TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २१९

ब्रह्मपुराणम् - अध्यायः २१९

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २१९
श्राद्धविधिवर्णनम्
मुनय ऊचुः
परलोकगतानां तु स्वकर्मस्थानवासिनाम् ।
तेषां श्राद्धं कथं ज्ञे(दे)यं पुत्रैश्चान्यैश्च बन्धुभिः ॥१॥

व्यास उवाच
नमस्कृत्य जगन्नाथं वाराहं लोकभावनम् ।
श्रृणुध्वं संप्रवक्ष्यामि श्राद्धकल्पं यथोदितम् ॥२॥

पुरा कोकाजले मग्नान्पितृनुद्धृतवान्विभुः ।
श्राद्धं कृत्वा तदा देवो यथा तत्र द्विजोत्तमाः ॥३॥

पितर ऊचुः
किमर्थं ते तु कोकायां निमग्नाः पितरोऽम्भसि ।
कथं तेनोद्धृतास्ते वै वाराहेण द्विजोत्तम ॥४॥

तस्मिन्कोकामुके तीर्थं भुक्तिमुक्तिफलप्रदे ।
श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः ॥५॥

व्यास उवाच
त्रेताद्वापरयोः संधौ पितरो दिव्यमानुषाः ।
पुरा मेरुगिरेः पृष्ठे विश्वैर्देवैः सह स्थिताः ॥६॥

तेषां समुपविष्टानां पितृणां सोमसंभवा ।
कन्या कान्तिमती दिव्या पुरतः प्राञ्जलिः स्थिता ॥
तामूचुः पितरो दिव्या ये तत्राऽऽसन्समागताः ॥७॥

पितर ऊचुः
काऽसि भद्रे प्रभुः को वा भवत्या वक्तुमर्हसि ॥८॥

व्यास उवाच
सा प्रोवाच पितृन्देवान्कला चान्द्रमसीति ह ।
प्रभुत्वे भवतामेव वरयामि यदीच्छथ ॥९॥

ऊर्जा नामास्ति प्रथमं स्वधा च तदनन्तरम् ।
भवद्‌भिश्चाद्यैव कृतं नाम कोकेति भावितम् ॥१०॥

ते हि तस्या वचः श्रुत्वा पितरो दिव्यमानुषाः ।
तस्या मुखं निरीक्षन्तो न तृप्तिमधिजग्मिरे ॥११॥

विश्वेदेवाश्च ताञ्ज्ञात्वा कन्यामुखनिरीक्षकन् ।
योगच्युतान्निरीक्ष्यैव विहाय त्रिदिवं गताः ॥१२॥

भगवानपि शीतांशुरूर्जां नापश्यदात्मजाम् ।
समाकुलमना दध्यौ क्व गतेति महायशाः ॥१३॥

स विवेद तदा सोमः प्राप्तं पितॄंश्च कामतः ।
तैश्चावलोकितां हार्दात्स्वीकृतां च तपोबलात् ॥१४॥

ततः क्रोधपरीतात्मा पितञ्शशधरो द्विजाः ।
शशाप निपतिष्यध्वं योगभ्रष्टा विचेतसः ॥१५॥

यस्माददत्तां मत्कन्यां कामयध्वं सुबालिशाः ।
यस्माद्धृतवती चेयं पतीन्पितृमती सती ॥१६॥

स्वतन्त्रा धर्ममुत्सृज्य तस्माद्‌ भवतु निम्नगा ।
कोकेति प्रथिता लोके शिशिराद्रिसमाश्रिता ॥१७॥

इत्थं शप्ताश्चन्द्रमसा पितरो दिव्यमानुषाः ।
योगभ्रष्टा निपतिता हिमवत्पादभूतले ॥१८॥

ऊर्जा तत्रैव पतिता गिरिराजस्य विस्तृते ।
प्रस्थे तीर्थं समासाद्य सप्तसामुत्तमम् ॥१९॥

कोका नाम ततो वेगान्नदी तीर्थशताकुला ।
प्लावयन्ती गिरेः श्रृङ्गं सर्पणात्तु सरित्स्मृता ॥२०॥

अथ ते पितरो विप्रा योगहीना महानदीम् ।
ददृशुः शीतसलिलां न विदुस्तां सुलोचनाम् ॥२१॥

ततस्तु गिरिराड्दृष्ट्वा पितॄंस्तांस्तु क्षुधार्दितान् ।
बदरीमादिरेशाथ धेनुं चैकां मधुस्रवाम् ॥२२॥

क्षीरं मधु च तदिदव्यं कोकाम्भो बदरीफलम् ।
इदं गिरिवरेणैषां पोषणाय निरूपितम् ॥२३॥

तया वृत्त्या तु वसतां पितॄणां मुनिसत्तमाः ।
दश वर्षसहस्राणि ययुरेकमहो यथा ॥२४॥

एवं लोके विपितरि तथैव विगतस्वधे ।
दैत्या बभूवुर्बलिनो यातुधानाश्च राक्षसाः ॥२५॥

ते तान्पितृगणान्दैत्या यातुधानाश्च वेगिताः ।
विश्वैर्देवैर्विरहितान्सर्वतः समुपाद्रवन् ॥२६॥

दैतेयान्यातुधानांश्च दृष्ट्वैवाऽऽपततो द्विजाः ।
कोकातटस्थामुत्तुङ्गां शिलां ते जगृहू रुषा ॥२७॥

गृहीतायां शिलायां तु कोका वेगवती पितॄन् ।
छादयामास तोयेन प्लावयन्ती हिमाचलम् ॥२८॥

पितृनन्तर्हितान्दृष्ट्वा दैतेया राक्षसास्तथा ।
विभीतकं समारुह्य निराहारास्तिरोहिताः ॥२९॥

सलिलेन विषीदन्तः पितरः क्षुद्भ्रमातुराः ।
विषीदमानमात्मानं समीक्ष्य सलिलाशयाः ॥
जगुर्जनार्दनं देवं पितरः शरणं हरिम् ॥३०॥

मुनय ऊचुः
जयस्व गोविन्द जगन्निवास जयोऽस्तु नः केशव ते प्रसादात् ।
जनार्दनास्मान्सलिलान्तरस्थानुद्धर्तुमर्हस्यनघप्रताप ॥३१॥

निशाचरैर्दारुणादर्शनैः प्रभो वरेण्य वैकुण्ठ वराह विष्णो ।
नारायणाशेषमहेश्वरेश प्रयाहि भीताञ्जय पद्मनाभ ॥३२॥

उपेन्द्र योगिन्मधुकैटाभघ्न विष्णो अनन्ताच्युत वासुदेव ।
श्रीशार्ङ्गचक्रामबुजशङ्खपाणे रक्षस्व देवेश्वर राक्षसेभ्यः ॥३३॥

त्वं पिता जगतः शंभो नान्यः शक्तः प्रबाधितुम् ।
निशाचरगणं भीममतस्त्वां शरणं गताः ॥३४॥

त्वन्नामसंकीर्तनतो निशाचरा द्रवनति भूतान्यपयान्ति चारयः ।
नाशं तथा संप्रति यान्ति विष्णो धर्मादि सत्यं भवतीह मुख्यम् ॥३५॥

व्यास उवाच
इथं स्तुतः स पितृभिरधरणीधरस्तु तुष्टस्तदाऽऽविष्कृतदिव्यमूर्तिः ।
कोकामुके पितृगणं सलिले निमग्ने देवो ददर्श शिरसाऽथ शिलां वहन्तम् ॥३६॥

तं दृष्ट्वा सलिले मग्नं क्रोडरूपी जनार्दनः ।
भीतं पितृगणं विष्णुरुद्धर्तु मतिरादधे ॥३७॥

दंष्ट्राग्रेण समाहत्य शिलां चिक्षेप शूकरः ।
पितृनादाय च विभुरुज्जहार शिलातलात् ॥३८॥

वराहदंष्ट्रासंलग्नाः पितरः कनकोज्ज्वलाः ।
कोकामुखे गतभयाः कता देवेन विष्णुना ॥३९॥

उद्धृत्य च पितृन्देवो विष्णुतीर्थे तु शूकरः ।
ददौ समाहितस्तेभ्यो विष्णुर्लोहार्गले जलम् ॥४०॥

ततः स्वरोमसंभूतान्कुशानादाय केशवः ।
स्वेदोद्भवांस्तिलांश्चैव चक्रे चोल्मुकमुत्तमम् ॥४१॥

ज्योतिः सूर्यप्रभं कृत्वा पात्रं तीर्थं च कामिकम् ।
स्थितः कोटिवटस्याधो वारि गङ्गाधरं शुचि ॥४२॥

तुङ्गकूटात्समादाय यज्ञीयानोषधीरसान् ।
मधुक्षीररसान्गन्धान्पुष्पधूपानुलेपानान् ॥४३॥

आदाय धेनुं सरसो रत्नान्यादाय चार्णवात् ।
दंष्ट्रयोल्लिख्य धरणीमभ्युक्ष्य सलिलेन च ॥४४॥

धर्मेद्‌भवेनोपलिप्य कुशैरुल्लिख्य तां पुनः ।
परिणीयोल्मुकेनैनामभ्युक्ष्य च पुनः पुनः ॥४५॥

कुशानादाय प्रागग्रांल्लोमकूपान्तरस्थितान् ।
ऋषीनाहूय पप्रच्छ करिष्ये पितृतर्पणम् ॥४६॥

तैरप्युक्ते कुरुष्वेति विश्वान्देवांस्ततो विभुः ।
आहूय मन्त्रतस्तेषां विष्टराणि ददौ प्रभुः ॥४७॥

आहूय मन्त्रतस्तेषां वेदोक्तविधिना हरिः ।
अक्षतैर्दैवतारक्षां चक्रे चक्रगदाधरः ॥४८॥

अक्षतास्तु यवौषध्यः सर्वदेवांशसंभवाः ।
रक्षन्ति सर्वत्र दिशो रक्षार्थं निर्मिता हि ते ॥४९॥

देवदानवदैत्येषु यक्षरक्षःसु चैव हि ।
नहि कश्चित्क्षयं तेषां कर्तुं शक्तश्चाराचरे ॥५०॥

न केनचित्कृतं(त्क्षता)यस्मात्तस्मात्ते ह्यक्षताः कृताः ।
देवानां ते हि रक्षार्थं नियुक्ता विष्णुना पुरा ॥५१॥

कुशगन्धयवैः पुष्पैरर्घ्यं कृत्वा च शूकरः ।
विश्वेभ्यो देवेभ्य इति ततस्तान्पर्यपृच्छत ॥५२॥

पितॄनावाहयिष्यामि ये दिव्या ये च मानुषाः ।
आवाहयस्वेति च तैरुक्तस्त्वावाहये(य) च्छुचिः ॥५३॥

श्लिष्टमूलाग्रदर्भांस्तु सतिलान्वेद वेदवित् ।
जानावारोप्य हस्तं तु ददौ सव्येन चाऽऽसनम् ॥५४॥

तथैव जानुसंस्थेन करेणैकेन तान्पितृन् ।
वाराहः पितृविप्राणामायान्तु न इतीरयन् ॥५५॥

अपहतेत्युवाचैव रक्षणं चापसव्यतः ।
कृत्वा चाऽऽवाहनं चक्रे पितॄणां नामगोत्रतः ॥५६॥

तत्पितरो(पितरोऽत्र)मनोजराना)वा आ(गच्छत इतीरयन्(?) ।
संवत्सरैरित्युदीर्य ततोऽर्घ्यं तेषु विन्यसेत् ॥५७॥

यास्तिष्ठन्त्यमृता वाचो यन्मेति च पितुः पितुः ।
पितामहेत्येवं ददावर्घ्यं पितामहे ॥५८॥

यन्मे प्रपितामहेति ददौ च प्रपितामहे ।
कुशगनदतिलोन्मिश्रं सपुष्पमपसव्यतः ॥५९॥

यन्मे प्रपितामहेति विधिं चक्रे जनार्दनः ।
तानर्च्य भूयो गन्धाद्यैर्धूपं दत्त्वा तु भक्तितः ॥६०॥

आदित्य वसवो रुद्रा पर्यपृच्छत्ततो मुनीन् ।
अग्नौ करिष्य इति तैः कुरुष्वेति च चोदितः ॥६१॥

विधाय पात्रे तच्चैव पर्यपृच्छत्ततो मुनीन् ।
अग्नौ करिष्य इति तैः सुरुष्वेति च चोदितः ॥६२॥

आहुतित्रितयं दद्यात्सोमायाग्नेर्यमाय च ।
ये मामकेति च जपेद्यजुः कप्तकमच्युतम् ॥६३॥

हुतावशिष्टं च ददौ नामगोत्रसमन्वितम् ।
त्रिराहुतिकमेकैकं पितरं तु प्रति द्विजाः ॥६४॥

अतोऽवशिष्टमन्नाद्यं पिण्डपात्रे तु निक्षिपेत् ।
ततोऽन्नं सरसं स्वादु ददौ पायसपूर्वकम् ॥६५॥

प्रत्यग्रमेकदा स्विन्नमपर्युषितमुत्तमम् ।
अल्पशाकं बहुफलं षड्रसममृतोपमम् ॥६६॥

यद्‌ब्राह्मणेषु प्रददौ पिण्डपात्रे पितृंस्तथा ।
वेद(देव)पूर्वं पितृस्व(ष्व)न्नमाज्यप्लुतं मधूक्षितम् ॥६७॥

मन्त्रितं पृथिवीत्येवं मधुवातातृचं जगौ ।
भुञ्जानेषु तु विप्रेषु जपन्वै मन्त्रपञ्चकम् ॥६८॥

यत्ते प्रकारमारभ्य नाधिकं ते ततो जगौ ।
त्रिमधु त्रिसुपर्णं च बृहदारण्यकं तथा ॥६९॥

जजाप वैषां जाप्यं तु सूक्तं सौरं सपौरुषम् ।
भुक्तवत्सु च विप्रेषु पृष्ट्वा तृप्ताःस्थ इत्युत ॥७०॥

तृप्ताः स्मेति सकृत्तोयं ददौ मौनविमोचनम् ।
पिण्डपात्रं समादाय च्छायायौ प्रददौ ततः ॥७१॥

सा तदन्नं द्विधा कृत्वा त्रिधैकैकमथाकरोत् ।
वाराहो भूमथोल्लिख्य समाच्छाद्य कुशैरपि ॥७२॥

दक्षिणाग्रान्कुशान्कृत्वा तेषामुपरि चाऽऽसनम् ।
सतिलेषु समूलेषु कुशेष्वेव तु संश्रयः ॥७३॥

गन्धपुष्पादिकं कृत्वा ततः पिण्डं भक्तितः ।
पृथिवी दधीरित्युक्त्वा ततः पिण्डं(पित्रे)प्रदत्तवान् ॥७४॥

पितामहाः प्रपितामहास्तथेति(?)चान्तरिक्षतः ।
मातामहानामप्येवं ददौ पिण्डान्स शूकरः ॥७५॥

पिण्डनिर्वापणोच्छिष्टमन्नं लेपभुजेष्वदात् ।
एतद्वः पितरित्युक्त्वा ददौ वासांसि भक्तितः ॥७६॥

द्व्यङ्गलजानि शुक्लानि धौतान्यभिनवानि च ।
गन्धपूष्पादिकं दत्त्वा कृत्वा चैषां प्रदक्षिणाम् ॥७७॥

आचम्याऽऽचमयेद्विप्रान्पैत्रानादौ ततः सुरान् ।
ततस्त्वभ्युक्ष्य तां भूमिं दत्त्वाऽपः सुनोक्षतान् ॥७८॥

सतिलाम्बु पितृष्वादौ दत्त्वा देवेषु साक्षतम् ।
अक्षय्यं नस्त्विति पितॄन्प्रीयतामिति देवताः ॥७९॥

प्रीणयित्वा परावृत्य त्रिर्जपेच्चाघमर्षणम् ।
ततो निवृत्य तु जपेद्यन्मे नाम इतीरयन् ॥८०॥

गृहान्नः पितरो दत्त धनधान्यप्रपूरितान् ।
अर्घ्यपात्राणि पिण्डानामन्तरे स पवित्रकान् ॥८१॥

निक्षिप्योर्जन वहन्तीति कोकातोयमथोऽजपत् ।
हिमक्षीरं मधुतिलान्पितॄणां तर्पणं ददौ ॥८२॥

स्वस्तीत्युक्ते पैतृकैस्तु सोराह्ने प्नावतर्पयन् ।
रजतं दक्षिणां दत्त्वा विप्रान्देवो गदाधरः ॥८३॥

संविभागं मनुष्येभ्यो ददौ स्वदिति चाब्रुवन् ।
कश्चि(च्चि)त्संपन्नमि(त्यु)क्त्वा प्रत्युक्तस्तैर्द्विजोत्तमाः ॥८४॥

अभिरम्यतामित्युवाच प्रोचुस्तेऽभिरताः स्म वै ।
शिष्टमन्नं च पप्रच्छ तैरिष्टैः सह चोदितः ॥८५॥

पाणावादाय तान्विप्रान्कुर्यादनुगतस्त(तं त)दा ।
वाजे वाजे इति पठन्बहिर्वेदि विनिर्गतः ॥८६॥

कोटितीर्थजलेनासावपसव्यं समुत्क्षिपन् ।
अलग्नान्विपुलान्वालान्प्रार्थयामास चाशिषम् ॥८७॥

दातारो नोऽभिवर्धन्तां तैस्तथेति समीरितः ।
प्रदक्षिणमुपावृत्य कृत्वा पादाभिवादनम् ॥८८॥

आसनानि ददौ चैषां छादयचामास शूकरः ।
विश्राम्यतां प्रविश्याथ पिण्डं जग्राह मध्यमम् ॥८९॥

छायामयी मही पत्नी तस्यै पिण्डमदात्प्रभुः ।
आधत्त पितरो गर्भमित्युक्ताव साऽपि रूपिणी ॥९०॥

पिण्डं गृहीत्वा विप्राणां चक्रे पादाभिवन्दनम् ।
विसर्जनं पितॄणां स कर्तुकामश्च शूकरः ॥९१॥

कोका च पितरश्चैव प्रोचुः स्वार्थकरं वचः ।
शप्ताश्च भगवन्पूर्वं दिवस्था हिमभानुना ॥९२॥

योग भ्रष्टा भविष्यध्वं सर्वं एव दिवश्च्युताः ।
तदेव भवता त्राताः प्रविशन्तो रसातलम् ॥९३॥

योग भ्रष्टांश्च विश्वेशास्तत्यजुर्योगरक्षिणः ।
तत्ते भूयोऽभिरक्षन्तु विश्वे देवा हि नः सदा ॥९४॥

स्वर्गं यास्यामश्च विभो प्रसादात्तव शुकर ।
सो(य)मोऽधिदेवोऽस्माकं च भवत्वच्युत योगधृक् ॥९५॥

योगाधारस्तथा सोमस्त्रायते न कदाचन ।
दिवि भूमौ सदा वासो भवत्वस्मासु योगतः ॥९६॥

अन्तरिक्षे च केषां चिन्मासं पुष्टिस्तथाऽस्तु नः ।
ऊर्जा चेयं हि नः पत्नी स्वधानाम्ना तु विश्रुता ॥९७॥

भवत्वेषैव योगाढ्या योगमाता च खेचरी ।
इत्येवमुक्तः पितृभिर्वाराहो भूतभावनः ॥९८॥

प्रोवाचाथ वितॄन्विष्णुस्तां च कोकां महानदीम् ।
यतुक्तं तु भवद्‌भिर्मे सर्वमेतद्भविष्यति ॥९९॥

यमोऽधिदेवो भवतां सोमः स्वाध्याया ईरितः ।
अधियज्ञस्ततैवाग्निर्भवतां कल्पना त्वियम् ॥१००॥

अग्निर्वायुश्च सूर्यश्च स्थानं हि भवतामिति ।
ब्रह्मा विष्णुश्च रुद्रश्च वतामधिपूरुषाः ॥१०१॥

आदित्या वसवो रुद्रा भवतां मूर्तस्त्विमाः ।
योगिनो योगदेहाश्च योगधाराश्च सुव्रताः ॥१०२॥

कामतो विचरिष्यध्वं फलदाः सर्वजन्तुषु ।
स्वर्गस्थान्नरकस्थांश्च भूमिस्थांश्च चराचरान् ॥१०३॥

निजयोगबलेनैवाऽऽप्याययिष्वध्वमुत्तमाः ।
इयमूर्जा शशिसुता कीलालमधुविग्रहा ॥१०४॥

भविष्यति महाभागा दक्षस्य दुहिता स्वधा ।
तत्रेयं भवतां पत्नी भविष्यति वरानना ॥१०५॥

कोकानदीति विख्याता गिरिराजसमाश्रिता ।
तीर्थकोटिमहापुण्या मद्रूपपरिपालिता ॥१०६॥

अस्यामद्य प्रभृति वै निवत्स्याम्यघनाशकृत् ।
वराहदर्शनं पुण्यं पूजनं भुक्तिमुक्तिदम् ॥१०७॥

कोकासलिलपानं च महापातकनाशनम् ।
तीर्थेष्वाप्लवनं पुण्यमुपवासश्च स्वर्गदः ॥१०८॥

दानमक्षय्यमुदितं जन्ममृत्युजरापहम् ।
माघे मास्यसिते पक्षे भवद्भिरुडुपक्षये ॥१०९॥

कोकामुखमुपागम्य स्थातव्यं दिनपञ्चकम् ।
तस्मिन्काले तु यः श्राद्धं पितॄणां निर्वपिष्यति ॥११०॥

प्रागुक्तफलभागी स भविष्यति न संशयः ।
एकादशीं द्वादशीं च स्थेयमत्र मया सदा ॥१११॥

यस्तत्रोपवसेद्धीमान्स प्रागुक्तफलं लभेत् ।
तद्‌व्रजध्वं महाभागाः स्थानमिष्टं यथेष्टतः ॥११२॥

अहमप्यत्र वत्स्यामीत्युक्त्वा सोऽनतरधीयत ।
गते वराहे पितरः कोकामामन्त्र्य ते ययुः ॥११३॥

कोकाऽपि तीर्थसहिता संस्थिता गिरिराजनि ।
छाया महीमयी क्रोडी पिण्डप्राशनबृंहिता ॥११४॥

गर्भमादाय सश्रद्धा वाराहस्यैव सुन्दरी ।
ततोऽस्याः प्रभवत्पुत्रो भौमस्तु नरकासुरः ॥
प्राग्ज्योतिषं च नगरमस्य दत्तं च विष्णुना ॥११५॥

एवं मयोक्तं वरदस्य विष्णो कोकामुखे दिव्यवराहरूपम् ।
श्रुत्वा नरस्त्यक्तमलो विपाप्मा दशाश्वमेधेष्टिफलं लभेत ॥११६॥

इति श्रीमहापुराणे आदिब्राह्मे व्यासऋषिसंवादे श्राद्धविधिनिरूपणं नामैकोनविंशत्यधिकद्विशततमोऽध्यायः ॥२१९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:45.7570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

waste and arable land

  • स्त्री. पडीत व कृषियोग्य जमीन 
RANDOM WORD

Did you know?

कोणत्याही पूजेसाठी गणपती म्हणून चिकणी सुपारीला महत्व आहे, मग बाकीच्यांना कां नाही?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.