TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २२५

ब्रह्मपुराणम् - अध्यायः २२५

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २२५
उमामहेश्वरसंवादे देवलोकप्राप्तिकारणकथनम्
उमोवाच
किं शीलः किं समाचारः पुरुषः कैश्च कर्मभिः ।
स्वर्गं समभिपद्येत संप्रदानेन केन वा ॥१॥

महेश्वर उवाच
दाता ब्राह्मणसत्कर्ता दीनार्तकृपणादिषु ।
भक्षभोज्यान्नपानानां वाससां च महामतिः ॥२॥

प्रतिश्रयान्सभाः कुर्यात्प्रपाः पुष्करिणीस्तथा ।
नित्यकादीनि कर्माणि करोति प्रयतः शुचिः ॥३॥

आसनं शयनं यानं गृहं रत्नं धनं तथा ।
सस्यजातानि सर्वाणि सक्षेत्राण्यथ योषितः ॥४॥

सुप्रशान्तमना नित्यं यः प्रयच्छति मानवः ।
एवं भूतो नरो देवि देवलोकेऽभिजायते ॥५॥

तत्रोष्य सुचिरं कालं भुक्त्वा भोगाननुत्तमान् ।
सहाप्सरोभिर्मुदितो रमित्वा नन्दनादिषु ॥६॥

तस्माच्चयुतो महेशानि मानुषेषूपजायते ।
महाभागकुले देवि धनधान्यसमाचिते ॥७॥

तत्र कामगुणैः सर्वैः समुपेतो मुदाऽन्वितः ।
महाकार्यो माभागो धनी भवति मानवः ॥८॥

?Bएते देवि महाभागाः प्राणिनो दानशालिनः ।
ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः ॥९॥

अपरे मानवा देवि प्रदानकृपणा द्विजाः ।
योऽन्नानि न प्रयच्छन्ति विद्यमानेऽप्यबुद्धयः ॥१०॥

दीनान्धकृपणान्दृष्ट्वा भिक्षुकानतिथीनपि ।
याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः ॥११॥

न धनानि न वासांसि न भोगान्न च काञ्चनम् ।
न गाश्च नान्नविकृतिं प्रयच्छन्ति कदाचन ॥१२॥

अप्रलुब्धाश्च ये लुब्धा नास्तिका दानवर्जिताः ।
एवं भूता नरा देवी निरयं यान्त्यबुद्धयः ॥१३॥

ते वै मनुष्यतां यान्ति यदा कालस्य पर्ययात् ।
धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः ॥१४॥

क्षुत्पिपासापरीताश्च सर्वलोकबहिष्कृताः ।
निराशाः सर्वभागेभ्यो जीवन्त्यधर्मजीविकाः ॥१५॥

अल्पभोगकुले जाता अल्पभोगरता नराः ।
अनेन कर्मणा देवि भवन्त्यधनिनो नराः ॥१६॥

अपरे दम्भिनो नित्यं मानिनः परतो रताः ।
आसनार्हस्य ये पीठं न यच्छन्त्यल्पचेतसः ॥१७॥

मार्गार्हस्य च ये मार्गं न प्रयच्छन्त्यबुद्धयः ।
अर्घार्हान्न च संस्कारैरर्चन्ति यथाविधि ॥१८॥

पाद्यमाचमनीयं वा प्रयच्छन्त्यभिबुद्धयः ।
शुभं चाभिमतं प्रेम्णा गुरुं नाभिवदन्ति ये ॥१९॥

अभिमानप्रवृद्धेन लोभेन सममास्थिताः ।
संमान्यांश्चावमन्यन्ते वृद्धान्परिभवन्ति च ॥२०॥

एवंविधा नरा देवि सर्वे निरयगामिनः ।
ते चेद्यदि नरास्तस्मान्निरयादुत्तरन्ति च ॥२१॥

वर्षपूगैस्ततो जन्म लभन्ते कुत्सिते कुले ।
श्वपाकपुल्कसादीनां कुत्सितानामचेतसाम् ॥२२॥
कुलेषु तेऽभिजायन्ते गुरुवद्धोपतापिनः ।
न दम्भी न च मानी यो देवता तिथिपूजकः ॥२३॥

लोकपूज्यो नमस्कर्ता प्रसूतो मधुरं वचः ।
सर्वकर्मप्रियकरः सर्वभूतप्रियः सदा ॥२४॥

अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा ।
स्वागतेनैव सर्वेषां भूतानामविहिंसकः ॥२५॥

यथार्थं सत्क्रियापूर्वमर्चयन्नवतिष्ठते ।
मार्गार्हाय ददन्मार्गं गुरुमभ्यर्चयन्सदा ॥२६॥

अतिथिप्रग्रहरतस्तथाऽभ्यागतपूजकः ।
एवंभूतो नरो देवि स्वर्गतिं प्रतिपद्यते ॥२७॥

ततो मानुष्यमासाद्य विशिष्टकुलजो भवेत् ।
तत्रासौ विपुलैर्भोगैः सर्वरत्नसमायुतः ॥२८॥

यर्थार्हादाता चार्हेषु धर्मचर्यापरो भवेत् ।
संमतः सर्भूतानां सर्वलोकनमस्कृतः ॥२९॥

स्वकर्मफलमाप्नोति स्वयमेव नरः सदा ।
एष धर्मो मया प्रोक्तो विधात्रा स्वयमीरितः ॥३०॥

यस्तु रौद्रसमाचारः सर्वसत्त्वभयंकरः ।
हस्ताभ्यां यदि वा पद्‌भ्यां रज्ज्वा दण्डेन वा पुनः ॥३१॥

लोष्टैः स्तम्भैरुपायैर्वा जन्तून्बाधेन शोभने ।
हिंसार्थं निष्कटतिप्रज्ञः प्रोद्वेजयति चैव हि ॥३२॥

उपक्रामति जन्तूंश्च उद्वेगजननः सदा ।
एवं शीलसमाचारो निरयं प्रतिपद्यते ॥३३॥

सचेन्मनुष्यतां गच्छेद्यदि कालस्य पर्ययात् ।
बह्वाबाधापरिक्लिष्टे कुले जयति सोऽधमे ॥३४॥

लोकद्विष्टोऽधमः पुंसां स्वयं कर्मकृतैः फलैः ।
एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु ॥३५॥

अपरः सर्वभूतानि दयावाननुपश्यति ।
मैत्री दृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः ॥३६॥

नोद्वेजयति भूतानि न च हन्ति दयापरः ।
हस्तपादैश्च नियतैर्विश्वास्यः सर्वजन्तुषु ॥३७॥

न रज्ज्वा न च दण्डेन न लोष्टैर्नाऽऽयुधेन च ।
उद्वेजयति भूतानि शुभकर्मा दयापरः ॥३८॥

एवं शीलसमाचारः स्वर्गे समुपजायते ।
तत्रासौ भवने दिव्ये मुदा वसति देववत् ॥३९॥

स चेत्स्वर्गक्षयान्मतर्त्यो मनुष्येषूपजायते ।
अल्पायासो निरातङ्कः स जातः सुखमेधते ॥४०॥

सुखभागी निरायासो निरुद्वेगः सदा नरः ।
एष देवि सतां मार्गो बाधा यत्र न विद्यते ॥४१॥

उमोवाच
इमे मनुष्य दृश्यन्ते ऊहापोहविशारदाः ।
ज्ञानविज्ञानसंपन्नाः प्रज्ञावन्तोऽर्थकोविदाः ॥४२॥

दुष्प्रज्ञाश्चापरे देव ज्ञानविज्ञानवर्जिताः ।
केन कर्मविपाकेन प्रज्ञावान्पुरुषो भवेत् ॥४३॥

अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः ।
एवं त्वं संश्यं छिन्धि सर्वधर्मभृतां वर ॥४४॥

