TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १२२

ब्रह्मपुराणम् - अध्यायः १२२

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १२२
अथ द्वाविंशत्यधिकशततमोऽध्यायः
पूर्णादितीर्थवर्णनम्
ब्रह्मोवाच
पूर्णतीर्थमिति ख्यातं गङ्गाया उत्तरे तटे ।
तत्र स्नात्वा नरोऽज्ञानात्तथाऽपि शुभमाप्नुयात् ॥१॥

पूर्णतीर्थस्य माहात्म्यं वर्ण्यते केन जन्तुना ।
स्वंय संस्थीयते यत्र चक्रिणा च पिनाकिना ॥२॥

पुरा धन्वन्तरिर्नाम कल्पादावायुषः सुतः ।
इष्ट्वा बहुविधैर्यज्ञैरश्वमेधपुरः सरैः ॥३॥

दत्त्वा दानान्यनेकानि भुक्त्वा भोगांश्च पुष्कलान् ।
विज्ञाय भोगवैषम्यं परं वैराग्यमाश्रितः ॥४॥

गिरिश्रृङ्गेऽम्बुधेः पारे तथा गङ्गानदीतटे ।
शिवविष्ण्वोर्गृहे वापि विशेषात्पुण्यसंगमे ॥५॥

तप्तं हुतं च जप्तं च सर्वमक्षयतां व्रजेत् ।
धन्वन्तरिरिति ज्ञात्वा तत्र तेपे तपो महत् ॥६॥

ज्ञानवैराग्यसंपन्नो भीमेशचरणाश्रयः ।
तपश्चकार विपुलं गङ्गासागरसंगमे ॥७॥

पुरा च निकृतो राज्ञा रणं हित्वा महासुरः ।
सहस्त्रमेकं वर्षाणां समुद्रं प्राविशद्भयात् ॥८॥

धन्वन्तरौ वनं प्राप्ते राज्यं प्राप्ते तु तत्सुते ।
विरागं च गते राज्ञि ततः प्रायादथार्णवात् ॥९॥

तपस्यन्तं तमो नाम बलवानसुरो मुने ।
गङ्गातीरं समाश्रित्य राजा धन्वन्तरिर्यतः ॥१०

जपहोमरतो नित्यं ब्रह्मज्ञानपरायणः ।
तं रिपुं नाशयामीति तमः प्रायादथार्णवात् ॥११॥

नाशितो बहुशोऽनेन राज्ञा बलवता त्वहम् ।
तं रिपुं नाशयामीति तमः प्रायादथार्णवात् ॥१२॥

मायया प्रमदारूपं कृत्वा राजानमभ्यगात् ।
नृत्यगीतवती सुभ्रर्हसन्ती चारुदर्शना ॥१३॥

तां दृष्ट्वा चारुसर्वाङ्गीं बहुकालं नयान्विताम् ।
शान्तामनुव्रतां भक्तां कृपया चाब्रवीन्नृपः ॥१४॥

नृप उवाच
काऽसि त्वं कस्य हेतोर्वा वर्तसे वने ।
कं दृष्ट्वा हर्षसीव त्वं वद कल्याणि पृच्छते ॥१५॥

ब्रह्मोवाच
प्रमदा चापि तद्वाक्यं श्रुत्वा राजानमब्रवीत् ॥१६॥

प्रमदोवाच
त्वयि तिष्ठति को लोके हेतुर्हर्षस्य मे भवेत् ।
अहमिन्द्रस्य या लक्षणीस्त्वां दृष्ट्वा कामसंभृतम् ॥१७॥

हर्षाच्चरामि पुरतो राजंस्तव पुनः पुनः ।
अगण्यपुण्यविरहादहं सर्वस्य दुर्लभा ॥१८॥

ब्रह्मोवाच
एतद्वचो निशम्याऽऽशु तपस्त्यक्त्वा सुदुष्करम् ।
तामेव मनसा ध्यायंस्तन्निष्ठस्ततपरायणः ॥१९॥

तदेकाशरणो राजा बभुव स यदा तमः ।
अन्तर्धानं गतो ब्रह्मन्नाशयित्वा तपो बृहत् ॥२०॥

एतस्मिन्नन्तरेऽहं वै वरान्दातुं समभ्यगाम् ।
तं दृष्ट्वा विह्वलीभूतं तपोभ्रष्टं यथामृतम् ॥२१॥

तमाश्वास्याथ विविधैर्हेतुभिर्नृपसत्तमम् ।
तव शत्रुस्तमो नाम कृत्वा तां तपसश्च्युतिम् ॥२२॥

चरितार्थे गतो राजन्न त्वं शोचितुर्महसि ।
आनन्दयन्ति प्रमदास्तापयन्ति च मानवम् ॥२३॥

सर्वा एव विशेषेण किमु मायामयी तु सा ।
ततः कृताञ्जली राजा मामाह विगतभ्रमः ॥२४॥

राजोवाच
किं करोमि कथं ब्रह्मंस्तपसः पारमाप्नुयाम् ॥२५॥

ब्रह्मोवाच
ततस्तस्योत्तरं प्रादां देवदेवं जनार्दनम् ।
स्तुहि सर्वप्रयत्नेन ततः सिद्धिमवाप्स्यसि ॥२६॥

स ह्यशेषजगत्स्रष्टा वेदवेद्यः पुरातनः ।
सर्वार्थसिद्धिदः पुंसां नान्योऽस्ति भुवनत्रये ॥२७॥

स जगाम नगश्रेष्ठं हिमवन्तं नृपोत्तमः ।
कृताञ्जलिपुटो भूत्वा विष्णुं तुष्टाव भक्तितः ॥२८॥

धन्वन्तरिरुवाच
जय विष्णो जयाचिन्त्य जय जिष्णो जयाच्युत ।
जय गोपाल लक्ष्मीश जय कृष्ण जगन्मय ॥२९॥

जय भूतपते नाथ जय पन्नगशायिने ।
जय गोविन्द जय विश्वकृते नमः ॥३०॥

जय विश्वभुजे देव जय विश्वधृते नमः ।
जयेश सदसत्त्वं वै जय माधव धर्मिणे ॥३१॥

जय कामद काम त्वं जय राम गुणार्णव ।
जय पुष्टिद पुष्टीश जय कल्याणदायिने ॥३२॥

जय भूतप भूतेश जय मानविधायिने ।
जय कर्मद कर्म त्वं जय पीताम्बरच्छद ॥३३॥

जय सर्वेश सर्वस्त्वं जय मङ्गलरूपिणे ।
जय सत्त्वाधिनाथाय जय वेदविदे नमः ॥३४  ।

जय जन्मद जन्मिस्थ परमात्मन्नमऽस्तु ते ।
जय मुक्तिद मुक्तिस्त्वं जय भुवितद केशव ॥३५॥

जय लोकद लोकेश जय पापाविनाशन ।
जय वत्सल भक्तानां जय चक्रधृते नमः ॥३६॥

जय मानद मानस्त्वं जय लोकनमस्कृत ।
जय धर्मद धर्मस्त्वं जय संसारपारग ॥३७॥

जय अन्नद अन्नं त्वं जय वाचस्पते नमः ।
जय शक्तिद शक्तिस्त्वं जय जैत्रवरप्रद ॥३८॥

जय यज्ञद यज्ञस्त्वं जय पद्मदलेक्षण ।
जय दानद दानं त्वं जय कैटभसूदन ॥३९॥

जय कीर्तिद कीर्तिस्त्वं जय मूर्तिद मूर्तिधृक् ।
जय सौख्यद सौख्यात्मञ्जय पावनपावन ॥४०॥

जय शान्तिद शान्तिस्त्वं जय शंकरसंभव ।
जय पानद पानस्त्वं जय ज्योतिःस्वरूपिणे ॥४१॥

जय वामन वित्तेश जय धूमपताकिने ।
जय सर्वस्य जगतो दातृमूर्ते नमोऽस्तु ते ॥४२॥

त्वमेव लोकत्रयवर्तिजीवनिकायसंक्लेशविनाशदक्ष ।
श्रीपुण्डरीकाक्ष कृपानिधे त्वं, निधेहि पाणिं मम मूर्ध्नि विष्णो ॥४३॥

ब्रह्मोवाच
एवं स्तुवन्तं भगवाञ्शङ्खचक्रगदाधरः ।
वरेण च्छन्दयामास सर्वकामसमृद्धिदः ॥४४॥

धन्वन्तरिः प्रीतमना वरदानेन चक्रिणः ।
वरदानाय देवेशं गोविन्दं संस्थितं पुरः ॥४५॥

तमाह नृपतिः प्रह्वः सुरराज्यं ममेप्सितम् ।
तच्च दत्तं त्वया विष्णो प्राप्तोऽस्मि कृतकृत्यताम् ॥४६॥

