृताञ्जलिरभाषत ॥८४॥

लुब्धक उवाच
न त्यक्तव्यो महाभागौ देयं किंचिदजानते ।
अहमत्रातिथिर्मान्यो निष्कृतिं वक्तुमर्हथः ॥८५॥

दंपती ऊचतुः
गौतमीं गच्छ भद्रं ते तस्याः पापं निवेदय ।
तत्रैवाऽऽप्लवनात्पक्षं सर्वपापैर्विमोक्ष्यसे ॥८६॥

मुक्तपापः पुनस्तत्र गङ्गायामवगाहने ।
अश्वमेधफलं पुण्यं प्राप्य पुण्यो भविष्यसि ॥८७॥

सरिद्वरायां गौतम्यां ब्रह्मविष्ण्वीशसंभुवि ।
पुनराप्लवनादेव त्यक्त्वा देहं मलीमसम् ॥८८॥

विमानवरमारूढः स्वर्गं गन्ताऽस्यसंशयम् ॥८९॥

ब्रह्मोवाच
तच्छ्रुत्वा वचनं ताभ्यां तथा चक्रे स लुब्धकः ।
विमानवरमारूढो दिव्यरूपधरोऽभवत् ॥९०॥

दिव्यमाल्याम्बरधरः पूज्यमानोऽप्सरोगणैः ।
कपोतश्च कपोती च तृतीयो लुब्धकस्तथा ॥
गङ्गायाश्च प्रभावेण सर्वे वै दिवमाक्रमन् ॥९१॥

ततः प्रभृति तत्तीर्थं कापोतमिति विक्षुतम् ।
तत्र स्नानं च दानं च पितृपूजनमेव च ॥९२॥

जपयज्ञादिकं कर्मं तदानन्त्याय कल्पते ॥९३॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये कपोततीर्थवर्णनं नामाशीतितमोऽध्यायः ॥८०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:37.7100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

deltoid branch of thoraco-acromial artery

  • वक्ष-अंसकूट धमनीची त्रिकोणिका शाखा 
RANDOM WORD

Did you know?

श्रीदत्तपुराणटीका and more books for shree dattaray
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.