TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २२१

ब्रह्मपुराणम् - अध्यायः २२१

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २२१
सदाचारवर्णनम्
व्यास उवाच
एवं सम्यग्गृहस्थेन देवताः पितरस्तथा ।
संपूज्या हव्यकव्याभ्यामन्नेनातिथिबान्धवाः ॥१॥

भूतानि भृत्याः सकलाः पशुपक्षिपिपीलिकाः ।
भिक्षवो याचमानाश्च ये चान्ये पान्थका गृहे ॥२॥

सदाचाररता विप्राः साधुना गृहमेधिना ।
पापं भुङ्क्ते समुल्लङ्घ्य नित्यनैमित्तिकीः क्रियाः ॥३॥

मुनय ऊचुः
कथितं भवता विप्र नित्यनैमित्तिकं च यत् ।
नित्यं नैमित्तिकं काम्यं त्रिविधं कर्म पौरुषम् ॥४॥

सदाचारं मुने श्रोतुमिच्छामो वदतस्तव ।
यं कुर्वन्सुखमाप्नोति परत्रेह च मानवः ॥५॥

व्यास उवाच
गृहस्तेन सदा कार्यमाचारपरिरक्षणम् ।
न ह्याचारविहीनस्य भद्रमत्र परत्र वा ॥६॥

यज्ञदानतपांसीह पुरुषस्य न भूतये ।
भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते ॥७॥

दुराचारो हि पुरुषो नेहाऽऽयुर्विन्दते महत् ।
कार्यो धर्मः सदाचार आचारस्यैव लक्षणम् ॥८॥

तस्य स्वरूपं वक्ष्यामि सदाचारस्य भो द्विजाः ।
आत्मनैकमना भूत्वा तथैव परिपालयेत् ॥९॥

त्रिवर्गसाधने यत्नः कर्तव्यो गृहमेधिना ।
तत्संसिद्धौ गृहस्थस्य सिद्धिरत्र परत्र च ॥१०॥

पादेनाप्यस्य पराव्यं कुर्याच्छ्रेयः स्वमात्मवान् ।
अर्धेन चाऽऽत्मभरणं नित्यनैमित्तिकानि च ॥११॥

पादेनैव तथाऽप्यस्य मूलभूतं विवर्धयेत् ।
एवमाचरतो विप्रा अर्थः साफल्यमृच्छति ॥१२॥

तद्वत्पापनिषेधार्थं धर्मः कार्यो विपश्चिता ।
परत्रार्थस्तथैवान्यः कार्योऽत्रैव फलप्रदः ॥१३॥

प्रत्यवायभयात्कामस्तथाऽन्यश्चाविरोधवान् ।
द्विधा कामोऽपि रचितस्त्रिवर्गायाविरोदकृत् ॥१४॥

परस्पारानुबन्धांश्च सर्वानेतान्विचिन्तयेत् ।
विपरीतानुबन्धांश्च बुध्यध्वं तान्द्विजोत्तमाः ॥१५॥

धर्मो धर्मानुबन्धार्थो धर्मो धर्मार्थावनुचिन्तयेत् ।
समुत्थाय तथाऽऽचम्य प्रस्नातो नियतः शुचिः ॥१६॥

ब्राह्मे मुहूर्ते बुध्येत धर्मार्थावनुचिन्तयेत् ।
समुत्थाय तथाऽऽचम्य प्रस्नातो नियतः शुचिः ॥१७॥

पूर्वां संध्यां सनक्षत्रां पश्चिमां सदिवाकराम् ।
उपासीत यथान्यायं नैनां जह्यादनापदि ॥१८॥

असत्प्रलापमनृतं वाक्पारुष्यं च वर्जयेत् ।
असच्चास्त्रमसद्वादमसत्सेवां च वै द्विजाः ॥१९॥

सायंप्रातस्तथा होमं कुर्वीत नियतात्मवान् ।
नोदयास्तमने चैवमुदीक्षेत विवस्वतः ॥२०॥

केशप्रसाधनादर्शदन्तधावनमञ्जनम् ।
पूर्वाह्ण एव कार्याणि देवतानां च तर्पणम् ॥२१॥

ग्रामवसथतीर्थानां क्षेत्राणां चैव वर्त्मनि ।
न विण्मूत्रमनुष्ठेयं न च कृष्टे न गोव्रजे ॥२२॥

