संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १०९

ब्रह्मपुराणम् - अध्यायः १०९

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ नवाधिकशततमोऽध्यायः
चक्रतीर्थवर्णनम्
ब्रह्मोवाच
चक्रतीर्थमिति ख्यातं ब्रह्महत्यादिनाशनम् ।
यत्र चक्रेश्वरो देवश्चक्रमाप यतो हरिः ॥१॥

यत्र विष्णुः स्वयं स्थित्वा चक्रार्थं शंकरं प्रभुः ।
पूजयामास तत्तीर्थं चक्रतीर्थमुदाहृतम् ॥२॥

यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ।
दक्षक्रतौ प्रवृत्ते तु देवानां च समागमे ॥३॥

दक्षेण दूषिते देवे शिवे शर्वं महेश्वरे ।
अनाह्वाने सुरेशस्य दक्षिचित्ते मलीमसे ॥४॥

दाक्षायण्या श्रुते वाक्ये अनाह्वानस्य कारणे ।
अहल्यायां चोक्तवत्यां कुपिताऽभूत्सुरेश्वरी ॥५॥

पितरं नाशये पापं क्षमेयं न कथंचन ।
श्रृण्वती दोषवाक्यानि पित्रा चोक्तानि भर्तरि ॥६॥

पत्युः श्रृण्वन्ति या निन्दां तासां पापावधिः कुतः ।
यादृशस्तादृशो वाऽपि पतिः स्त्रीणां परा गतिः ॥७॥

किं पुनः सकलाधीशो महादेवो जगद्गुरुः ।
श्रुतं तन्निन्दनं तर्हि धारयामि न देहकम् ॥८॥

तस्मात्त्यक्ष्य इमं देहमीत्युक्त्वा सा महासती ।
कोपेन महताऽऽविष्टा प्रजज्वाल सुरेश्वरी ॥९॥

शिवैकचेतना देहं बलाद्योगाच्च तत्यजे ।
महेश्वरोऽपि सकलं वृत्तमाकार्ण्य नारदात् ॥१०॥

दृष्ट्वा चुकोप पप्रच्छ जयां च विजयां तथा ।
ते ऊचतुरुभे देवं दक्षक्रतुविनाशनम् ॥११॥

दाक्षायण्या इति श्रुत्वा मखं प्रायान्महेश्वरः ।
भीमैर्गणैः परिवृतो भूतनाथैः समं ययौ ॥१२॥

मखस्तैर्वेष्टितः सर्वौ देवब्रह्मपुरस्कृतः ।
दक्षेण यजमानेन शुद्धभावेन रक्षितः ॥१३॥

वसिष्ठादिभिर्तयुग्रैर्मुनिभिः परिवारितः ।
इन्द्रादित्याद्यैर्वसुभिः सर्वतः परिपालितः ॥१४॥

ऋग्यजुः सामवेदैश्च स्वाहा शब्दैरलंकृतः ।
श्रद्धा पुष्टिस्तथा तुष्टिः शान्तिर्लज्जा सरस्वती ॥१५॥

भूमिर्द्यौं शर्वरी क्षान्तिरुषा आशा जया मतिः ।
एताभिश्च तथाऽडन्याभिः सर्वतः समलंकृतः ॥१६॥

त्वष्ट्रा महात्मना चापि कारितो विश्वकर्मणा ।
सुरभिर्नन्दिनी धेनुः कामधुक्कामदोहिनी ॥१७॥

एताभिः कामवर्षाभिः सर्वकामसमृद्धिमान् ।
कल्पवृक्षः पारिजातो लताः कल्पलतादिकाः ॥१८॥

यद्यदिष्टतमं किंचित्तत्र तस्मिन्मखे स्थितम् ।
स्वयं मघवता पूष्णा हरिणा परिरक्षितः ॥१९॥

दीयतां भुज्यतां वाऽपि क्रियतां स्थीयतां सुखम् ।
एतैश्च सर्वतो वाक्यैर्दक्षस्य पूजितं मखम् ॥२०॥

आदौ तु वीरभद्रोऽसौ भद्रकाल्या युतो ययौ ।
शोककोपररीतात्मा मश्चाच्छूलपिनाकधृक् ॥२१॥

अभ्याययौ महादेवो महाभूतैरलंकृतः ।
तानि भूतानि परितो मखे वेष्ट्य महेश्वरम् ॥२२॥

क्रतुं विध्वंसयामासुस्तत्र क्षोभो महानभूत् ।
पलायन्त ततः केचित्केचिद्गत्वा ततः शिवम् ॥२३॥

केचित्स्तुवन्ति देवेशं केचित्कुप्यन्ति शंकरम् ।
एवं विध्वंसितं यज्ञं दृष्ट्वा पूषा समभ्यगात् ॥२४॥

पूष्णो दन्तानथोत्पाट्य इन्द्रं व्यद्रावयत्क्षणात् ।
भगस्य चक्षुषी विप्र वीरभद्रो व्यपाटयत् ॥२५॥

दिवाकरं पुनर्दोर्भ्यां परिभ्राम्य समाक्षिपत् ।
ततः सुरगणाः सर्वे विष्णुं ते शरणं ययुः ॥२६॥

देवा ऊचुः
त्राहि त्राहि गदापणे भूतनाथकृताद्भयात् ।
महेश्वरगणः कश्चित्प्रमथानां तु नायकः ॥

तेन दग्धो मखः सर्वो वैष्णवः पश्यतो हरेः ॥२७॥

ब्रह्मोवाच
हरिणा चक्रमुत्सृष्टं भूतनाथवधं प्रति ।
भूतनाथोऽपि तच्चक्रमापतच्च तदाऽग्रसत् ॥२८॥

ग्रस्ते चक्रे ततो विष्णोर्लोकपाला भयाद्ययुः ।
तथा स्थितानवेक्ष्याथ दक्षो यज्ञं सुरानपि ॥
तुष्टाव शंकरं देवं दक्षो भक्त्या प्रजापिः ॥२९॥

दक्ष उवाच
जय शंकर सोमेश जय सर्वज्ञ शंभवे ।
जय कल्याणभृच्छंभो जय कालात्मने नमः ॥३०॥

आदिकर्तर्नमस्तेऽस्तु नीलकण्ठ नमोऽस्तु ते ।
ब्रह्मप्रिय नमस्तेऽस्तु ब्रह्मरूप नमोऽस्तु ते ॥३१॥

त्रिमूर्तये नमो देव त्रिधाम परमेश्वर ।
सर्वमूर्ते नमस्तेऽस्तु त्रैलोक्याधरा कामद ॥३२॥

नमो वेदान्तवेद्याय नमस्ते परमात्मने ।
यज्ञोरूप नमस्तेऽस्तु यज्ञधाम नमोऽस्तु ते ॥३३॥

यज्ञदान नमस्तेऽस्तु हव्यवाह नमोऽस्तु ते ।
यज्ञहर्त्रे नमस्तेऽस्तु फलदाय नमोऽस्तु ते ॥३४॥

त्राहि त्राहि जगन्नाथ शरणागतवत्सल ।
भक्तानामप्यभक्तानां त्वमेव शरणं प्रभो ॥३५॥

ब्रह्मोवाच
एवं तु स्तुवतस्तस्य प्रसन्नोऽभून्महेश्वरः ।
किं ददामीति तं प्राह क्रतुः पूर्णोऽस्तु मे प्रभो ॥३६॥

तथेत्युवाच भगवान्देवदेवो महेश्वरः ।
शंकरः सर्वभूतात्मा करुणावरुणालयः ॥३७॥

क्रतुं कृत्वा ततः पूर्णं तस्य दक्षस्य वै मुने ।
एवमुक्त्वा स भगवन्भूतैरन्तरधीयत ॥३८॥

यथागतं सुरा जग्मुः स्वमेव सदनं प्रति ।
ततः कदाचिद्देवानां दैत्यानां विग्रहो महान् ॥३९॥

