TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ४७

ब्रह्मपुराणम् - अध्यायः ४७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः ४७
इन्द्रद्युम्नस्य प्रासादकरणार्थं राज्ञमाह्वानम्
ब्रह्मोवाच
एवं स पृथिवीपालश्चिन्तयित्वा द्विजोत्तमाः ।
प्रसादार्थं हरेस्तत्र प्रारम्भमकरोत्तदा ॥१॥

आनाय्य गणकान्सर्वानाचार्याञ्छास्त्रपारगान् ।
भूमिं संशोध्य यत्नेन राजा तु परयामुदा ॥२॥

ब्राह्मणैर्ज्ञानसंपन्नैर्वेदशास्त्रार्थपारगैः ।
अमात्यैर्मन्त्रिभिश्चैव वास्तुविद्याविशारदैः ॥३॥

तैः सार्धं स समालोच्य सुमुहूर्ते शुभे दिने ।
सुचन्द्रतारसंयोगे ग्रहानुकूल्यसंयुते ॥४॥

जयमङ्गलशब्दैश्च नानावाद्यैर्मनोहरैः ।
वेदाध्ययननिर्घोषैगीतैः सुमधुरस्वरैः ॥५॥

पुष्पलाजाक्षतैर्गन्धैः पूर्णकुम्भैः सदीपकैः ।
ददावर्घ्यं ततो राजा श्रद्धया सुमासितः ॥६॥

दत्त्वैवमर्ध्यं विघिवदानाय्य स महीपतिः ।
कलिङ्गाधिपतिं शूरमुत्कलाधिपतिं तथा॥
कोशलाधिपतिं चैव तानुवाच तदा नृपः ॥७॥

राजोवाच
गच्छध्वं सहिताः सर्वे शिलार्थे सुसमाहिताः ।
गृहीत्वा सिल्पिसुख्यांश्च शिलाकर्मविशारदान् ॥८॥

विन्ध्याचलं सुविस्तीर्णं बहुकन्दरशोभितम् ।
निरूप्य सर्वसानूनि च्छेदयित्वा शिलाः शुभाः॥
संवाह्यन्तां च शकटैर्नौ काभिर्मा विलम्बथ ॥९॥

ब्रह्मोवाच
एवं गन्तुं समादिश्य तात्रृपान्स महीपतिः ।
पुनरेवाब्रवीद्वाक्यं सामात्यान्स पुरोहितान् ॥१०॥

राजोवाच
गच्छन्तु दूताः सर्वत्र ममाऽऽज्ञां प्रवदन्तु वै ।
यत्र तिष्ठन्ति राजानः पृथिव्यां तान्सुशीघ्रगाः ॥११॥

हस्त्यश्वरथपादातैः सामात्यैः सपुरोहितैः ।
गच्छत सहिताः सर्व इन्द्रद्युम्नस्य शासनात् ॥१२॥

ब्रह्मोवाच
एवं दूताः समाज्ञाता राज्ञा तेन महात्मना ।
गत्वा तदा नृपानूचुर्वचनं तस्य भूपते ॥१३॥

श्रुत्वा तु ते तथा सर्वे दूतानां वचनं नृपाः ।
आजग्मुस्त्वरिताः सर्वे स्वसैन्यैः पिरवारिताः ॥१४॥

ये नृपाः सर्वदिग्भागे ये च दक्षिणतः स्थइताः ।
पश्चिमायां स्थिता ये च उत्तरापथसंस्थिताः ॥१५॥

प्रत्यन्तवासिनो येऽपि ये च संनिधिवासिनः ।
पार्वतीयाश्च ये केचित्तथा द्वीपनिवासिनः ॥१६॥

प्रत्यन्तवासिनो येऽपि ये च संनिधिवासिनः ।
पार्वतीयाश्च ये केचित्तथा द्वीपनिवासिनः ॥१७॥

रथैर्नागैः पदातैश्च वाजिभिर्धनविस्तरैः ।
संप्राप्ता बहुशो विप्राः श्रुत्वेन्द्रद्युम्नशासनम् ॥१८॥

तानागतान्नृपान्दृष्ट्वा सामात्यान्सपुरोहितान् ।
प्रोवाच राजा हृष्टात्मा कार्यमुद्दिश्च सादरम्॥
राजोवाच
श्रृणुध्वं नृपशार्दूला यथा किंचिद्‌ब्रवीम्यहम् ।
अस्मिन्क्षेत्रवरे पुण्ये भुक्तिमुक्तिप्रदे शिवे ॥१९॥

हयमेधं महाज्ञं प्रासादं चैव वैष्णवम् ।
कथं शक्नोम्यहं कर्तुमिति चिन्ताकुलं मनः ॥२०॥

भवद्भिः सुसहायैस्तु सर्वमेतत्करोम्यहम् ।
यदि यूयं सहाया मे भवध्वं नृपसत्तमाः ॥२१॥

ब्रह्मोवाच
इत्येवं वदमानस्य राजराजस्य धीमतः ।
सर्वे प्रमुदिता हृष्टा भूपास्ते तस्य शासनात् ॥२२॥

ववृषुर्धनरत्नैश्च सुवर्णमणिमौक्तिकैः ।
कम्बलाजिनरत्नैश्च राङ्कवास्तरणैः सुभैः ॥२३॥

वज्रवैदूर्यमाणिक्यैः पद्‌मरागेन्द्रनीलकैः ।
गजैरश्वैर्धनैस्चान्यै रथैश्चैव करेणुभिः ॥२४॥

असंख्येयैर्बहुविधैर्द्रव्यैरुच्चावचैस्तथा ।
शालिव्रीहियवैश्चैव माषमुद्‌गतिलैस्तथा ॥२५॥

सिद्धार्थचमकैश्चैव गोधूमैर्मसूरादिभिः ।
श्यामाकैर्मधुकैश्चैव नीवारैः सकुलत्थकैः ॥२६॥

अन्यैश्च विविधैर्धान्यैर्ग्राम्यारण्यैः सहस्रशः ।
बहुधान्यसहस्राणां तण्डुलानां च राशिभिः ॥२७॥

गव्यस्य हविषः शतशोऽथ सहस्रशः ।
तथाऽन्यैर्विविधैर्द्रव्यैर्भक्ष्यभोज्यानुलेपनैः ॥२८॥

राजानः पूरयामासुर्यत्किंचिद्‌द्रव्यसंभवैः ।
तान्दृष्ट्वा यज्ञसंभारान्सर्वसंपत्समन्वितान् ॥२९॥

यज्ञकर्मविदो विप्रान्वेदवेदाङ्गपारगान् ।
शास्त्रेषु निपुणान्दक्षान्कुशलान्सर्वकर्मसुः ॥३०॥

ऋषोंश्चैव महार्षोंश्च देवर्षोश्चैव तापसान् ।
ब्रह्मचारिगृहस्थांश्च वानप्रस्थान्यतींस्तथा ॥३१॥

सदस्याञ्छास्त्रकुशलांस्तथाऽन्यान्पावकान्बहून् ।
आचार्योपाध्यायवरान्स्वाध्यायतपसाऽन्वितान् ॥३२॥

सदस्याञ्छास्त्रकुशलंस्तथाऽन्यान्पावकान्बहून् ।
दृष्ट्वा तान्नृपतिः श्रीमानुवाचस्वंपुरोहितम् ॥३३॥

राजोवाच
ततः प्रयान्तु विद्वांसो ब्रहामणा वेदपारगाः ।
वाजिमेधार्थसिद्ध्‌यर्थं देशं पश्यन्तु यज्ञियम् ॥३४॥

ब्रह्मोवाच
युक्तः स तथा चक्रे वचनं तस्य भूपतेः ।
हृष्टः स मन्त्रिभिः सार्धं तदा राजपुरोहितः ॥३५॥

ततो ययौ पुरोधाश्च प्राज्ञः स्थपतिभिः सह ।
ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मणि ॥३६॥

तं देशं धीवरग्राम सप्रतोलिविटङ्किनम् ।
कारयामास विप्रोऽसौ यज्ञवाटं यथाविधिः ॥३७॥

प्रासादशतसंबाधं मणिप्रवरशोभितम् ।
इन्द्रसद्‌मनिभं रम्यं हेमरन्नविभूषितम् ॥३८॥

स्तम्भान्कनकचित्रांश्च तोरणानि बृहन्ति च ।
यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् ॥३९॥

अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् ।
कारयामास धर्मात्मा तत्र तत्र यथाविधि ॥४०॥

ब्राह्मणानं च वैश्यानां नानादेशसमीयुषाम् ।
कारयामास विधिवच्छालास्तत्राप्यनेकश ॥४१॥

प्रियार्थं तस्य नृपतेराययुर्नृपसत्तमाः ।
रत्नान्यनेकान्यादाय स्त्रियश्चाऽऽययुस्त्सवे ॥४२॥

तेषां निर्विशतां स्वेषु शिविरेषु महात्मनाम् ।
नदतः सागरस्येव दिविस्पृगभवद्‌ध्वनिः ॥४३॥

तेषामभ्यागतानां च स राजा मुनिसत्तमाः ।
व्यादिदेशाऽऽयतनानि शय्याश्चाप्युपचारतः ॥४४॥

भोजनानि विचित्राणि शालीक्षुयवगोरसैः ।
उपेत्य नृपतिश्रेष्ठो व्यादिदेश स्वयं तदा ॥४५॥

तथा तस्मिन्महायज्ञे बहवो ब्रह्मवादिनः ।
ये च द्विजातिप्रवरास्तत्राऽऽसन्द्विजसत्तमाः ॥४६॥

समाजग्मुः सशिष्यास्तान्प्रतिजग्राह पार्थिवः ।
सर्वांश्च ताननुययौ यावदावसथानिति ॥४७॥

स्वयमेव महातेजा दम्भं त्यक्त्वा नृपोत्तमः ।
ततः कृत्वा स्वशिल्पं च शिल्पिनोऽन्ये च ये तदा ॥४८॥

कृत्स्नं यज्ञविधिं राज्ञे तदा तस्मै न्यवेदयन् ।
ततः श्रुत्वा नृपश्रेष्ठः कृतं सर्वमतन्द्रितः॥
हृष्टरोमाऽभवद्राजा सह मन्त्रिभिरच्युतः ॥४९॥

ब्रह्मोवाच
तस्मिन्यज्ञे प्रवृत्ते तु वाग्ग्मिनो हेतुवादिभिः ।
हेतुवादान्बहूनाहुः परस्परजिगीषवः ॥५०॥

देवेन्द्रस्येव (?) विहितं राजसंहेन भो द्विजाः ।
ददृशुस्तोरणान्यत्र शातकुम्भमयानि च ॥५१॥

शय्यासनविकारांश्च सुबहूनत्नसंचयान् ।
घटपात्रीकटाहानि कलशान्वर्धमानकान् ॥५२॥

नहि कश्चिदसौवर्णमपश्यद्वसुधाधिपः ।
यूपांश्च सास्त्रपठितान्दारवान्हेमभूषितान् ॥५३॥

उपक्षिप्तान्यथाकालं विविवद्‌भूरिवर्चसः ।
स्थलजा जलजा ये च पशवः केचन द्विजाः ॥५४॥

सर्वानेव समानीतानपश्यंस्तत्र ते नृपाः ।
गाश्चैव महिषीश्चैव तथा वृद्धस्त्रियोऽपि च ॥५५॥

औदकानि च सत्त्वानि श्वापदानि वयांसि च ।
जरायुजाण्डजातानि स्वेदजान्युद्भिदानि च ॥५६॥

पर्वतान्युपधान्यानि भूतानि ददृशुश्च ते ।
एवं प्रमुदितं सर्वं पशुतो धनधान्यतः ॥५७॥

यज्ञवाटं नृपा दृष्ट्वा विस्मयं परमं गताः ।
ब्राह्मणानां विशां चैव बहुमिष्टान्नमृद्धिमत् ॥५८॥

पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् ।
दुन्दुभिर्मेघनिर्घोषान्मुहुर्मुहुरथाकरोत् ॥५९॥

विननादासकृच्चापि दिवसे दिवसे गते ।
एवं स ववृधे यज्ञस्तस्य राज्ञस्तु धीमतः ॥६०॥

अन्नस्य सुबहून्विप्रा उत्सर्गान्निर्गतोपमान् ।
दधिकुल्याश्च ददुशुः पयसश्च ह्रदांस्तथा ॥६१॥

जम्बूद्वीपो हि सकलो नानाजनपदैर्युतः ।
द्विजाश्च तत्र दृश्यन्ते राज्ञस्तस्य महामखे ॥६२॥

तत्र यानि सहस्राणि पुरुषाणां ततस्ततः ।
गृहीत्वा भाजनं जम्मुर्बहूनि द्विजसत्तमाः ॥६३॥

श्राविणश्चापि ते सर्वे सुमृष्टमणिकुण्डलाः ।
पर्यवेषयन्द्विजातीञ्छतशोऽथ सहस्रशः ॥६४॥

विविधान्यनुपानानि पुरुषा येऽनुयायिमः ।
ते वै नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः सह ॥६५॥

समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान् ।
पूजां चक्रे तदा तेषां विधिवद्‌भूरिदक्षिणः ॥६६॥

दिग्देशादागतान्राज्ञो महासङ्ग्रामशालिनः ।
नटनर्तककादींश्च गीतस्तुतिविशारदान् ॥६७॥

पत्न्यो मनोरमास्तस्य पीनोन्नतपयोधराः ।
इन्दीवरपलाशाक्ष्यः शरच्चन्द्रनिभाननाः ॥६८॥

कुलशीलगुणोपेताः सहस्रैकं शताधिकम् ।
एवं तद्‌बूपपरमपत्नीगणसमन्वितम् ॥६९॥

रत्नमालाकुलं दिव्यं पताकाध्वजसेवितम् ।
रत्नहारयुतं रम्यं चन्द्रकान्तिसमप्रभम् ॥७०॥

करिणः पर्वताकारान्मदसिक्तान्महाबलान् ।
शतशः कोटिसंघातैर्दन्तिभिर्दन्तभूषणैः ॥७१॥

वातवेगजवैरश्वैः सिन्धुजातैः सुशोभनैः ।
श्वेताश्वैः श्यामकर्णैश्च कोट्यनेकैर्जवन्वितैः ॥७२॥

संनद्धबद्धकक्षैश्च नानाप्रहरणोद्यतैः ।
असंख्येयैः पदाश्तैश्च देवपुत्रोपमैस्तथा ॥७३॥

इत्येवं ददृशे राजा यज्ञसंभारविस्तरम् ।
मुदं लेभे तदा राजा संहृष्टो वाक्यमब्रवीत् ॥७४॥

राजोवाच
आनयध्वं हयश्रेष्ठं सर्वलक्षणक्षितम् ।
चारयध्वं पृथिव्यां वै राजपुत्राः सुंसंयताः ॥७५॥

विद्वद्भिर्धर्मविद्भिश्च अत्र होमो विधीयताम् ।
कृष्णच्छागं च महिषं कृष्णसारमृगं द्विजान् ॥७६॥

अनड्वाहं च गाश्चैव सर्वांश्च पशुपालकान् ।
इष्टयश्च प्रवर्तन्तां प्रासादं वैष्णवं ततः ॥७७॥

सर्वमेतच्च विप्रेभ्यो दीयतां मनसेप्सितम् ।
स्त्रियश्च रत्नकोट्यश्च ग्रामाश्च नगराणि च ॥७८॥

सम्यकसमृद्धभूम्यश्च विषयाश्चैवमर्थिनाम् ।
अन्यानि द्रव्यजातानि मनोज्ञानि बहूनि च ॥७९॥

सर्वेषां याचमानानां नास्ति ह्येतन्न भाषयेत् ।
तावत्प्रवर्ततां यज्ञो यावद्‌देवः पुरा त्विह॥
प्रत्यक्षं मम चाभ्येति यज्ञस्थास्य समीपतः ॥८०॥

एवमुक्त्वा तदा विप्रा राजसिंहो महाभुजः ।
ददौ सुवर्मसंघातं कोटीनां चैव भूषणम् ॥८१॥

करेणुशतसाहस्रं वाजिनो नियुतानि च ।
अर्बुदं चैव वृषभं स्वर्णश्रृङ्गीश्च धेनुकाः ॥८२॥

सुरूपाः सुरभीश्चैव कांस्यदोहाः पयस्विनीः ।
प्रायच्छत्स तु विप्रेभ्यो वेदविद्‌भयो मुदा युतः ॥८३॥

वासांसि च महार्हाणि राङ्कवास्तराणानिः ।
सुशुक्लानि च शुभ्राणि प्रवालमणिमुत्तमम् ॥८४॥

अददात्स महायज्ञे रत्नानि विविधानि च ॥८५॥

वज्रवैदूर्यमाणिक्यमुक्तिकाद्यानि यानि च ।
अलंकारवतीः शुभ्राः कन्या राजीवलोचनाः ॥८६॥

शतानि पञ्च विप्रेभ्योराजा हृष्टः प्रदत्तवान् ।
स्त्रियः पीनपयोभाराः कञ्चुकैः स्वस्तनावृताः ॥८७॥

मध्यहीनाश्च सुश्रोण्यः पद्मपत्रायतेक्षणाः ।
हावबावान्वितग्रीवा बह्‌व्यो वलयभीषिताः ॥८८॥

यादनूपुरसंयुक्ताः पट्टदुकूलवाससः ।
एकैकशोऽददात्तस्मिन्काम्याश्च कामिनीर्बहूः ॥८९॥

अर्थिब्यो ब्राह्मणादिब्यो हयमेधे द्विजोत्तमाः ।
भक्ष्यं भोज्यं च संपूर्णं नानासंभारसंयुतम् ॥९०॥

खण्डकाद्यान्यनेकानि स्विन्नपक्वांश्च पिष्टकान् ।
अन्नान्यन्यानि मेध्यांश्च घृतपूरांश्चखाण्डवान् ॥९१॥

मधुरांस्तर्जितान्पूपानन्नं मृष्टं सुपाकिकम् ।
प्रीत्यर्थं सर्वसत्त्वानां दीयतेऽन्नं पुनः पुनः ॥९२॥

दत्तस्य दीयमानस्य धनस्यान्तो न विद्यते ।
एवं दृष्ट्वा महायज्ञं देवदैत्याः सवा (चा) रणाः ॥९३॥

गन्धर्वाप्सलसः सिद्धा ऋषयश्च प्रजेश्वराः ।
विस्मयं परमं याता दृष्ट्वा क्रतुवरं शुभम् ॥९४॥

पुरोधा मन्त्रिणो राजा हृष्टास्तत्रैव सर्वशः ।
न तत्र मलिनः कश्चिन्न दीनो न क्षुधाऽन्वितः ॥९५॥

न वोपसर्गो नग्लानिर्नाऽऽधयो व्याधयस्तथा ।
नाकालमरणं तत्र न दंशो न ग्रहा विषम् ॥९६॥

हष्टपुष्टजनाः सर्वे तस्मिन्रज्ञो महोत्सवे ।
ये च तत्र तपःसिद्धा मुनयश्चिरजीविनः ॥९७॥

न जातं तादृशं यज्ञं धनधान्यसमनवितम् ।
एवं स राजा विधिवद्वाजिमेधं द्विजोत्तमाः ।
क्रतुं समापयामास प्रासादं वैष्णवं तथा ॥९८॥

इति श्रीमहापुराम आदिब्राह्मे स्वयंभ्वृषिसंवादे प्रासादकरणं नाम सप्तचत्वारिंशोऽध्यायः॥ ४७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:35.9430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

घोव चालतो झरत नी बायल चालली भरत

  • (कों.) नवरा अशक्त व बायको सुदृढ असल्‍यास म्‍हणतात. तु०-बिबी आली उमरीत तर मिया चालले कबरीत. 
RANDOM WORD

Did you know?

why treeepad veedhee ? narrate
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site