संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १४९

ब्रह्मपुराणम् - अध्यायः १४९

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


नारसिंहतीर्थवर्णनम्
ब्रह्मोवाच
नारसिंहमिति ख्यातं गङ्गाया उत्तरे तटे ।
तस्यानुभावं वक्ष्यामि सर्वरक्षाविधायकम् ॥१॥

हिरण्यकशिपुः पूर्वमभवद्‌बलिनां वरः ।
तपसा विक्रमेणापि देवानामपराजितः ॥२॥

हरिभक्तात्मजद्वेषकलुषीकृतमानसः ।
आविर्भूय सभास्तम्भाद्विश्वात्मत्वं प्रदर्शयन् ॥३॥

तं हत्वा नरसिंहस्तत्सैन्यमद्रावयत्तदा ।
सर्वान्हत्वा महादैत्यान्क्रमेणाऽऽजौ महामृगः ॥४॥

रसातलस्थाञ्शत्रुंश्च जित्वा स्वर्लोकमीयिवान् ।
तत्र जित्वा भुवं गत्वा दैत्यान्हत्वा नगस्थितान् ॥५॥

समुद्रस्थान्नदीसंस्थान्ग्राममस्थान्वनवासिनः ।
नानारूपधरान्दैत्यान्निजघान मृगाकृतिः ॥६॥

आकाशगान्वायुसंस्थाञ्ज्योतिर्लोकमुपागतान् ।
वज्रपाताधिकनखः समुद्धूतमहासटः ॥७॥

दैत्यगर्भस्राविगर्जी निर्जिताशेषराक्षसः ।
महानादैर्वीक्षितैश्च प्रलयानलसंनिभैः ॥८॥

चपेटैरङ्गविक्षेपैरसुरान्पर्यचूर्णयत् ।
एवं हत्वा बहुविधान्गौतमीमगमद्धरिः ॥९॥

स्वपदाम्बुजसंभूतां मनोनयननन्दिनीम् ।
तत्राम्बर्य इति ख्यातो दण्डकाधिपते रिपुः ॥१०॥

देवानां दुर्जयो योद्धा बलेन महाताऽऽवृतः ।
तेनाभवन्महारौद्रं भीषणं लोमहर्षणम् ॥११॥

शस्त्रास्त्रवर्षणं युद्धं हरिणा दैत्यसूनुना ।
निजघान हरिः श्रीमांस्तं रिपुं ह्यत्तरे तटे ॥१२॥

गङ्गायां नारसिंहं तु तीर्थं त्रैलोक्यविश्रुतम् ।
स्नानदानादिकं तत्र सर्वपापग्रहार्दनम् ॥१३॥

सर्वरक्षाकरं नित्यं जरामरणवारणम् ।
यथा सुराणां सर्वेषां न कोऽपि हरिणा समः ॥१४॥

तीर्थानामप्यशेषाणां तथा तत्तीर्थमुत्तमम् ।
तत्र तीर्थे नरः स्नात्वा कुर्यान्नृहरिपूजनम् ॥१५॥

स्वर्गे मर्त्ये तले वाऽपि तस्य किंचिन्न दुर्लभम् ।
इत्याद्याष्टौ मुने तत्र महातीर्थानि नारद ॥१६॥

पृथक्पृथक्तीर्थकोटिफलमाहुर्मनीषिणः ।
अश्रद्धयाऽपि यन्नाम्नि स्मृते सर्वाघसंक्षयः ॥१७॥

भवेत्साक्षान्नृसिंहोऽसौ सर्वदा यत्र संस्थितः ।
तत्तीर्थसेवासंजातं फलं कैरिह वर्ण्यते ॥१८॥

यथा न देवो नृहरेरधिकः क्वापि वर्तते ।
तथा नृसिंहतीर्थेन समं तीर्थं न कुत्रचित् ॥१९॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये नारसिंहाद्यष्टतीर्थवर्णनं नामैकोनपञ्चाशदधिकशततमोऽध्यायः ॥१४९॥

गौतमीमाहात्म्येऽशीतितमोऽध्यायः ॥८०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP