संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ६६

ब्रह्मपुराणम् - अध्यायः ६६

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ षट्षष्टितमोऽध्यायः
गुडिवायात्रामाहात्म्यकथनम्
ब्रह्मोवाच
गुडिवामण्डपं यान्तं ये पश्यन्ति रथे स्थितम् ।
कृष्णं बलं सुभद्रां च ते यान्ति भवनं हरेः ॥१॥

ये पश्यन्ति तदा कृष्णं सप्ताहं मण्डपे स्थितम् ।
हलिनं च सुभद्रां च विष्णुलोकं व्रजन्ति ते ॥२॥

मुनय ऊचुः
केन सा निर्मिता यात्रा दक्षिणस्यां जगत्पते ।
यात्राफलं च किं तत्र प्राप्यते ब्रूहि मानवैः ॥३॥

किमर्थं सरसस्तीरे राज्ञस्तस्य जगत्पते ।
पवित्रे विजने देश गत्वा तत्र च मण्डपे ॥४॥

कृष्णः संकर्षणश्चैव सुभद्रा च रथेन ते ।
स्वस्थानं संपरित्यज्य सप्तरात्रं वसन्ति वै ॥५॥

ब्रह्मोवाच
इन्द्रद्युम्नेन भो विप्राः पुरा वै प्रार्थितो हरिः ।
सप्ताहं सरसस्तीरे मम यात्रा भवत्विति॥ ६६.६॥

गुडिवा नाम देवेश भुक्तिमुक्तिफलप्रदा ।
तस्मै किल वरं चासौ ददौ स पुरुषोत्तमः ॥७॥

श्रीभगवानुवाच
सप्ताहं सरसस्तीरे तव राजन्भविष्यति ।
गुडिवा नाम यात्रा मे सर्वकामफलप्रदा ॥८॥

ये मां तत्रार्चयिष्यन्ति श्रद्धया मण्डपे स्थितम् ।
संकर्षणं सुभद्रां च विधिवत्सुसमाहिताः ॥९॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च वै नृप ।
पुष्पैर्गन्धैस्तथा धूपैर्दीपैर्नैवेद्यैकैर्वरैः ॥१०॥

उपहारैर्बहुविधैः प्रणिपातैः प्रदक्षिणैः ।
जयशब्दैस्तथा स्तोत्रैर्गीतैर्वाद्यैर्मनोहरैः ॥११॥

न तेषां किञ्चित्फलं यस्य यदीप्सितम् ।
भविष्यति नृपश्रेष्ठ मत्प्रसादादसंशयम् ॥१२॥

ब्रह्मोवाच
एवमुक्त्वा तु तं देवस्तत्रैवान्तरधीयत ।
स तु राजवरः श्रीमान्कृतकृत्योऽभवत्तदा ॥१३॥

तस्मात्सर्वप्रयत्नेन गुडिवायां द्विजोत्तमाः ।
सर्वकामप्रदं देवं पश्येत्तं पुरुषोत्तमम् ॥१४॥

अपुत्रो लभते पुत्रान्निर्धनो लभते धनम् ।
रोगाच्च मुच्यते रोगी कन्या प्राप्नोति सत्पतिम् ॥१५॥

आयुः कीर्तितं यशो मेधां बलं विद्यां धृतिं पशून् ।
नरः संततिमाप्नोति रूपययौवनसंपदम् ॥१६॥

यान्यान्समीहते भोगान्दृष्ट्वा तं पुरुषोत्तमम् ।
नरो वाऽप्यथवा नारी तांस्तान्प्राप्नोत्यसंशयम् ॥१७॥

यात्रां कृत्वा गुडिवाख्यां विधिवत्सुसमाहितः ।
आषाढस्य सिते पक्षे नरो योषिदथापि वा ॥१८॥

दृष्ट्वा कृष्णं च रामं च सुभद्रां च द्विजोत्तमाः ।
दशपञ्चाश्वमेधानां फलं प्राप्नोति चाधिकम् ॥१९॥

सप्तावरान्सप्त परान्वंशानुद्धृत्य चाऽऽत्मनः ।
कामगेन विमानेन सर्वरत्नैरलंङ्कृतः ॥२०॥

गन्धर्वैरप्सरोभिश्च सेव्यमानो यथोत्तरैः ।
रूपवान्सुभगः शूरो नरो विष्णुपुरं व्रजेत् ॥२१॥

तत्र भुक्त्वा वरान्भोगान्यावदाभूतसंप्लवम् ।
सर्वकामसमृद्धात्मा जरामरणवर्जितः ॥२२॥

पुण्यक्षयादिहाऽऽगत्य चतुर्वेदी द्विजो भवेत् ।
वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥२३॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयभुऋषिसंवादे गुडिवायात्रामाहात्म्यनिरूपणं नाम षट्षष्टितमोऽध्यायः ॥६६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP