TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २४०

ब्रह्मपुराणम् - अध्यायः २४०

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २४०
सांख्यविधिनिरूपणम्
मुनय ऊचुः
सम्यक्क्रियेयं विप्रेन्द्र वर्णिता शिष्टसंमता ।
योगमार्गो यथान्यायं शिष्यायेह हितषिणा ॥१॥

सांख्ये त्विदानीं धर्मस्य विधिं प्रब्रूहि तत्त्वतः ।
त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्‌विदितं हि ते ॥२॥

व्यास उवाच
श्रृणुध्वं मुनयः सर्वमाख्यानं विदितात्मनाम् ।
विहितं यतिभिर्वृद्धैः कपिलादिभिरीश्वरैः ॥३॥

यस्मिन्सुविभ्रामाः केचिद्‌दृश्यन्ते मुनिसत्तमाः ।
गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला ॥४॥

ज्ञानेन परिसंख्याय सदोषान्विषयान्द्विजाः ।
मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा ॥५॥

विषयानौरगाञ्ज्ञात्वा गन्धर्वविषयांस्तथा ।
पितॄणां विषयाञ्ज्ञात्वा तिर्यक्त्वं चरतां द्विजाः ॥६॥

सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा ।
महर्षिविषयांश्चैव राजर्षिविषयांस्तथा ॥७॥

आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च ।
देवर्षिविषयाञ्ज्ञात्वा योगानामपि वै परान् । ॥८॥

विषयांश्च प्रमाणस्य ब्रह्मणो विषयांतथा ।
आयुषश्च परं कालं लोकैर्विज्ञाय तत्त्वतः ॥९॥

सुखस्य च परं कालं विज्ञाय मुनिसत्तमाः ।
प्राप्तकाले च यद्‌दुःखं पततां विषयैषिणाम् ॥१०॥

तिर्यक्त्वे पततां विप्रास्तथैव नरकेषु यत् ।
स्वर्गस्य च गुणाञ्ज्ञात्वा दोषान्सर्वांश्च भो द्विजाः ॥११॥

वेदवादे च ये दोषा गुणा ये चापि वैदिकाः ।
ज्ञानयोगे च ये दोषा ज्ञानयोगे च ये गुणाः ॥१२॥

सांख्यज्ञाने च ये दोषांस्तथैव च गुणां तथा ।
षड्गुणं च नभो ज्ञात्वा तमश्च त्रिगुणं महत् ॥१३॥

तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा ।
षड्गुणं च नभो ज्ञात्वा तपश्च त्रिगुणं महत् ॥१४॥

द्विगुणं च रजो ज्ञात्वा सत्त्वं चैकगुणं पुनः ।
मार्गं विज्ञाय तत्त्वेन प्रलयप्रेक्षणेन तु ॥१५॥

ज्ञानविज्ञानसंपन्नाः कारणैर्भावितात्मभिः ।
प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम् ॥१६॥

रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च ।
शब्दग्राह्यं तथा श्रोत्रं जिह्वां रसगुणेन च ॥१७॥

त्वचं स्पर्शं तथा शक्यं वायुं चैव तदाश्रितम् ।
मोहं तमसि संयुक्तं लोभं मोहेषु संश्रिताः ॥१८॥

विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथाऽनलम् ।
अप्सु देवीं समायुक्तामापस्तेजसि संश्रिताः ॥१९॥

तेजो वायौ तु संयुक्तं वायुं नभसि चाऽऽश्रितम् ।
नभो महति संयुक्तं तमो महसि संस्थितम् ॥२०॥

रजः सत्त्वं तथा सक्तं सत्त्वं सक्तं तथाऽऽत्मनि ।
सक्तमात्मानमीशे च देवे नारायणे तथा ॥२१॥

देवं मोक्षे च संयुक्तं ततो मोक्षं च न क्वचित् ।
ज्ञात्वा सत्त्वगुणं देहं वृतं षोडशभिर्गुणैः ॥२२॥