नग्नां परिस्त्रियं नेक्षेन्न पश्योदात्मनः शकृत् ।
उदक्यादर्शनस्पर्शमेवं संभाषणं तथा ॥२३॥

नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत् ।
नाधितिष्ठेच्छकृन्मूत्रे केशभस्मसपालिकाः ॥२४॥

तुषाङ्गारविशीर्णानि रज्जुवस्त्रादिकानि च ।
नाधितिष्ठेत्तथा प्राज्ञ पथि वस्त्राणि वा भुवि ॥२५॥

पितृदेवमनुष्याणां भूतानां च तथाऽर्चनम् ।
कृत्वा विभवतः पश्चाद्‌गृहस्थो भोक्तुमर्हति ॥२६॥

प्राङ्मुखोदङ्मुखो वाऽपि स्वाचान्तो वाग्यतः शुचिः ।
भुञ्जीत चाऽन्नं तच्चित्तो ह्यन्तर्जानुः सदा नरः ॥२७॥

उपघातमृते दोषान्नस्यदीरयेद्‌बुधः ।
प्रत्यक्षलवणं वर्ज्यमन्नमुच्छिष्टमेव च ॥२८॥

न गच्छन्न च तिष्ठन्वै विण्मूत्रोत्सर्गमात्मवान् ।
कुर्वोत चैवमुच्छिष्टं न किंचिदपि भक्षयेत् ॥२९॥

उच्छिष्टो नालपेत्किंचित्स्वाध्यायं न विवर्जयेत् ।
न पश्येच्च रविं चेन्दुं नक्षत्राणि च कामतः ॥३०॥

भिन्नासनं च शय्यां च भाजनं च विवर्जयेत् ।
गुरूणामासनं देयमभ्युत्थानादिसत्कृतम् ॥३१॥

अनुकूलं तथाऽऽलापमभिकुर्वीत बुद्धिमान् ।
तत्रानुगमनं कुर्यात्प्रतिकूलं न संचरेत् ॥३२॥

नैकवस्त्रश्च भुञ्जीत न कुर्याद्‌देवतार्चनम् ।
नाऽऽवाहयेद्‌द्विजानग्नौ होमं कुर्वीत बुद्धिमान् ॥३३॥

न स्नायीत नरो नग्नो न शयीत कदाचन ।
न पाणिभ्यामुभाभ्यां तु कण्डुयेन शिरस्तथा ॥३४॥

न चाभीक्ष्णं शिरः स्नानं कार्यं निष्कारणं बुधैः ।
शिरः स्नातश्च तैलेन नाङ्गं किंचिदुपस्पृशेत् ॥३५॥

अनध्यायेषु सर्वेषु स्वाध्यायं च विवर्जयेत् ।
ब्राह्मणानलगोसूर्यान्नावमन्येत्कदाचन ॥३६॥

उदङ्मुखो दिवा रात्रावुत्सर्गं दक्षिणामुखः ।
आबाधासु यथाकामं कुर्यान्मूत्रपुरीषयोः ॥३७॥

दुष्कुतं न गुरोर्ब्रूयात्क्रुद्धं चैनं प्रसादयेत् ।
परिवादं न श्रृणुयादन्येषामपि कुर्वताम् ॥३८॥

पन्था देयो ब्राह्मणानां राज्ञो दुःखातुरस्य च ।
विद्याधिकस्य गर्भिण्या रोगार्तस्य महीयतः ॥३९॥

मूकान्धबधिराणां च मत्तस्योन्मत्तकस्य च ।
देवालयं चैद्यतरुं तथैव च चतुष्पथम् ॥४०॥

विद्याधिकं गुरुं चैव बुधः कुर्यात्प्रदक्षिणम् ।
उपानद्वस्त्रमाल्यादि धृतमन्यैर्न धारयेत् ॥४१॥

चतुर्दश्यां तथाऽष्टम्यां पञ्चदश्यां च पर्वसु ।
तैलाभ्यङ्गं तथा भोगं योषितश्च विवर्जयेत् ॥४२॥

नोत्क्षिप्तबाहुजङ्घश्च प्राज्ञस्तिष्ठेत्कदाचन ।
न चापि विक्षिपेत्पादौ पादं पादेन नाऽऽक्रमेत् ॥४३॥

पुंश्चल्याः कृतकार्यस्य बालस्य पतितस्य च ।
मर्माभिघातमाक्रोशं पैशुन्यं च विवर्जयेत् ॥४४॥

दम्भाभिमानं तैक्ष्ण्यं च न कुर्वीत विचक्षणः ।
मूर्खोन्मत्तव्यसनिनो विरूपानपि वा तथा ॥४५॥

न्यूनाङ्गांश्चाधनांश्चैव नोपहासेन दूषयेत् ।
परस्य दण्डं नोद्यच्छेच्छिक्षार्थं शिष्यपुत्रयोः ॥४६॥

तद्वन्नोपविशेत्प्राज्ञः पादेनाऽऽकृष्य चाऽऽसनम् ।
संयावं कृशरं मांसं नाऽऽत्मार्थमुपसाधयेत् ॥४७॥

सायं प्रातश्च भोक्तव्यं कृत्वा चातिथिपूजनम् ।
प्राङ्मुखोदङ्मुखो वाऽपि वाग्यतो दन्तधावनम् ॥४८॥

कुर्वीत सततं विप्रा वर्जयेद्वर्ज्यवीरुधम् ।
नोदक्शिराः स्वपेज्जातु न च प्रत्यक्शिरा नरः ॥४९॥

शिरस्त्वागस्त्यमाधाय शयीताथ पुरंदरीम् ।
न तु गन्धवतीष्वप्सु शयीत न तथोषसि ॥५०॥

उपरागे परं स्नानमृते दिनमुदाहृतम् ।
अपमृज्यान् वस्त्रन्तैर्गात्राण्यम्बरपाणिभिः ॥५१॥

न चावधूनयेत्केशान्वाससी न च निर्धुनेत् ।
अनुलेपनमादद्यान्नास्नातः कर्हिचिद्‌बुधः ॥५२॥

न चापि रक्तवासाः स्याच्चित्रासितधरोऽपि वा ।
न च कुर्याद्विपर्यासं वाससोर्नापि भूषयोः ॥५३ ॥
वर्ज्यं च विदशं वस्त्रमत्यन्तोपहतं च यत् ।
कीटकेशावपन्नं च तथा श्वभिरवेक्षितम् ॥५४॥

अवलीढं शुना चैव सारोद्धरणदूषितम् ।
पृष्ठमांसं वृथामांसं वर्ज्यमांसं च वर्जयेत् ॥५५॥

न भक्षयेच्च सततं प्रत्यक्षं लवणं नरः ।
वर्ज्यं चिरोषितं विप्राः शुष्कं पर्युषितं च यत् ॥५६॥

पिष्टशाकेक्षुपयसां विकारा द्विजसत्तमाः ।
तथा मांसविकाराश्च नैव वर्ज्याश्चिरोषिताः ॥५७॥

उदयास्तमने भानोः शयनं च विवर्जयेत् ।
नास्नातो नैव संविष्टो न चैवान्यमना नरः ॥५८॥

न चैव शयने नोर्व्यामुपिविष्टो न शब्दकृत् ।
प्रेष्याणामप्रदायाथ न भुञ्जीत कदाचन ॥५९॥

भुञ्जीत पुरुषः स्नातः सायंप्रातर्यथाविधि ।
परदारा न गन्तव्याः पुरुषेण विपश्चिता ॥६०॥

इष्टापूर्तायुषां हन्त्री परदारगतिर्नृणाम् ।
न हीदृशमनायुष्यं लोके किंचन विद्यते ॥६१॥

यादृशं पुरुषस्येह परदाराभिर्मशनम् ।
देवाग्निपितृकार्यामि तथा गुर्वभिवादनम् ॥६२॥

कुर्वीत सम्यगाचम्य तद्वदन्नभुजिक्रियाम् ।
अफोनशब्दगन्धाभिरद्भिरच्छाभिरादरात् ॥६३॥

आचामेच्चैव तद्वच्च प्राङ्मुखोदङ्मुखोऽपि वा ।
अन्तर्जलादावसथाद्वल्मीकान्मूषिकास्थलात् ॥६४॥