जात्यन्धाश्चापरे देव रोगार्ताश्चापरे तथा ।
नराः क्लीबाश्च दृश्यन्ते कारणं ब्रूहि तत्र वै ॥४५॥

महेश्वर उवाच
ब्राह्मणान्वेदविदुषः सिद्धान्धर्मविदस्तथा ।
परिच्छन्त्यरहः कुशलाकुशलं सदा ॥४६॥

वर्जयन्तोऽशुभं कर्म सेवमानाः शुभं तथा ।
लभन्ते स्वर्गतिं नित्यमिह लोके यथासुखम् ॥४७॥

स चेन्मनुष्यतां याति मेधावी तत्र जायते ।
श्रुतं यज्ञानुगं यस्य कल्याणमुपजायते ॥४८॥

परदारेषु ये चापि चक्षुर्दुष्टं प्रयुञ्जते ।
तेन दुष्टस्वभावेन जात्यन्धास्ते भवन्ति हि ॥४९॥

मनसाऽपि प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम् ।
रोगार्तास्ते भवन्तीह नरा दुष्कृतकारिणः ॥५०॥

ये तु मूढा दुराचारा वियोनौ मैथुने रताः ।
पुरुषेषु सुदुष्प्रज्ञाः क्लीबत्वमुपयान्ति ते ॥५१॥

पशूंश्च ये वै बध्नन्ति चैव गुरुतल्पगाः ।
प्रीकर्णमैथुना ये च क्लीब, जायन्ति वै नराः ॥५२॥

उमोवाच
अवद्यं किं तु वै कर्म निरवद्यं तथैव च ।
श्रेयः कुर्वन्नवाप्नोति मानवो देवसत्तम ॥५३॥

महेश्वर उवाच
श्रेयांसं मार्गमन्विच्छन्सदा यः पृच्छति द्विजान् ।
धर्मान्वेषी गुणाकाङ्क्षी स स्वर्गं समुपाश्नुते ॥५४॥

यदि मानुष्यतां देवि कदाचित्संनियच्छति ।
मेधावी धारणायुक्तः प्राज्ञस्तत्रापि जायते ॥५५॥

एष देवि सतां धर्मो गन्तव्यो भूतिकारकः ।
नृणां हितार्थाय सदा मया चैवमुदाहृतः ॥५६॥

उमोवाच
अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः ।
ब्राह्मणान्वेदविदुषो नेच्छन्ति परिसर्पितुम् ॥५७॥

व्रतवन्तो नराः केचिच्छ्रद्धादमपरायणाः ।
अव्रता भ्रष्टनियमास्तथाऽन्ये राक्षसोपमाः ॥५८॥

यज्वानश्च तथैवान्ये निर्मोहाश्च तथा परे ।
केन कर्मविपाकेन भवन्तीह वदस्व मे ॥५९॥

महेश्वर उवाच
आगमालोकधर्माणां मर्यादाः पूर्वनिर्मिताः ।
प्रमाणेनानुवर्तन्ते दृश्यन्ते ह दृढव्रताः ॥६०॥

अधर्मं धर्ममित्याहुर्ये च मोहवशं गताः ।
अव्रता नष्टमर्यादास्ते नरा ब्रह्मराक्षसाः ॥६१॥

ये वै कालकृतोद्योगात्संभवन्तीह मानवाः ।
निर्होमा निर्वषट्कारास्ते भवन्ति नराधमाः ॥६२॥

एष देवि मया सर्वसंशयच्छेदनाय ते ।
कुशलाकुशलो नॄणां व्याख्यातो धर्मसागरः ॥६३॥

इति श्रीमहापुराणे आदिब्राह्मे उमामहेश्वरसंवादे धर्मनिरूपणं नाम पञ्चविंशत्यधिकद्विशततमोऽध्यायः ॥२२५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:46.0830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

protohymenium

  • पु. Bot. आद्यजननस्तर 
  • पु. आद्यहायमेनिअम 
RANDOM WORD

Did you know?

सौभाग्यवती स्त्रियांनी कुंकू का लावावे ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.