स्तुतः संपूजितो विष्णुस्तत्रैवान्तरधीयत ।
तथैव त्रिदशेशत्वमवाप नृपतिः क्रमात् ॥४७॥

प्रागर्जितानेककर्मपरिपाकवशात्ततः ।
त्रिःकृत्वो नाशमागमत्सहस्राक्षः स्वकात्पदात् ॥४८॥

नहुषद्वृत्रहत्यायाः सिन्धुसेनवधात्ततः ।
अहल्यायां च गमनाद्ये न केन च हेतुना ॥४९॥

स्मारं स्मारं तत्तदिन्द्रश्चिन्तासंतापदुर्मनाः ।
ततः सुरपतिः प्राह वाचस्पतिमिदं वचः ॥५०॥

इन्द्र उवाच
हेतुना केन वागीश भ्रष्टराज्यो भवाम्यहम् ।
मध्ये मध्ये पदभ्रंशाद्वरं निःश्रीकता नृणाम् ॥५१॥

गहनां कर्मणां जीवगतिं को वेत्ति तत्त्वतः ।
रहस्यं सर्वभावानां ज्ञातुं नान्यः प्रगल्भते ॥५२॥

ब्रह्मोवाच
बृहस्पतिर्हरिं प्राह ब्रह्माणं पृच्छ गच्छ तम् ।
स तु जानाति यद्भूतं भविष्यच्चापि वर्तनम् ॥५३॥

स तु वक्ष्यति येनेदं जातं तच्च महामते ।
तावागत्य महाप्राज्ञौ नमस्कृत्य ममान्तिकम् ॥
कृताञ्जलिपुटौ भूत्वा मामूचतुरिदं वचः ॥५४॥

इन्द्रबृहस्पती ऊचतुः
भगवन्केन दोषेण शचीभर्ता उदारधीः ।
राज्यात्प्रभ्रश्यते नाथ संशयं छेत्तुमर्हसि ॥५५॥

ब्रह्मोवाच
तदाऽहमब्रवं ब्रह्मंश्चिरं ध्यायत्वा बृहस्पतिम् ।
खण्डधर्माख्यदोषेण तेन राज्यपदाच्च्युतः ॥५६॥

देशकालादिदोषेण श्रद्धामन्त्रविपर्ययात् ।
यथावद्दक्षिमादानादसद्द्रव्यप्रदानतः ॥५७॥

देवभूदेवतावज्ञापातकाच्च विशेषतः ।
यत्खण्डत्वं स्वधर्मस्य देहिनामुपजायते ॥५८॥

तेनातिमानसस्तापः पदहानिश्च दुस्त्यजा ।
कृतोऽपि धर्मोऽनिष्टाय जायते क्षुब्धचेतसा ॥५९॥

कार्यस्य न भवेत्सिद्ध्यै तस्मादव्याकुलाय च ।
असंपूर्णे स्वधर्मे हि किमनिष्टं न जायते ॥६०॥

ताभ्यां यत्पूर्ववृत्तान्तं तदप्युक्तं मयाऽनघ ।
आयुषस्तु सुतः श्रीमान्धन्वन्तरिरुदारधीः ॥६१॥

तमसा च कृतं विघ्नं विष्णुना तच्च नासितम् ।
पूर्वजन्मसु वृत्तान्तमित्यादि परिकीर्तितम् ॥६२॥

तच्छ्रुत्वा वस्मितौ चोभौ मामेव पुनरूचतुः ॥६३॥

इन्द्रबृहस्पती ऊचतुः
तद्दोषप्रतिबन्धस्तु केन स्यात्सुरसत्तम ॥६४॥

ब्रह्मोवाच
पुनर्ध्यात्वा ताववदं श्रूयतां दोषका (हा)रकम् ।
कारणं सर्वसिद्धीनां दुःखसंसारतारणम् ॥६५॥

शरणं तप्तचित्तानां निर्वाणं जीवतामपि ।
गत्वा गौतमीं देवीं स्तूयेतां हरिशंकरौ ॥६६॥

नोपायोऽन्योऽस्ति संशुद्ध्यै तौ तां हित्वा जगत्त्रये ।
तदैव जग्मतुरुभौ गौतमीं मुनिसत्तम ॥
स्नातौ कृतक्षणौ चोभौ देवौ तुष्टुवतुर्मुदा ॥६७॥

इन्द्र उवाच
नमो मत्स्याय कूर्माय वराहाय नमो नमः ।
नरसिंहाय दवाय वामनाय नमो नमः ॥६८॥

नमोऽस्तु हयरूपाय त्रिविक्रम नमोऽस्तु ते ।
नमोऽस्तु बुद्धरूपाय रामरूपाय कल्किने ॥६९॥

अनन्तायाच्युतायेश जामदग्न्याय ते नमः ।
वरुणेन्द्रस्वरूपाय यमरूपाय ते नमः ॥७०॥

परमेशाय देवाय नमस्त्रैलोक्यरूपिणे ।
बिभ्रत्सरस्वतीं वक्त्रे सर्वज्ञोऽसि नमोऽस्तु ते ॥७१॥

लक्ष्मीवानस्यतो लक्ष्मीं बिभ्रद्वक्षसि चानघ ।
बहूबाहू रुपादस्त्वं बहुकर्णाक्षिशिर्षकः ॥
त्वामेव सुखिनं प्राप्य बहवः सुखिनोऽभवन् ॥७२॥

तावन्निःश्रीकता पुंसां मालिन्यं दैन्यमेव वा ।
यावन्न यान्ति शरणं हरे त्वां करुणार्णवम् ॥७३॥

बृहस्पतिरुवाच
सूक्ष्मं परं जो(ज्यो)तिरनन्तरूपमोंकारमात्रं प्रकृतेः परं यत् ।
चिद्रुपमानन्दमयं समस्तमेवं वदन्तीश मुमुक्षवस्त्वाम् ॥७४॥

आराधयन्त्यत्र भवन्तमीशं, महामखैः पञ्चभिरप्यकामाः ।
संसारसिन्दोः परमाप्तकामा, विशन्ति दिव्यं भुवनं वपुस्ते ॥७५॥

सर्वेषु सत्त्वेषु समत्वबुद्ध्या, संवीक्ष्य षट्सूर्मिषु शान्तभावाः ।
ज्ञानेन ते कर्मफलानि हित्वा, ध्यानेन ते त्वां प्रविशन्ति शंभो ॥७६॥

न जाति धर्माणि न वेदाशास्त्रं, न ध्यानयोगो न समाधिधर्मः ।
रुद्रं शिवं शंकरं शान्तचित्तं भक्त्या देवं सोममहं नमस्ये ॥७७॥

मूर्खोऽपि शंभो तव पादभक्त्या, समाप्नुयान्मुक्तिमयीं तनुं ते ।
ज्ञानेषु यज्ञेषु तपःसु चैव, ध्यानेषु होमेषु महाफलेषु ॥७८॥

संपन्नमेतत्फलमुत्तमं यत्सोमेश्वरे भक्तिरहर्निशं यत् ।
स्वर्गस्य जीवस्य सदा प्रियस्य, फलस्य दृष्टस्य तथा श्रुतस्य ॥७९॥

स्वर्गस्य मोक्षस्य जगन्निवास, सोपानपङ्क्तिस्तव भक्तिरेषा ।
त्वत्पादसंप्राप्तिफलाप्तये तु, सोपानपङ्क्तिं न वदन्ति धीराः ॥८०॥

तस्माद्दयालो मम भक्तिरस्तु, नैवास्त्युपायस्तव रूपसेवा ।
आत्मीयमालोक्य महात्त्वमीश, पापेषु चास्मासु कुरु प्रसादम् ॥८१॥

स्थूलं च सूक्ष्मं त्वमनादि नित्यं, पिता च माता यदसच्च सच्च ।
एवं स्तुतो यः श्रुतिभिः पुराणैर्नमामि सोमेश्वरमीशितारम् ॥८२॥

ब्रह्मोवाच
ततः प्रीतौ हरिहरावूचतुस्त्रिदशेश्वरौ ॥८३॥

हरिहरावूचतुः
व्रियतां यन्मनोभीष्टं यद्वरं चातिदुर्लभम् ॥८४॥

ब्रह्मोवाच
इन्द्रः प्राह सुरेशानं मद्राज्यं तु पुनः पुनः ।
जायते भ्रश्यते चैव तत्पापमुपशाम्यताम् ॥८५॥

यता स्थिरोऽहं राज्ये स्यां सर्वं स्यान्निश्चलं मम ।
सुप्रीतौ यदि देवेशौ सर्वं स्यान्निश्चलं सदा ॥८६॥

तथेति हरिवाक्यं तावभिनन्द्येदमूचतुः ।
परं प्रसादमापन्नौ तावालोक्य स्मिताननौ ॥८७॥

निरपायनिराधारिनिर्विकारस्वरूपिणौ ।
शरण्यौ सर्वलोकानां भुक्तिमुक्तिप्रदावुभौ ॥८८॥

हरिहरावूचतुः
त्रिदैवत्यं महातीर्थं गौतमी वाञ्छितप्रदा ।
तस्यामनेन मन्त्रेण कुरुतां स्नानमादरात् ॥८९॥

अभिषेकं महेन्द्रस्य मङ्गलाय बृहस्पतिः ।
करोतु संस्मरन्नावां संपदां स्थैर्यसिद्धये ॥९०॥

इह जन्मनि पूर्वस्मिन्यत्किंचित्सुकृतं कृतम् ।
तत्सर्वं पूर्णतामेतु गोदावरि नमोऽस्तु ते ॥९१॥

एवं स्मृत्वा तु यः कश्चिद्गौतम्यां स्नानमाचरेत् ।
आवाभ्यां तु प्रसादेन धर्मः सर्वपूण्मतामियात् ॥
पूर्वजन्मकृताद्दोषात्स मुक्तः पुण्यवान्भवेत् ॥९२॥

ब्रह्मोवाच
तथेति चक्रतुः प्रीतौ सुरेन्द्रधिषणौ ततः ।
महाभिषेकमिन्द्रस्य चकार द्युसदां गुरुः ॥९३॥

तेनाभूद्या नदी पुण्या मङ्गलेत्युदिता तु सा ।
तया च संगमः पुण्यो गङ्गायाः शुभदस्त्वसौ ॥९४॥

इन्द्रेण संस्तुतो विष्णुः प्रत्यक्षोऽभूज्जगन्मयः ।
त्रिलोकसंमितां शक्रो भूमिं लेभे जगत्पतेः ॥९५॥

तन्नाम्ना चापि विख्यातो गोविन्द इति तत्र च ।
त्रिलोकसंमिता लब्धा तेन गौर्वज्रधारिणा ॥९६॥

दत्ता च हरिणा तत्र गोविन्दस्तदभूद्धरिः ।
त्रौलोक्यराज्यं यत्प्राप्तं हरिणा च हरेर्मुने ॥९७॥

निश्चलं येन(तच्च)संजातं देवदेवान्महेश्वरात् ।
बृहस्पतिर्देवकुरुर्त्रास्तीषीन्महेश्वरम् ॥९८॥

राज्यस्य स्थिरभावाय देवेन्द्रस्य महात्मनः ।
सिद्धेश्वरस्तत्र देवो लिङ्गं तु त्रिदशार्चितम् ॥९९॥

ततः प्रभृति तत्तीर्थं गोविन्दमिति विश्रुतम् ।
मङ्गलासंगमं चैव पूर्णतीर्थं ततः परम् ॥१००॥

इन्द्रतीर्थमिति ख्यातं बार्हस्पत्यं च विश्रुतम् ।
यत्र सिद्धेश्वरो देवो विष्णुर्गोविन्द एव च ॥१०१॥

तेषु स्नानं च दानं च यत्किंचित्सुकृतार्जनम् ।
सर्वं तदक्षयं विद्यात्पितॄणामतिवल्लभम् ॥१०२॥

शृणोति यश्चापि पठेद्यश्च स्मरति नित्यशः ।
तस्य तीर्थस्य माहात्म्यं भ्रष्टराज्यप्रदायकम् ॥१०३॥

सप्तत्रिंशत्सहस्राणि तीर्थानां तीरयोर्द्वयोः ।
उभयोर्मुनिशार्दूल सर्वसिद्धिप्रदायिनाम् ॥१०४॥

न पूर्णतीर्थसदृशं तीर्थमस्ति महाफलम् ।
निष्फलं तस्य जन्मादि यो न सेवेत तन्नरः ॥१०५॥


इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्य उभयोस्तीरयोः पूर्णतीर्थमङ्गलासंगमगोविन्दसिद्धेश्वरादिसप्तत्रिंशत्सहस्रतीर्थवर्णनं नाम द्वाविंशत्यधिकशततमोऽध्यायः ॥१२२॥

गौतमीमाहात्म्ये त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:40.3500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

agricultural policy circulars

  • कृषि नीति विषयक परिपत्र 
RANDOM WORD

Did you know?

लग्न ठरवितांना पत्रिका पाहणे किती योग्य आहे? पत्रिका पाहूनही कांही विवाह अयशस्वी कां होतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.