कृतशौचावशिष्टाश्च वर्जयेत्पञ्च वै मृदः ।
प्रक्षाल्य हस्तौ पादौ च समभ्युक्ष्य समाहितः ॥६५॥

अन्तर्जानुस्तथाऽऽचामेत्त्रिश्चतुर्वाऽपि वै नरः ।
परिमृज्य द्विरावर्त्य खानि मूर्धानमेव च ॥६६॥

सम्यगाचम्य तोयेन क्रियां कुर्वीत वै शुचिः ।
क्षुतेऽवलीढे वाते च तथा निष्ठीवनादिषु ॥६७॥

कुर्यादाचमनं स्पर्शे वाऽस्पृष्टस्यार्कदर्शनम् ।
कुर्वीताऽऽलम्भनं चापि दक्षिणश्रवणस्य च ॥६८॥

यथाविभवतो ह्येतत्पूर्वाभावे ततः परम् ।
न विद्यमाने पूर्वोक्त उत्तरप्राप्तिरिष्यते ॥६९॥

न कुर्याद्‌दन्तसंघर्षं नाऽऽत्मनो देहताडनम् ।
स्वापेऽध्वनि तथा भुञ्जन्स्वाध्यायं च विवर्जयेत् ॥७०॥

संध्यायां मैथुनं चापि तथा प्रस्थानमेव च ।
तथाऽपराह्णे कुर्वीत श्रद्धया पितृतर्पणम् ॥७१॥

शिरः स्नानं च कुर्वीत दैवं पित्र्यमथापि च ।
प्राङ्मुखोदङ्खो वाऽपि श्मश्रुकर्म च कारयेत् ॥७२॥

व्यङ्गिनीं वर्जयेत्कन्यां कुलजा वाऽप्यरोगिणीम् ।
उद्वहेत्पितृमात्रोश्च सप्तमीं पञ्चमीं तथा ॥७३॥

रक्षेद्‌दारांस्त्यजेदीर्ष्यां तथाऽह्नि स्वप्नमैथुने ।
परोपतापकं कर्म जन्तुपीडां च सर्वदा ॥७४॥

उदक्या सर्ववर्णानां वर्ज्या रात्रिचतुष्टयम् ।
स्त्रीजन्मपरिहारार्थं पञ्चमीं चापि वर्जयेत् ॥७५॥

ततः षष्ठ्यां व्रजेद्रात्र्यां ज्येष्ठयुग्मासु रात्रिषु ।
युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ॥७६॥

विधर्मिणो वै पर्वादौ संध्याकालेषु षण्ढकाः ।
क्षुरकर्मणि रिक्तां वै वर्जयीत विचक्षणः ॥७७॥

ब्रुवतामविनीतानां न श्रोतव्यं कदाचन ।
न चोत्कृष्टासनं देयमनुत्कृष्टस्य चाऽऽदरात् ॥७८॥

क्षुरकर्मणि चा(वा)न्ते च स्त्रीसंभोगे च भो द्विजाः ।
स्नायीन चैलवान्प्राज्ञः कूटभूमिमुपेत्य च ॥७९॥

देववेदद्विजातीनां साधुसत्यमहात्मनाम् ।
गुरोः पतिव्रतानां च ब्रह्मयज्ञतपस्विनाम् ॥८०॥

परिवादं न कुर्वीत परिहासं च भो द्विजाः ।
धवलाम्बरसंवीतः सितपुष्पविभूषितः ॥८१॥

सदा मांगल्यवेषः स्यान्न वाऽमाङ्गल्यवान्भवेत् ।
नोद्धतोन्मत्तमूढैश्च नाविनीतैश्च पण्डितः ॥८२॥

गच्छेन्मैत्रीमशीलेन न वयोजातिदूषितैः ।
न चातिव्ययशीलैश्च पुरुषैर्नैव वैरिभिः ॥८३॥

कार्याक्षमैर्निन्दितैर्न न चैव विटसङ्गिभिः ।
निस्वैर्न वादैकपरेर्नरैश्चान्यैस्तथाऽधमैः ॥८४॥

सुहद्‌दीक्षितभूपालस्नातकश्वशुरैः सह ।
उत्तिष्ठेद्विभवाच्चैनानर्चयेद्‌गृहमागतान् ॥८५॥

यथाविभवतो विप्राः प्रतिसंवत्सरोषितान् ।
सम्यग्गृहेऽर्चनं कृत्वा यथास्थानमनुक्रमात् ॥८६॥

संपूजयेत्तथा वह्नौ प्रदद्याच्चाऽऽहुतीः क्रमात् ।
प्रथमां ब्रह्मणे दद्यात्प्रजानां पतये ततः ॥८७॥

तृतीयां चैव गृह्येभ्यः कश्यपाय तथाऽपराम् ।
ततोऽनुमतये दद्याद्‌दद्याद्‌बहु(द्‌गृह)बलिं ततः ॥८८॥

पूर्वं ख्याता मया या तु नित्यक्रमविधौ क्रिया ।
वैश्वदेवं ततः कुर्याद्वदत श्रृणुत द्विजाः ॥८९॥

यथास्थानविभागं तु देवानुद्दिस्य वै पृथक् ।
पर्जन्यापोधरित्रीणां दद्यात्तु मणिके त्रयम् ॥९०॥

वायवे च प्रतिदिशं दिग्भ्यः प्राच्यादिषु क्रमात् ।
ब्रह्मणे चान्तरिक्षाय सूर्याय च यथाक्रमात् ॥९१॥

विश्वेभ्यश्चैव देवेभ्यो विस्वभूतेभ्य एव च ।
उषसे भूतपतये दद्याद्वोत्तरतः शुचिः ॥९२॥

स्वधा च नम इत्युक्त्वा पितृभ्यश्चैव दक्षिणे ।
कृत्वाऽपसव्यं वायव्यां यक्ष्मैतत्तति संवदन् ॥९३॥

अन्नावशेषमिश्रं वै तोयं दद्याद्यथाविधि ।
देवानां च ततः कुर्याद्‌ब्राह्मणानां नमस्क्रियाम् ॥९४॥

अङ्गुष्ठोत्तरतो रेखा पाणेर्या दक्षिणस्य च ।
एतद्‌ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै ॥९५॥

तर्जन्यङ्गुष्ठयोरन्तः पित्र्यं तीर्थमुदाहृतम् ।
पितॄणां तेन तोयानि दद्यान्नन्दीमुखादृते ॥९६॥

अङ्गल्यग्रे तथा दैवं तेन दिव्यक्रियाविधिः ।
तीर्थं कनिष्ठिकामूले कायं तत्र प्रजापतेः ॥९७॥

एवमेभिः सदा तीर्थैर्विधानं पितृभिः सह ।
सदा कार्याणि कुर्वीत नान्यतीर्थै कदाचन ॥९८॥

ब्राह्मेणाऽचमनं शस्तं पैत्र्यं पित्र्येण सर्वदा ।
देवतीर्थेन देवानां प्राजापत्यं जिते(त्यजले)न च ॥९९॥

नान्दीमुखानां कुर्वीत प्राज्ञः पिणडोदकक्रियाम् ।
प्राजापत्येन तीर्थेन यच्च किंचित्प्रजापतेः ॥१००॥

युगपज्जलमग्निं च बिभृयान्न विचक्षणः ।
गुरुदेवपितॄन्विप्रान् च पादौ प्रसारयेत् ॥१०१॥

नाऽऽचक्षीत धयन्तीं गां जलं नाञ्जलिना पिबेत् ।
शौचकालेषु सर्वेषु गुरुष्वल्पेषु वा पुनः ॥
न विलम्बेत मेधावी न मुखेनानलं धमेत् ॥१०२॥

तत्र विप्रा न वस्तव्यं यत्र नास्ति चतुष्टयम् ।
ऋणप्रदाता वैद्यश्च श्रोत्रियः सजला नदी ॥१०३॥

जितभृत्यो नृपो यत्र बलवान्धर्मतत्परः ।
तत्र नित्यं वसेत्प्राज्ञः कुतः कुनृपतौ सुखम् ॥१०४॥

पौराः सुसंहता यत्र सततं न्यायवर्तिनः ।
शान्तामत्सरिणो लोकास्तत्र वासः सुखोदयः ॥१०५॥

यस्मिन्कृषीवला राष्ट्रे प्रायशो नातिमानिनः ।
यत्रौषधान्यशेषाणि वसेत्तत्र विचक्षणः ॥१०६॥

तत्र विप्रा न वस्तव्यं यत्रैतत्त्रितयं सदा ।
जिगीषुः पूर्ववैरश्च जनश्च सततोत्सवः ॥१०७॥

वसेन्नित्यं सुशीलेषु सहचारिषु पण्डितः ।
यत्राप्रधृष्यो नृपतिर्यत्र सस्यप्रदा मही ॥१०८॥

इत्येतत्कथितं विप्रा मया वो हितकाम्यया ।
अतः परं प्रवक्ष्यामि भक्ष्यभोज्यविधिक्रियाम् ॥१०९॥

भोज्यमन्नं पर्युषितं स्नेहाक्तं चिरसंभृतम् ।
अस्नेहा अपि गोधूमयवगोरसविक्रियाः ॥११०॥

शशकः कच्छपो गोधा श्वाविन्मत्स्योऽथ शल्यकः ।
भक्ष्याश्चैते तथा वर्ज्यो ग्रामशूकरकुक्कुटौ ॥१११॥

पितृदेवादिशेषं च श्राद्धे ब्राह्मणकाम्यया ।
प्रोक्षितं चौषधार्थं च खादन्मांसं न दुष्यति ॥११२॥

शङ्खाश्मस्वर्णरूप्याणां रज्जूनामथ वाससाम् ।
शाकमूलफलानां च तथा विदलचर्मणाम् ॥११३॥

मणिवस्त्रप्रवालानां तथा मुक्ताफलस्य च ।
पात्राणां चमसानां च अम्बुना शौचमिष्यते ॥११४॥

तथाऽश्मकानां तोयेन अश्मसंघर्षणेन च ।
सस्नेहानां च पात्राणां शुद्धिरुष्णेन वारिणा ॥११५॥

शूर्पाणार्माजनानां च मुशलोलूखलस्य च ।
संहतानां च वस्त्राणां प्रोक्षणात्संचयस्य च ॥११६॥

वल्कलानामशेषाणामम्बुमृच्छौचमिष्यते ।
आविकानां समस्तानां केशानां चैवमिष्यते ॥११७॥

सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः ।
शोधनं चैव भवति उपघातवतां सदा ॥११८॥

तथा कार्पासिकानां च शुद्धिः स्याज्यलभस्मना ।
दारुदन्तास्थिश्रृङ्गाणां तक्षणाच्छुद्धिरिष्यते ॥११९॥

पुनः पाकेन भाण्डानां पार्थिवानाममेध्यता ।
शुद्धं भैक्ष्यं कारुहस्तः पण्यं योषिन्मुखं तथा ॥१२०॥

रथ्यागमनविज्ञानं दासवर्गेण संस्कृतम् ।
पाक्प्रशस्तं चिरातीतमनेकान्तरितं लघु ॥१२१ ॥
अन्तः प्रभूतं बालं च वृद्धान्तरविचेष्टितम् ।
कर्मान्तागारशालाश्च स्तनद्वयं शुचि स्त्रियाः ॥१२२॥

शुचयश्च तथैवाऽऽपः स्रवन्त्यो गन्धवर्जिताः ।
भूमिर्वशुद्धते कालाद्‌दाहमार्जनगोकुलैः ॥१२३॥

लेपादुल्लखनात्सेकाद्वेश्म संमार्जनादिना ।
केशकीटावपन्ने च गोघ्राते मक्षिकान्विते ॥१२४॥

मृदम्बु भस्म चाप्यन्ने प्रक्षेप्तव्यं विशुद्धये ।
औदुम्बराणामम्लेन वारिणा त्रपुसीसयोः ॥१२५॥

भस्माम्बुभिश्च कांस्यानां शुद्धिः प्लावो द्रवस्य च ।
अमेध्याक्तस्य मृत्तोयैर्गन्धापहरणेन च ॥१२६॥

अन्येषां चैव द्रव्याणां वर्णगन्धांश्च हारयेत् ।
शुचि मांसं तु चाण्डालक्रव्यादैर्विनिपातितम् ॥१२७॥

रथ्यागतं च तैलादि शुचि गोतृप्तिदं पयः ।
रजोऽग्निरश्वगोछायारश्मयः पवनो मही ॥१२८॥

विप्लुषो मक्षिकाद्याश्च दुष्टसङ्गाददोषिणः ।
अजाश्वं मुखतो मेध्यं न गोर्वत्सस्य चाऽऽननम् ॥१२९॥

मातुः प्रस्रवणे(णं)मेध्यं शकुनिः फलपातने ।
आसनं शयनं यानं तटौ नद्यास्तृणानि च ॥१३०॥

सोमसूर्यांशुपवनैः शुध्यन्ते तानि पण्यवत् ।
रथ्यापसर्पणे स्नाने क्षुत्पानानां च कर्मसु ॥१३१॥

आचामेत यथान्यायं वाससः परिधापने ।
स्पृष्टानामथ संस्पर्शैर्द्विरथ्याकर्दमाम्भसि ॥१३२॥

पक्वेष्टकचितानां च मेध्यता वायुसंश्रयात् ।
प्रभूतोपहतादन्नादग्रमुद्धृत्य संत्यजेत् ॥१३३॥

शेषस्य प्रोक्षणं कुर्यादाचम्याद्‌भिस्तथा मृदा ।
उपवासस्त्रिरात्रं तु दुष्टभक्ताशिनो भवेत् ॥१३४॥

अज्ञाने ज्ञानपूर्वे तु तद्दोषोपशमे न तु ।
उदक्यां वावलग्नां च सूतिकान्त्यावसायिनः ॥१३५॥

स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः ।
नारं स्पृष्ट्वाऽस्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ॥१३६॥

आचम्यैव तु निः स्नेहं गामालभ्यार्कमीक्ष्य वा ।
न लङ्घयेत्तथैवाथ ष्ठीवनोद्वर्तनानि च ॥१३७॥

गृहादुच्छिष्टविण्मुत्रं पादाम्भस्तत्क्षिपेद्‌बहिः ।
पञ्चपिण्डाननुद्धृत्य न स्नायात्परवारिणि ॥१३८॥

स्नायीत देवखातेषु गङ्गाह्रदसरित्सु च ।
नोद्यानादौ विकालेषु प्राज्ञस्तिष्ठेत्कदाचन ॥१३९॥

नाऽऽलपेज्जनविद्विष्टान्वीरहीनास्तथा स्त्रियः ।
देवतापितृसच्छास्त्रयज्विसंन्यासिनिन्दकैः ॥१४०॥

कृत्वा तु स्पर्शनालापं शुध्यत्यर्कावलोकनात् ।
अवलोक्य तथोदक्यां संन्यस्तं पतितं शवम् ॥१४१॥

विधर्मिसूतिकाषण्ढविवस्त्रान्त्यावसायिनः ।
मृतनिर्यातकांश्चैव परदाररताश्च ये ॥१४२॥

एतदेव हि कर्तव्यं प्राज्ञैः शोधनमात्मनः ।
अभोज्यभिक्षुपाखण्डमार्जारखरकुक्कुटान् ॥१४३॥

पतितापविद्धचाण्डालमृताहारांश्च धर्मवित् ।
संस्पृश्य शुध्यते स्नानादुदक्याग्रामशूकरौ ॥१४४॥

तद्वच्च सूतिकाशौचदूषितौ पुरुषावपि ।
यस्य चानुदिनं हानिर्गृहे नित्यस्य कर्मणः ॥१४५॥

यश्च ब्राह्मणसंत्यक्तः किल्बिषाशी नराधमः ।
नित्यस्य कर्मणो हानिं न कुर्वीत कदाचन ॥१४६॥

तस्य त्वकरणं वक्ष्ये केवलं मृतजन्मसु ।
दशाहं ब्राह्मणस्तिष्ठेद्‌दानहोमविवर्जितः ॥१४७॥

क्षत्रियो द्वादशाहं च वैश्यो मासार्धमेव च ।
शूद्रश्च मासमासीत निजकर्मविवर्जितः ॥१४८॥

ततः परं निजं कर्म कुर्युः सर्वे यथोचितम् ।
प्रेताय सलिलं देयं बहिर्गत्वा तु गोत्रकैः ॥१४९॥

प्रथमेऽह्नि चतुर्थे च सप्तमे नवमे तथा ।
तस्यास्थिसंचयः कार्यश्चतुर्थेऽहनि गोत्रकैः ॥१५०॥

ऊर्ध्वं संचयनात्तेषामङ्गस्पर्शौ विधीयते ।
गोत्रकैस्तु क्रियाः सर्वाः कार्याः संचयनात्परम् ॥१५१॥

स्पर्श एव सपिण्डानां मृताहनि तथोभयोः ।
अन्वर्थमिच्छया शस्त्ररज्जुबन्धनवह्निषु ॥१५२॥

विषप्रतापादिमृते प्रायानाशकयोरपि ।
बाले देशान्तरस्थे च तथा प्रव्रजिते मृते ॥१५३॥

सद्यः शौत्तं मनुष्याणां त्र्यहमुक्तमशौचकम् ।
सपिण्डानां सपिण्डस्तु मृतेऽन्यस्मिन्मृतो यदि ॥१५४॥

पूर्वशौचं समाख्यातं कार्यास्तत्र दिनक्रियाः ।
एष एव विधिर्दृष्टो जन्मन्यपि हि सूतके ॥१५५॥

सपिण्डानां सपिण्डेषु यथावत्सोदकेषु च ।
पुत्रे जाते पितुः स्नानं सचैलस्य विधीयते ॥१५६॥

तत्रापि यदि वाऽऽन्यस्मिन्ननुयातस्ततः परम् ।
तत्रापि शुद्धिरुदिता पूर्वजन्मवतो दिनैः ॥१५७॥

दशद्वादशमासार्धमाससंख्यैर्दिनैर्गतैः ।
स्वाः स्वाः कर्मक्रियाः कुर्यः सर्वे वर्णा यथाविधि ॥१५८॥

प्रेतमुद्दिश्य कर्तव्यमेकोद्दिष्टमतः परम् ।
दानानि चैव दैयानि ब्राह्मणेभ्यो मनीषिभिः ॥१५९॥

यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे ।
तत्तद्‌गुणवते देयं तदेवाक्षयमिच्छता ॥१६०॥

पूर्णैस्तु दिवसैः स्पृष्ट्वा सलिलं वाहनायुधैः ।
दत्तप्रेतोदपिण्डाश्च सर्वे वर्णाः कृतक्रियाः ॥१६१॥

कुर्युः समग्राः शुचिनः परत्रेह च भूतये ।
अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता ॥१६२॥

धर्मतो धनमाहार्यं यष्टव्यं चापि यत्नतः ।
येन प्रकुपितो नाऽऽत्मा जुगुप्सामेति भो द्विजाः ॥१६३॥

तत्कर्तव्यमशङ्केन यन्न गोप्यं महाजनैः ।
एवमाचरतो विप्राः पुरुषस्य गृहे सतः ॥१६४॥

धर्मर्थकामं संप्राप्य परत्रेह च शोभनम् ।
इदं रहस्यमायुष्यं धन्यं बुद्धिविवर्धनम् ॥१६५॥

सर्वपापहरं पुण्यं श्रीपुष्ट्यारोग्यदं शिवम् ।
यशःकीर्तिप्रदं नृणां तेजोबलविवर्धनम् ॥१६६॥

अनुष्टेयं सदा पुंभिः स्वर्गसाधनमुत्तमम् ।
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च मुनिसत्तमाः ॥१६७॥

ज्ञातव्यं सुप्रयत्नेन सम्यक्श्रेयोभिकाङ्क्षिभिः ।
ज्ञात्वैव यः सदा कालमनुष्ठानं करोति वै ॥१६८॥

सर्वपापिविनिर्मुक्ताः स्वर्गलोके महीयते ।
सारात्सारतरं चेदमाख्यातं द्विजसत्तमाः ॥१६९॥

श्रुतिस्मृत्युदितं धर्मं न देयं यस्य कस्यचित् ।
न नास्तिकाय दातव्यं न दुष्टमतये द्विजाः ॥
न दाम्भिकाय मूर्खाय न कुतर्कप्रलापिने ॥१७०॥

इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे सदाचारनिरूपणं नामैर्काविंशत्यधिकद्विशततमोऽध्यायः ॥२२१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:45.8630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Mali Mate

  • माळी सहायक 
RANDOM WORD

Did you know?

मराठीत जुन्या कवींच्या साधारण किती कविता उपलब्ध असतील?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.