स्वभावं भावनां चैव ज्ञात्वा देहसमाश्रिताम् ।
मध्यस्थमिव चाऽऽत्मानं पापं यस्मिन्न विद्यत ॥२३॥

द्वितीयं कर्म वै ज्ञात्वा विप्रेन्द्रा विष्यैषिणाम् ।
इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान् ॥२४॥

दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् ।
प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः ॥२५॥

आद्यं चैवानिलं ज्ञात्वा प्रभवं चानिलं पुनः ।
सप्तधा तांस्तथा शेषासप्तधा विधिवत्पुनः ॥२६॥

प्रजापतीनृषींश्चैव सर्गांश्च सुबहून्वरान् ।
सप्तर्षीश्च बहूञ्ज्ञात्वा राजर्षींश्च परंतपान् ॥२७॥

सुरर्षीन्मरुतश्चान्यान्ब्रह्मर्षीन्सूर्यसंनिभान् ।
ऐश्वर्याच्च्यावितान्दृष्ट्वा कालेन महता द्विजाः ॥२८॥

महतां भूतसंघानां श्रुत्वा नाशं च भो द्विजाः ।
गतिं वाचां शुभां ज्ञात्वा अर्चार्हाः पापकर्मणाम् ॥२९॥

वैतरण्यां च यद्‌दुःखं पतितानां यमक्षये ।
योनिषु च विचित्रासु संचारानशुभांस्तथा ॥३०॥

जठरे चाशुभे वासं शोणितोदकभाजने ।
श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते ॥३१॥

शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे ।
शिरशतसमाकीर्णे नवद्वारे पुरेऽथ वै ॥३२॥

विज्ञाय हितमात्मानं योगांश्च विविधान्द्विजाः ।
तामसानां च जन्तूनां रमणीयानृतात्मनाम् ॥३३॥

सात्त्विकानां च जन्तूनां कुत्सितं मुनिसत्तमाः ।
गर्हिंतं महातामर्थे सांख्यानां विदितात्मनाम् ॥३४॥

उपप्लवांस्तथा घोराञ्शशिनस्तेजस्तथा ।
ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् ॥३५॥

द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं द्विजाः ।
अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम् ॥३६॥

बाल्ये मोहं च विज्ञाय पक्षदेहस्य चाशुभम् ।
रागं मोहं च संप्राप्तं क्वचित्सत्त्वं समाश्रितम् ॥३७॥

सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः ।
दुर्लभत्वं च मोक्षस्य विज्ञानं श्रुतिपूर्वकम् ॥३८॥

बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः ।
विषयाणां च दौरात्म्यं विज्ञाय च पुनर्द्विजाः ॥३९॥

गतासूनां च सत्त्वानां देहान्भित्त्वा तथा शुभान् ।
वासं कुलेषु जन्तूनां मरणाय धृतात्मनाम् ॥४०॥

सात्त्विकानां च जन्तूनां दुःखं विज्ञाय भो द्विजाः ।
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् ॥४१॥

सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् ।
गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ॥४२॥

जननीषु च वर्तन्ते येन सम्यग्द्विजोत्तमाः ।
सदेवकेषु लोकेषु येन वर्तन्ति मानवाः ॥४३॥

तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् ।
तिर्यग्योनिगतानां च विज्ञाय च गतीः पृथक् ॥४४॥

वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा ।
क्षयं संवत्सराणां च मासानां च क्षयं तथा ॥४५॥

पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम् ।
क्षय संवत्सराणां च मासानां च क्षयं तथा ॥४६॥

वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः ।
क्षयं धनानां दृष्ट्वा च पुनर्वृद्धिं तथैव च ॥४७॥

संयोगानां तथा दृष्ट्वा युगानां च विशेषतः ।
देहवैक्लव्यतां चैव सम्यग्विज्ञाय तत्त्वतः ॥४८॥

?Bआत्मदोषांश्च विज्ञाय सर्वानात्मनि संस्थितान् ।
स्वदेहादुत्थितान्गन्धांस्तथा विज्ञाय चाशुभाम् ॥४९॥

मुनय ऊचुः
कानुत्पातभवान्दोषान्पश्यति ब्रह्मवित्तम ।
एतं नः संशयं कृत्स्नं वक्तुमर्हस्यशेषतः ॥५०॥

व्यास उवाच
पञ्च दोषान्द्विजा देहे प्रवदन्ति मनीषिणः ।
मार्गज्ञाः कापिलाः सांख्याः श्रृणुध्वं मुनिसत्तमाः ॥५१॥

कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते ।
एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् ॥५२॥

छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात् ।
सत्त्वसंसेवनान्निद्रामप्रमादाद्भयं तथा ॥५३॥

छिन्दन्ति पञ्चमं श्वासमल्पाहारतया द्विजाः ।
गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि ॥५४॥

हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः ।
अपां फेनोपमं लोकं विष्णोर्मायाशतैः कृतम् ॥५५॥

चित्रभित्तिप्रतीकाशं नलसारमनर्थकम् ।
तमः संभ्रमितं दृष्ट्वा वर्षबुद्‌बुदसंनिभम् ॥५६॥

नाशप्रायं सुखाधानं नाशोत्तरमहाभयम् ।
रजस्तमसि संमग्नं पङ्के द्विपमिवावशम् ॥५७॥

सांख्या विप्रा महाप्राज्ञास्त्यक्त्वा स्नेहं प्रजाकृतम् ।
ज्ञानज्ञेयेन सांख्येन व्यापिना महता द्विजाः ॥५८॥

राजसानशुभान्गन्धांस्तामसांश्च तथाविधान् ।
पुण्यांश्च सात्त्विकान्गन्धान्स्पर्शजान्देहसंश्रितान् ॥५९॥

छित्त्वाऽऽमज्ञानशस्त्रेण तपोदण्डेन सत्तमाः ।
ततो दुःखादिकं घोरं चिन्ताशोकमहाह्रदम् ॥६०॥

व्याधिमत्युमहाघोरं महाभयमहोरगम् ।
ततः कूर्मं रजोमीनं प्रज्ञया संतरन्त्युत ॥६१॥

स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपं द्विजोत्तमाः ।
कर्मागाधं सत्यतीरं स्थितं व्रतमनीषिणः ॥६२॥

हर्षसंघमहावेगं नानारससमाकुलम् ।
नानाप्रीतिमहारत्नं दुःखज्वरसमीरितम् ॥६३॥

शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहारुजम् ।
अस्थिसंघातसंघट्टं श्लेष्मयोगं द्विजोत्तमाः ॥६४॥

दानमुक्ताकरं घोरं शोणितोद्‌गारविद्रुमम् ।
हसितोत्क्रुष्टनिर्घोषं नानाज्ञासुदुष्करम् ॥६५॥

रोदनाश्रुमलक्षारं सङ्गयोगपरायणम् ।
प्रलब्ध्वा जन्मलोको यं पुत्रबान्धवपत्तनम् ॥६६॥

अहिंसासत्यमर्यादं प्राणयोगमयोर्मिलम् ।
वृन्दानुगामिनं क्षीरं सर्वभूतपयोदधिम् ॥६७॥

मोक्षदुर्लभविषयं वाडवासुखसागरम् ।
तरन्ति यतयः सिद्धा ज्ञानयोगेन चानघाः ॥६८॥

तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः ।
ततस्तान्सुकृतीञ्ज्ञात्वा सूर्यो वहतिरश्मिभिः ॥६९॥

पद्‌मतन्तुवदाविश्य प्रवहन्विषयान्द्विजाः ।
तत्र तान्प्रवहो वायुः प्रतिगृह्णाति चानघाः ॥७०॥

वीतरागान्यतीन्सिद्धान्वीर्ययुक्तांस्तपोधनान् ।
सूक्ष्मः शीतः सुगन्धश्च सुखस्पर्शश्च भो द्विजाः ॥७१॥

सप्तानां मरुतां श्रेष्ठो लोकान्गच्छति यः शुभान् ।
स तान्वहति विप्रेन्द्रा नभसः परमां गतिम् ॥७२॥

नभो वहति लोकेशान्रजसः परमां गतिम् ।
रजो वहति विप्रेन्द्राः सत्त्वस्य परमांगतिम् ॥७३॥

सत्त्वं वहति शुद्धात्मा परं नारायणं प्रभुम् ।
प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना ॥७४॥

परमात्मानमासाद्य तद्‌भूता यतयोऽमलाः ।
अमृतत्वाय कल्पन्ते न निवर्तन्ति च द्विजाः ॥७५॥

परमा सा गतिर्विप्रा निर्द्वन्द्वानां महात्मनाम् ।
सत्यार्जवरतानां वै सर्वभूतदयावताम् ॥७६॥

मुनय ऊचुः
स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः ।
आजन्ममरणं वा ते रमन्ते तत्र वा न वा ॥७७॥

यदत्र तथ्यं तत्त्वं नो यथावद्वक्तुमर्हसि ।
त्वदृते मानवं नान्यं प्रष्टुमर्हाम सत्तम ॥७८॥

मोक्षदोषो महानेष प्राप्य सिद्धिं गतानृषीन् ।
यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥७९॥

प्रवृत्तिलक्षणं धर्मं पश्याम परमं द्विज ।
मग्नस्य हि परे ज्ञाने किंतु दुःखान्तरं भवेत् ॥८०॥

व्यास उवाच
यथानायायं मुनिश्रेष्ठाः प्रश्नः पृष्टश्च संकटः ।
बुधानामपि संमोहः प्रश्नेऽस्मिन्मुनिसत्तमाः ॥८१॥

अत्रापि तत्त्वं परमं श्रृणुध्वं वचनं मम ।
बुद्धिश्च परमा यत्र कपिलानां महात्मनाम् ॥८२॥

इन्द्रियाण्यपि बुध्यन्ते स्वदेहं देहिनां द्विजाः ।
करणान्यात्मनस्तानि सूक्ष्मं पश्यन्ति तैस्तु सः ॥८३॥

आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु ।
विनश्यन्ति न संदेहो वेला इव महार्णवे ॥८४॥

इन्द्रियैः सह सुप्तस्य देहिनो द्विजसत्तमाः ।
सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः ॥८५॥

स पश्यति यथान्यायं स्मृत्वा स्पृशति चानघाः ।
बुध्यमानो यथापूर्वमखिलेनेह भो द्विजाः ॥८६॥

इन्द्रियाणि ह सर्वाणि स्वे स्वे स्थाने यथाविधि ।
अनीशत्वात्प्रलीयन्ते सर्पा विषहता इव ॥८७॥

इन्द्रियाणि ह सर्वाणि स्वस्थानेष्वेव सर्वशः ।
आक्रम्य गतयः सूक्ष्माव(श्च)रत्यात्मा न संशयः ॥८८॥

सत्त्वस्य च गुणान्कृत्स्नान्रजसश्च गुणान्पुनः ।
गुणांश्च तमसः सर्वान्गुणान्बुद्धेश्च सत्तमाः ॥८९॥

गुणांश्च मनसश्चापि नभसश्च गुणांस्तथा ।
गुणान्वायोश्च सर्वज्ञाः स्नेहजांश्च गुणान्पुनः ॥९०॥

अपां गुणास्तथा विप्राः पार्थिवांश्च गुणानपि ।
सर्वानेव गुणैर्व्याप्य क्षेत्रज्ञेषु द्विजोत्तमाः ॥९१॥

आत्मा चरति क्षेत्रज्ञः कर्मणा च शुभाशुभे ।
शिष्या इवमहात्मानमिन्द्रियाणि च तं द्विजाः ॥९२॥

प्रकृतिं चाप्यतिक्रम्य सुद्धं सूक्ष्मं परात्परम् ।
नारायणं महात्मानं निर्विकारं परात्परम् ॥९३॥

विमुक्तं सर्वपापेक्ष्यः प्रविष्टं च ह्यनामयम् ।
परमात्मानमगुणं निर्वृतं तं च सप्तमाः ॥९४॥

श्रेष्ठं तत्र मनो विप्रा इन्द्रियाणि च भोः द्विजाः ।
आगच्छन्ति यथाकालं गुरोः संदेशकारिणः ॥९५॥

शक्यं वाऽल्पेन कालेन शान्तिं प्राप्तुं गुणांस्तथा ।
एवमुक्तेन विप्रेन्द्राः सांख्य योगेन मोक्षिणीम् ॥९६॥

सांख्या विप्रा महाप्राज्ञा गच्छन्ति परमां गतिम् ।
ज्ञानेनानेन विप्रेन्द्रास्तुल्यं ज्ञानं न विद्यते ॥९७॥

अत्र वः संशयो मा भूज्ज्ञानं सांख्यं परं मतम् ।
अक्षरं ध्रुवमेवोक्तं पूर्वं ब्रह्म सनातनम् ॥९८॥

अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम् ।
कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः ॥९९॥

यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।
एवं शंसन्ति शास्त्रेषु प्रवक्तारो महर्षयः ॥१००॥

सर्वे विप्राश्च वेदाश्च तथा सामविदो जनाः ।
ब्रह्मण्यं परमं देवमनन्तं परमाच्युतम् ॥१०१॥

प्रर्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः ।
सम्यगुक्तास्तथा योगाः सांख्याश्चामितदर्शनाः ॥१०२॥

अमूर्तिस्तस्य विप्रेन्द्राः सांख्यं मूर्तिरिति श्रुतिः ।
अभिज्ञानानि तस्याऽऽहुर्महान्ति मुनिसत्तमाः ॥१०३॥

द्विविधानि हि भूतानि पृथिव्यां द्विजसत्तमाः ।
अगम्यगम्यसंज्ञानि गम्यं तत्र विशिष्यते ॥१०४॥

ज्ञानं महद्वै महतश्च विप्रा, वेदेषु सांख्येषु तथैव योगे ।
यच्चापि दृष्टं विधिवत्पुराणे, सांख्यागतं तन्निखिलं मुनीन्द्राः ॥१०५॥

यच्चेतिहासेषु महत्सु दृष्टं, यथार्थशास्त्रेषु विशिष्टदृष्टम् ।
ज्ञानं च लोके यदिहास्ति किंचित्सांख्यागतं तच्च महामुनीन्द्राः ॥१०६॥

समस्तदृष्टं परमं बलं च, ज्ञानं च मोक्षश्च यथावदुक्तम् ।
तपांसि सूक्ष्माणि च यानि चैव, सांख्यं यथावद्विहितानि विप्राः ॥१०७॥

विपर्ययं तस्य हितं सदैव, गच्छन्ति सांख्याः सततं सुखेन ।
तांश्चापि संधार्य ततः कृतार्थाः, पतन्ति विप्रायतनेषु भूयः ॥१०८॥

हित्वा च देहं प्रविशन्ति मोक्षं दिवौकसश्चापि च योगसांख्याः ।
अतोऽधिकं तेऽभिरता महार्हे, साख्ये द्विजा भो इह शिष्टजुष्टे ॥१०९॥

तेषां तु तिर्यग्गमनं हि दृष्टं, नाधो गतिः पापकृतां निवासः ।
न वा प्रधाना अपि ते द्विजातयो, ये ज्ञानमेतन्मुनयो न सक्ताः ॥११०॥

सांख्यां विशालं परमं पुराणं, महार्णवं विमलमुदारकान्तम् ।
कृत्स्नं हि सांख्या मुनया महात्मनारायणे धारयथाप्रमेयम् ॥१११॥

एतन्मयोक्तं परमं हि तत्त्वं, नारायणाद्‌विश्वमिदं पुराणम् ।
स सर्गकाले च करोति सर्गं, संहारकाले च हरेत भूयः ॥११२॥

इति श्रीमहापुराणे आदिब्राह्मे व्यासऋषिसंवादे सांख्‌यविधिनिरूपणं नामैकोनचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:46.9130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

knack

  • स्त्री. हातोटी 
RANDOM WORD

Did you know?

Do we have copyrights for everything published on this website?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.