बभूव तत्र दैवत्येभ्यो भीता देवाः श्रियः पतिम् ।
तुष्टुवुः सर्वभावेन वचोभिस्तं जनार्दनम् ॥४०॥

देवा ऊचुः
शक्रादयोऽपि त्रिदशाः कटाक्षमवेक्ष्य यस्यास्तप आचरन्ति ।
सा चापि यत्पादरता च लक्ष्मीसंत ब्रह्मभूतं शरणं प्रपद्ये ॥४१॥

यस्मात्त्रिलोक्यां न परः समानो, न चाधिकस्तार्क्ष्यरथाननृसिंहात् ।
स देवदेवोऽवतु नः समस्तान्महाभयेभ्यः कृपया प्रपन्नान् ॥४२॥

ब्रह्मोवाच
ततः प्रसन्नो भगवाञ्शङ्खचक्रगदाधरः ॥
किमर्थमागताः सर्वे तत्कर्ताऽस्मीत्युवाच तान् ॥४३॥

देवा ऊचुः
भयं च तीव्रं दैत्येभ्यो देवानां मधुसूदन ।
ततस्त्राणाय देवानां मतिं कुरु जनार्दन ॥४४॥

ब्रह्मोवाच
तानागतान्हरि प्राह ग्रस्तं चक्रं हरेण मे ।
किं करोमि गतं चक्रं भवन्तश्चार्तिमागताः ॥४५॥

यान्तु सर्वे देवगणा रक्षा वः क्रियते मया ॥४६॥

ब्रह्मोवाच
ततो गतेषु देवेषु विष्णुश्चक्रार्थमुद्यतः ।
गोदावरीं ततो गत्वा शंभोः पूजां प्रचक्रमे ॥४७॥

सुवर्णकमलैर्दिव्यैः सुगन्धैर्दशभिः शतैः ।
भक्तितो नित्यवत्पूजां चक्रे विष्णुरुमापतेः ॥४८॥

एवं संपूज्यमाने तु तयोस्तत्त्वमिदं श्रृणु ।
कमलानां सहस्रे तु यदेकं नैव पूर्यते ॥४९॥

तदाऽसुरारिः स्वं नेत्रमुत्पाट्यार्घ्यमकल्पयत् ।
अर्घ्यपात्रं करे गृह्म सहस्रकलान्वितम् ॥
ध्यात्वा शंभुं ददावर्घ्यमनन्यशरणो हरिः ॥५०॥

विष्णुरुवाच
त्वमेव देव जानीषे भावमन्तर्गतं नृणाम् ।
त्वमेव शरणोऽधीशोऽत्र का भवेद्विचारणा ॥५१॥

ब्रह्मोवाच
वदन्नुदश्रुनयनो निलित्येऽसावितीश्वरे ।
भवानीमहितः शंभुः पुरस्तादभवत्तदा ॥५२॥

गाढमालिङ्ग्य विविधैर्वरैरापूरयद्वरिम् ।
तदेव चक्रमभवन्नेत्रं चापि यथा पुरा ॥५३॥

ततः सुरगणाः सर्वे तुष्टुवुर्हरिशंकरौ ।
गङ्गां चापि सरिच्छेष्ठां देवं च वृषभध्वजम् ॥५४॥

ततः प्रभृति तत्तीर्थं चक्रतीर्थमिति स्मृतम् ।
यस्यानुश्रवणेनैव मुच्यते सर्वकिल्बिषैः ॥५५॥

तत्र स्नानं च दानं च यः कुर्यात्पितृतर्पणम् ।
सर्वपापविनिर्मुक्तः पितृभिः स्वर्गभाग्भवेत् ॥५६॥

तत्तु चक्राङ्कित तीर्थमद्यापि परिदृश्यते ॥५७॥
इति श्रमापुराणे आदिब्राह्मे चक्रतीर्थवर्णनं नाम नवाधिकशततमोऽध्यायः ॥१०९॥

गौतमीमाहात्म्ये चत्वारिंशत्तमोऽध्यायः ॥४०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP