TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १३८

ब्रह्मपुराणम् - अध्यायः १३८

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १३८
भान्वादित्रिसहस्रतीर्थवर्णनम्
ब्रह्मोवाच
भानुतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् ।
तत्रेदं वृत्तमाख्यास्ये महापातकनाशनम् ॥१॥  ?
शर्यातिरिति विख्यातो राजा परमधार्मिकः ।
तस्य भार्या स्थविष्ठेति रूपेणाप्रतिमा भुवि ॥२॥

मधुच्छन्दा इति ख्यातो वैश्वामित्रो द्विजोत्तमः ।
पुरोधास्तस्य नृपतेर्ब्रह्मर्षिः शमिनां प्रभुः ॥३॥

दिशो विजेतुं स जगाम राजा, पुरोधसा तेन नृपप्रवीरः ।
पुरोधसं प्राह महानुभावं, जित्वा दिशश्चाध्वनि संनिविष्टः ॥४॥

पप्रच्छेदं केन खेदं गतोऽसि, हेतुं वदस्वेति महानुभाव ।
त्वमेव राज्ये मम सर्वमान्यः, समस्तविद्यानिरवद्यबोधः ॥५॥

विधूतपापः परितापशून्यः, किमन्यचेता इव लक्ष्यसे त्वम् ।
जितेयमुर्वी विजिता नरेन्द्रा, हर्षस्य हेतौ महतीह जाते ॥६॥

किं त्वं कृशो मे वद सत्यमेव, द्विजातिवर्यातिमहानुभाव ।
संबोघ्य शर्यातिमुवाच विप्रश्छन्दोमधुः प्रेममयीं प्रियोक्तिम् ॥७॥

मधुच्छन्दा उवाच
श्रृणु भूपाल मद्वाक्यं भार्यया यदुदीरितम् ।
स्थिते यामे वयं यामो यामिनी चार्धगमिनो ॥८॥

स्वामिनी चास्य देहस्य कामिनी मां प्रतीक्षते ।
स्मृत्वा तत्कमिनीवाक्यं शोषं याति कलेवरम् ॥
विकारे स्मारसंजाते जीवतुर्नलिनानना ॥९॥

ब्रह्मोवाच
विहस्य चाब्रवीद्राजा पुरोधसमरिंदमः ॥१०॥

राजोवाच
त्वं गुरुर्मम मित्रं च किमात्मानं विडम्बसे ।
किमनेन महाप्रज्ञ मम वाक्येन मानद
क्षणविध्वंसिनि सुखे का नामाऽऽस्था महात्मनाम् ॥११॥

ब्रह्मोवाच
एतदाकर्ण्य मतिमान्मधुच्छन्दा वचोऽब्रवीत् ॥१२॥

?Bमधुच्छन्दा उवाच
यत्राऽऽनुकूल्यं दंपत्योस्त्रिवर्गस्तत्र वर्धते ।
न चेदं दूषणं राजन्भूषण चातिमन्यताम् ॥१३॥

ब्रह्मोवाच
आजगाम स्वकं देश महत्या सेनया वृतः ।
परीक्षार्थं च तत्प्रेम पुर्यां वार्तामदीदिशत् ॥१४॥

दिशो विजेतुं शर्यातौ याते राक्षसपुंगवः ।
हत्वा रसातलं यातो राजानं सपुरोधसम् ॥१५॥

राज्ञो भार्या निश्चयाय प्रवृत्ता मुनिसत्तम ।
वार्तां श्रुत्वा दूतमुखान्मधुच्छन्दःप्रिया पुनः ॥१६॥

तदैवाभूद्‌गतप्राणा तद्विचित्रमिवाभवत् ।
तस्या वृत्तं तु ते दृष्ट्वा दूता राज्ञे न्यवेदयन् ॥१७॥

यत्कृतं राजपत्नीभिः प्रियया च पुरोधसः ।
विस्मितो दुःखितो राजा पुनर्दूतानभाषत ॥१८॥

राजोवाच
शीघ्रं गच्छन्तु हे दूता ब्राह्मण्या यत्कलेवरम् ।
रक्षन्तु वार्तां कुरुत राजाऽऽगन्ता पुरोधसा ॥१९॥

ब्रह्मोवाच
इति चिन्तातुरे राज्ञि वागुवाचाशरीरिणी ॥२०॥

आकाशवागुवाच
विधास्यत्यखिलं गङ्गा राजंस्तव समीहितम् ।
सर्वाभिषङ्गशमनी पावनी भुवि गौतमी ॥२१॥

ब्रह्मोवाच
एतच्छ्रुत्वा स शर्यातिर्गौतमीतटमाश्रितः ।
ब्राह्मणेभ्यो धनं दत्त्वा तर्पयित्वा पितृन्द्विजान् ॥२२॥

पुरोहितं द्विजश्रेष्ठे प्रेषयित्वा धनान्वितम् ।
अन्यत्र तीर्थे सार्थेषु दानं देही(ददौ)प्रयत्नतः ॥२३॥

एतत्सर्वं न जानाति राज्ञः कृत्यं पुरोहितः ।
गते तस्मिन्गुरौ राजा वैश्वामित्रे महात्मनि ॥२४॥

सर्वं बलं प्रेषयित्वा गङ्गातीरेऽग्निमाविशत् ।
इत्युक्त्वा स तु राजेन्द्रो गङ्गां भानुं सुरानपि ॥२५॥

यदि दत्तं यदि हुतं यदि त्राता प्रजा मया ।
तेन सत्येन सा साध्वी ममाऽऽयुष्येण जीवतु ॥२६॥

इत्युक्त्वाऽग्नौ प्रविष्टे तु शर्यातौ नृपसत्तमे ।
तदैव जीविता भार्या राज्ञस्तस्य पुरोधसः ॥२७॥

अग्निप्रविष्टं राजानं श्रुत्वा विस्मयकारणम् ।
पतिव्रतां तथा भार्यां मृतां जीवान्वितां पुनः ॥२८॥

तदर्थं चापि राजानं त्वक्तात्मानं विशेषतः ।
आत्मनश्च पुनः कृत्यमस्मरन्नृपतेर्गुरुः ॥२९॥

अहमप्यग्निमावेक्ष्य उत यास्ये प्रियान्तिकम् ।
अथवेह तपस्तप्स्ये ततो निश्चयवान्द्विजः ॥३०॥

एतदेवाऽऽत्मनः कृत्यं मन्ये सुकृतमेव च ।
जीवयामि च राजानं ततो यामि प्रियां पुनः ॥३१॥

एतदेव शुभं मे स्यात्ततस्तुष्टाव भास्करम् ।
न ह्यन्यः कोऽपि देवोऽस्ति सर्वाभिष्टप्रदो रवेः ॥३२॥

मधुच्छन्दा उवाच
नमोऽस्तु तस्मै सूर्याय मुक्तयेऽमितततेजसे ।
छन्दोमयाय देवाय ओंकारार्थाय ते नमः ॥३३॥

विरूपाय सुरूपाय त्रिगुणाय त्रिमुर्तये ।
स्थित्युत्पत्तिविनाशानां हेतवे प्रभविष्णवे ॥३४॥

ब्रह्मोवाच
ततः प्रसन्नः सूर्योऽभूद्वरयस्वेत्यभाषत ॥३५॥

मधुच्छन्दा उवाच
राजानं देहि देवेश भार्यां च प्रियवादिनीम् ।
आत्मनश्च शुभान्पुत्रान्राज्ञश्चैव शुभान्वरान् ॥३६॥

ब्रह्मोवाच
ततः प्रादाज्जागन्नाथः शर्यार्तिं रत्नभूषितम् ।
तां च भार्यां वरानन्यान्सर्वं क्षेममयं तथा ॥३७॥

ततो यातः प्रियाविष्टः प्रीतेन च पुरोधसा ।
ययौ सुखी स्वकं देशं तत्तु तीर्थं शुभं स्मृतम् ॥३८॥

तत्र त्रीणि सहस्राणि तीर्थानि गुणवन्ति च ।
ततः प्रभृति तत्तीर्थं भानुतीर्थमुदाहृतम् ॥३९॥

मृतसंजीवनं चैव शार्यातं चेति विश्रुतम् ।
माधुच्छन्दसमाख्यातं स्मरणात्पनुन्मुने ॥४०॥

तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् ।
मृतसंजीवनं तत्स्यादायुरारोग्यवर्धनम् ॥४१॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये भान्वादित्रिसहस्रतीर्थवर्णनं नामाष्टत्रिंशदधिकशततमोऽध्यायः ॥१३८॥

गौतमीमाहात्म्य एकोनसप्ततितमोऽध्यायः ॥६९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:41.1930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

certify

  • प्रमाणपत्र देणे 
  • प्रमाणपत्र देणे, प्रमाणित करणे 
  • प्रमाणित करणे 
  • प्रमाणित करना, तसदीक करना, प्रमाण देना 
More meanings
RANDOM WORD

Did you know?

कुंभमेळ्याबद्दल माहिती द्या? नजिकचा कुंभमेळा कोठे आहे ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.