TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १३७

ब्रह्मपुराणम् - अध्यायः १३७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १३७
लक्ष्मीतीर्थवर्णनम्
ब्रह्मोवाच
लक्ष्मीतीर्थमिति ख्यातं साक्षाल्लक्ष्मीविवर्धनम् ।
अलक्ष्मीनाशनं पुण्यमाख्यानं श्रृणु नारद ॥१॥

संवादश्च पुरा त्वासील्लक्ष्म्याः पुत्र दरिद्रया ।
परस्परविरोधिन्यावुभे विश्वं समीयतुः ॥२॥

ताभ्यामव्यापृतं वस्तु तन्नास्ति भुवनत्रये ।
मम जैष्ठ्यं मम ज्यैष्ठ्यमित्यूचतुरुभे मिथः ॥
अहं पूर्वं समुद्‌भूता इत्याह श्रियमोजसा ॥३॥

श्रीलक्ष्मीरुवाच
कुलं शीलं जीवितं वा देहिनामहमेव तु ।
मया वना देहभाजो जीवन्तोऽपि मृता इव ॥४॥

ब्रह्मोवाच
दरिद्रया च सा प्रोक्ता सर्वेभ्यो ह्यधिका ह्यहम् ।
मुक्तिर्मदाश्रिता नित्यं दरिद्रैवं वचोऽब्रवीत् ॥५॥

कामः क्रोधश्च लोभश्च मदो मात्सर्यमेव च ।
यत्राहमस्मि तत्रैते न तिष्ठन्ति कदाचन ॥६॥

न भयोद्‌भूतिरुन्माद ईर्ष्या उद्धतवृत्तिता ।
यत्राहमस्मि तत्रैते न तिष्ठन्ति कदाचन ॥७॥

दरिद्राया वचः श्रुत्वा लक्ष्मीस्तां प्रत्यभाषत ॥८॥

अलंकृतो मया जन्तुः सर्वो भवति पूजितः ।
निर्धनः शिवतुल्योऽपि सर्वैरप्यभिभूयते ॥९॥

देहीति वचनद्वारा देहस्थाः पञ्च देवताः ।
सद्यो निर्गत्य गच्छन्ति धीश्रीह्रीशान्तिकीर्तयः ॥१०॥

तावद्‌गुणा गुरुत्वं च यावन्नार्थयते परम् ।
अर्थी चेत्पुरुषो जातः क्व गुणाः क्व च गौरवम् ॥११॥

तावत्सर्वोत्तमो जन्तुस्तावत्सर्वगुणालयः ।
नमस्यः सर्वलोकानां यावन्नार्थयते परम् ॥१२॥

कष्टमेतन्महापापं निर्धनत्वं शरीरिणाम् ।
न मानयति नो वक्ति न स्पृशत्यधनं जनः ॥१३॥

अहमेव ततः श्रेष्ठा दरिद्रे श्रृणु मे वचः ॥१४॥

ब्रह्मोवाच
तल्लक्ष्मीवचनं श्रुत्वा दरिद्रा वाक्यमब्रवीत् ॥१५॥

दरिद्रोवाच
वक्तुं न लक्ष्मीर्ज्येष्ठाऽहमिति वै लज्जसे मुहुः ॥
पापेषु रमसे नित्यं विहाय पुरुषोत्तमम् ॥१६॥

विश्वस्तवञ्चका नित्यं भवती श्लाघसे कथम् ।
सुखं न तादृक्त्वत्प्राप्तौ पश्चात्तापो यथा गुरुः ॥१७॥

न तथा जायते पुंसां सुरया दारुणो मदः ।
त्वत्संनिधानमात्रेण यथा वै विदुषामपि ॥१८॥

सदैव रमसे लक्ष्मीः प्रायस्त्वं पापकारिषु ।
अहं वसामि योग्येषु धर्मशीलेषु सर्वदा ॥१९॥

शिवविष्ण्वनुरक्तेषु कृतज्ञेषु महत्सु च ।
सदाचारेषु शान्तेषु गुरुसेवोद्यतेषु च ॥२०॥

सत्सु विद्वत्सु शूरेषु कृतबुद्धिषु साधुषु ।
निवासामि सदा लक्ष्मीस्तस्माज्यैष्ठ्यं मयि स्थितम् ॥२१॥

ब्राह्मणेषु शुचिष्मत्सु व्रतचारिषु भिक्षुषु ।
निर्भयेषु वसिष्यामि लक्ष्मीस्त्वं शृणु ते स्थितिम् ॥२२॥

राजवर्तिषु पापेषु निष्ठुरेषु खलेषु च ।
पिशुनेषु च लुब्धेषु विकृतेषु शठेषु च ॥२३॥

अनार्येषु कृतघ्नेषु धर्मघातिषु सर्वदा ।
मित्रद्रोहिष्वनिष्टेषु भग्नचित्तेषु वर्तसे ॥२४॥

ब्रह्मोवाच
एवं विवदामाने ते जग्मतुर्मामुभे अपि ।
तयोर्वक्यिमुपश्रुत्य मयोक्ते ते उभे अपि ॥२५॥

मत्तः पूर्वतरा पृथ्वी आपः पूर्वतरास्ततः ।
स्त्रीणां विवादं ता एव स्त्रियो जानन्ति नेतरे ॥२६॥

विशेषतः पुनस्ताभ्यः कमण्डलुभवाश्च याः ।
तत्रापि गौतमी देवी निश्चयं कथयिष्यति ॥२७॥

सैव सर्वार्तिसंहर्त्री सैव संदेहकर्तरी ।
ते मद्वाक्याद्‌भुवं गत्वा भूम्या च सहिते अपि ॥२८॥

अद्भिश्च सहिताः सर्वा गौतमीं ययुरापगाम् ।
भूमिरापस्तयोर्वाक्यं गौतम्यै क्रमशः स्फुटम् ॥२९॥

सर्वं निवेदयामासुर्यथावृत्तं प्रणम्य ताम् ।
दरिद्रायाश्च लक्ष्म्याश्च वाक्यं मध्यस्थवत्तदा ॥३०॥

श्रृण्वत्सु लोकपालेषु श्रृण्वत्यां भुवि नारद ।
श्रृण्वतीष्वप्सु सा गङ्गा दरिद्रां वाक्यमब्रवीत् ॥
संप्रशस्य तथा लक्ष्मीं गौतमीं वाक्यमब्रवीत् ॥३१॥

गौतम्युवाच
ब्रह्मश्रीश्च तपःश्रीश्च यज्ञश्रीः कीर्तिसंज्ञिता ।
धनश्रीश्च यशःश्रीश्च विद्या प्रज्ञा सरस्वती ॥३२॥

भुक्तिश्रीश्चाथ मुक्तिश्च स्मृतिर्लज्जा धृतिः क्षमा ।
सिद्धिस्तुष्टिस्तथा पुष्टिः शान्तिरापस्तथा मही ॥३३॥

अहंशक्तिरथौषध्य श्रुतिः शुद्धिर्विभावरी ।
द्यौर्ज्योत्स्ना आशिषः स्वस्तिर्व्याप्तिर्माया उषा शिवा ॥३४॥

यत्किंचिद्विद्यते लोके लक्ष्म्या व्याप्तं चराचरम् ।
ब्राह्मणेष्वथ धीरेषु क्षमावत्स्वथ साधुषु ॥३५॥

विद्यायुक्तेषु चान्येषु भुक्तिमुक्त्यनुसारिषु ।
यद्यद्रम्यं सुन्दरं वा तत्तल्लक्ष्मीविजृम्भितम् ॥३६॥

किमत्र बहुनोक्तेन सर्वं लक्ष्मीमयं जगत् ।
यस्मिन्कस्मिश्च यत्किंचिदुत्कृष्टं परिदृश्यते ॥३७॥

लक्ष्मीमयं तु तत्सर्वं तया हीनं न किंचन ।
अत्रेमां सुन्दरीं देवीं स्पर्धयन्ती न लज्जसे ॥३८॥

गच्छ गच्छेति तां गङ्गा दरिद्रां वाक्यमब्रवीत् ।
ततः प्रभृति गङ्गाम्भो दरिद्रावैरकार्यभूत् ॥३९॥

तावद्दरिद्राभिभवो गङ्गा यावन्न सेव्यते ।
ततः प्रभृति तत्तीर्थमलक्ष्मीनाशनं शुभम् ॥४०॥

तत्र स्नानेन दानेन लक्ष्मीवान्पुण्यवान्भवेत् ।
तीर्थानां षट्सहस्राणि तस्मिंतीर्थे महामते ॥
देवर्षिमुनिजुष्टानां सर्वसिद्धिप्रदायिनाम् ॥४१॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये लक्ष्मीतीर्थादिषट्‌सहस्रतीर्थवर्णनं नाम सप्तत्रिंशदधिकशततमोऽध्यायः ॥१३७॥

गौतमीमाहात्म्येऽष्टषष्टितमोऽध्यायः ॥६८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:41.1300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

हजीर

  • हाजिरी ; हाजीर इ० पहा . 
  • त्वरित उत्तर 
  • समयसूचक उत्तर. 
RANDOM WORD

Did you know?

shreeyantra siddha kase karave ?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site