TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १६७

ब्रह्मपुराणम् - अध्यायः १६७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १६७
विप्रतीर्थवर्णनम्
ब्रह्मोवाच
विप्रतीर्थमिति ख्यातं तथा नारायणं विदुः ।
तस्याऽऽख्यानं प्रवक्ष्यामि श्रृणु विस्मयकारकम् ॥१॥

अन्तर्वेद्यां द्विजः कश्चिद्‌ब्राह्मणो वेदपारगः ।
तस्य पुत्रा महाप्राज्ञा गुणरूपदयान्विताः ॥२॥

तेषां कनीयान्यो भ्राता शान्तो गुणगणैर्वृतः ।
आसन्दिव इति ख्यातः सर्वज्ञानो महामतिः ॥३॥

विवाहाय पिता तस्मा आसन्दिवाय यत्नवान् ।
एतस्मिन्नन्तरे रात्रौ सुप्तं तं द्विजपुत्रकम् ॥४॥

अविष्णुस्मरणं सौम्यशिरस्कमसमाहितम् ।
आसन्दिवं क्रूररूपा राक्षसी कामरूपिणी ॥५॥

तमादायागमच्छीघ्रं गौतम्या दक्षिणे तटे ।
श्रीगिरेरुत्तरे पारे बहुब्राह्मणसेवितम् ॥६॥

नगरं धर्मनिलयं लक्ष्म्या निलयमेव च ।
तत्र राजा बृहत्कीर्तिः सर्वक्षत्रगुणान्वितः ॥७॥

तस्यामितक्षेमसुभिक्षयुक्तं, निशावसाने द्विजपुत्रयुक्ता ।
सा राक्षसी तत्पुरमाससाद, मनोज्ञरूपाणि बिभर्ति नित्यम् ॥८॥

सा कामरूपेण चरत्यशेषां, महीमिमां तेन समं द्विजेन ।
गोदावरीदक्षिणतीर्भागे, वृद्धाकृतिस्तं द्विजमाह भीमा ॥९॥

राक्षस्युवाच
एषा तु गङ्गा द्विजमुख्य संध्या, उपास्यतां विप्रवरैः समेत्य ।
यथोचितं विप्रवरास्तु काले, नोपासते यत्नत एव संध्याम् ॥१०॥

नीचास्त एवाभिहिताः सुरेशैरन्त्यावसायिप्रवरास्त एते ।
अहं जनित्री तव चेति वाच्यं, नो चेदिदानीं त्वमुपैषि नाशम् ॥११॥

मद्वाक्यकर्ताऽसि यदि द्विजेन्द्र, सुखं करिष्ये तव यत्प्रियं च ।
पुनश्च देशं निलयं गुरूंश्च, संप्रापयिष्ये ननु सत्यमेतत् ॥१२॥

ब्रह्मोवाच
स प्राह का त्वं द्विजपुंगवोऽपि, सोवाच तं राक्षसी कामरूपा ।
विश्वासयन्ती शपथैरनेकैस्तं भ्रान्तचित्तं मुनिराजपुत्रम् ॥१३॥

कङ्कालिनी नाम जगत्प्रसिद्धा, विप्रोऽसि तामाह निवेदितं यत् ।
तदेव कर्ताऽस्मि न संशयोऽत्र, यत्तत्प्रियं वच्मि करोमि चैव ॥१४॥

ब्रह्मोवाच
तद्विप्रवचनं श्रुत्वा राक्षसी कामरूपिणी ।
वृद्धा तथाऽपि चार्वङ्गी दिव्यालंकारभूषणा ॥१५॥

द्विजमादाय सर्वत्र मत्सुतोऽयं गुणाकरः ।
एवं वदन्ती सर्वत्र याति वक्ति करोति च ॥१६॥

तं विप्रं रूपसौभाग्यवयोविद्याविभूषितम् ।
तां च वृद्धां गुणोपेतामस्य मातेति मेनिरे ॥१७॥

तत्र द्विजवरः कश्चित्स्वां कन्यां भूषणान्विताम् ।
राक्षसीं तां पुरस्कृत्य प्रादात्तस्मै द्विजातये ॥१८॥

सा कन्या तं पतिं प्राप्य कृतार्थाऽस्मीत्यचिन्तयत् ।
स द्विजोऽपि गुणैर्युक्तां पत्नीं दृष्ट्वा सुदुःखितः ॥१९॥

द्विज उवाच
मामियं भक्षयेदेव राक्षसी पापरूपिणी ।
किं करोमि क्व गच्छामि कस्यैतत्कथयामि वा ॥२०॥

महत्संकटमापन्नं रक्षयिष्यति कोऽत्र माम् ।
भार्या ममेयं कल्याणी गुणरूपवयोयुता ॥
एनामप्यशुभाऽकस्माद्भक्षयिष्यति राक्षसी ॥२१॥

एतस्मिन्नन्तरे तत्र भार्या सा गुणशलिनी ।
वृद्धाऽप्यतिदुराधर्षा सा गता कुत्रचित्तदा ॥२२॥

प्रश्रयावनता भूत्वा बाला चापि पतिव्रता ।
भर्तारं दुःखितं ज्ञात्वा पतिं प्राह रहः शनैः ॥२३॥

भार्योवाच
कस्मात्ते दुःखमापन्नं स्वमिंस्तत्त्वं वदस्व मे ॥२४॥

ब्रह्मोवाच
शनैः प्रोवाच तां भार्यां यथावत्पूर्वविस्तरम् ।
किमकथ्यं प्रिये मित्रे कुलीनायां च योषिति ॥२५॥

भर्तृवाक्यं निशम्येदं प्रोवाच वदतां वरा ॥२६॥

भार्योवाच
अनात्मनः सर्वतोऽपि भयमस्ति गृहेष्वपि ।
कुतो भयं ह्यात्मवतां किं पुनर्गौतमीतटे ॥२७॥

वसतां विष्णुभक्तानां विरक्तानां विवेकिनाम् ।
अत्रस्नात्वा शुचिर्भूत्वा स्तुहि देवमनामयम् ॥२८॥

ब्रह्मोवाच
एतदाकर्ण्य गङ्गायां स्नात्वा विगतकल्मषः ।
तुष्टाव गौतमीतीरे द्विजो नारायणं तथा ॥२९॥

द्विज उवाच
त्वमन्तरात्मा जगतोऽस्य नाथ, त्वमेव कर्ताऽस्य मुकुन्द हर्ता ।
त्वं पालकः पालयसे न दीनमनाथबन्धो नरसिंह कस्मात् ॥३०॥

श्रुत्वैतत्प्रार्थनं तस्य जगच्छोकनिवारणः ।
नारायणोऽपि तां पापां निजघान स राक्षसीम् ॥३१॥

सुदर्शनेन चक्रेण सहस्रारेण भास्वता ।
तस्मै प्रादाद्वरानिष्टान्प्रापयच्च गुरुं प्रभुः ॥३२॥

ततः प्रभृति तत्तीर्थं विप्रं नारायणं विदुः ।
स्नानदानेन पूजाद्यैर्यत्र सिध्यति वाञ्छितम् ॥३३॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये विप्रानारायणतीर्थवर्णनं नाम सप्तषष्ट्यधिकशततमोऽध्यायः ॥१६७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:42.7400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Mesaxonia

  • पु. Zool. मेसाक्झोनिआ 
RANDOM WORD

Did you know?

shatshastra konati?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.