TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २२७

ब्रह्मपुराणम् - अध्यायः २२७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २२७
मुनिव्याससंवादे विष्णुपूजाकथनम्
मुनय ऊचुः
अहो कृष्णस्य माहात्म्यं श्रुतमस्माभिरद्‌भुतम् ।
सर्वपापहरं पुण्यं धन्यं संसारनाशनम् ॥१॥

संपूज्य विधिवद्‌भक्त्या वासुदेवं महामुने ।
कां गतिं यान्ति मनुजा वासुदेवार्चने रताः ॥२॥

किं प्राप्नुवन्ति ते मोक्षं किंवा स्वर्गं महामुने ।
अथवा किं मुनिश्रेष्ठ प्राप्नुवन्त्युभय फलम् ॥३॥

छेत्तुमर्हसि सर्वज्ञ संशयं नो हृदि स्थितम् ।
छेत्ता नान्योऽस्ति लोकेऽस्मिंस्त्वदृते मुनिसत्तम ॥४॥

व्यास उवाच
साधु साधु मुनिश्रेष्ठा भवद्‌भिर्यदुदाहृतम् ।
श्रृणुध्वमानुपूर्व्येण वैष्णवानां सुखावहम् ॥५॥

दीक्षामात्रेण कृष्णस्य नरा मोक्षं व्रजन्ति वै ।
किं पुनर्ये सद भक्त्या पूजयन्त्यच्युतं द्विजाः ॥६॥

न तेषां दुर्लभः स्वर्गो मोक्षश्च मुनिसत्तमाः ।
लभन्ते वैष्णवाः कामान्यानयान्वाञ्छन्ति दुर्लभान् ॥७॥

रत्नपर्वतमारुह्य नरो रत्नं यथाऽऽददेत् ।
स्वेच्छया मुनिशार्दुलास्तथा कृष्णान्मनोरथान् ॥८॥

कल्पवृक्षं समासाद्य फलानि स्वेच्छया यथा ।
गृहमाति पुरुषो विप्रास्तथा कृष्णान्मनोरथान् ॥९॥

श्रद्धया विधिवत्पूज्य वासुदेवं जगद्‌गुरुम् ।
धर्मार्थाकाममोक्षाणां प्राप्नुवन्ति नराः फलम् ॥१०॥

आराध्य तं जगन्नाथं विशुद्धेनान्तरात्मना ।
प्राप्नुवन्ति नराः कामान्सुराणामपि दुर्लभान् ॥११॥

येऽर्चयन्ति सदा भक्त्या वासुदेवाख्यमव्ययम् ।
न तेषां दुर्लभ किंचिद्विद्यते भुवनत्रये ॥१२॥

धन्यास्ते पुरुषा लोके येऽर्चयन्ति सदा हरिम् ।
सर्वपापहरं देवं सर्वकामफलप्रदम् ॥१३॥

ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः ।
संपूज्य तं सुरवरं प्राप्नुवन्ति परां गतिम् ॥१४॥

तस्माच्छृणुध्वं मुनयो यत्पृच्छत ममानघाः ।
प्रवक्ष्यामि समासेन गतिं तेषां महात्मनाम् ॥१५॥

त्यक्त्वा मानुष्यकं देहं रोगायतनमध्रुवम् ।
जरामरणसंयुक्तं जलबुद्‌बुदसंनिभम् ॥१६॥

मांसशोणितदुर्गन्धं विष्ठामूत्रादिभिर्युतम् ।
अस्थिस्थूणमेध्यं च स्नायुचर्मशिरान्वितम् ॥१७॥

कामगेन विमानेन दिव्यगन्धर्वनादिना ।
तरुणादित्यवर्णेन किङ्किणीजालमालिना ॥१८॥

उपगीयमाना गन्धर्वैरप्सरोभिरलंकृताः ।
व्रजन्ति लोकपालानां भवनं तु पृथक्पृथक् ॥१९॥

मन्वन्तरप्रमाणं तु भुक्त्वा कालं पृथक्पृथक् ।
भुवनानि पृथक्तेषां सर्वभोगैरलंकृताः ॥२०॥

ततोऽन्तरिक्षं लोकं ते यान्ति सर्वसुखप्रदम् ।
तत्र भुक्त्वा वरान्भोगान्दशमन्वन्तरं द्विजाः ॥२१॥

तस्माद्गन्धर्वलोकं तु यान्ति वै वैष्णवा द्विजाः ।
विंशन्मन्वन्तरं कालं तत्र भुक्त्वा मनोरमान् ॥२२॥

भोगानादित्यलोकं तु तस्माद्यान्ति सुपूजिताः ।
त्रिंशन्मन्वन्तरं तत्र भोगान्भुक्त्वाऽतिदैवतान् ॥२३॥

तस्माद्‌व्रजन्ति ते विप्राश्चन्द्रलोकं सुखप्रदम् ।
मन्वन्तराणां ते तत्र चत्वारिंशद्‌गुणान्वितम् ॥२४॥

कालं भुक्त्वा शुभान्भोगाञ्जरामरणवर्जिताः ।
तस्मान्नत्रलोकं तु विमानैः समलंकृतम् ॥२५॥

व्रजन्ति ते मुनिश्रेष्ठा गुणैः सर्वैरलंकृताः ।
मन्वन्तराणां पञ्चाशद्‌भूक्त्वा भोगान्यथेप्सितान् ॥२६॥

तस्माद्‌व्रजन्ति ते विप्रा देवलोकं सुदुर्लभम् ।
षष्टिमनवन्तरं यावत्तत्र भुक्त्वा सुदुर्लभान् ॥२७॥

भोगान्नानाविधान्विप्रा ऋग्द्‌व्यष्टकसमन्वितान् ।
शक्रलोकं पुनस्तस्माद्‌गच्छन्ति सुरपूजिताः ॥२८॥

मन्वन्तराणां तत्रैव भुक्त्वा कालं च सप्ततिम् ।
भोगानुच्चावचान्दिव्यान्मनसः प्रीतिवर्धनान् ॥२९॥

तस्माद्‌व्रजन्ति ते लोकं प्राजापत्यमनुत्तमम् ।
भुक्त्वा तत्रेप्सितान्भोगान्सर्वकामगुणान्वितान् ॥३०॥

मन्वन्तरमशीतिं च कालं सर्वसुखप्रदम् ।
तस्मात्पैतामहं लोकं यान्ति ते वैष्णवा द्विजाः ॥३१॥

मन्वन्तराणां नवति क्रीडित्वा तत्र वै सुखम् ।
इहाऽऽगत्य पुनस्तस्माद्विप्राणां प्रवरे कुले ॥३२॥

जायन्ते योगिनो विप्रा वेदाशास्त्रार्थपारगाः ।
एवं सर्वेषु लोकेषु भुक्त्वा भोगान्यथेप्सितान् ॥३३॥

इहाऽऽगत्य पुनर्यान्ति उपर्युपरि च क्रमात् ।
संभवे ते तु शतवर्षं द्विजोत्तमाः ॥३४॥

भुक्त्वा यथेप्सितान्भोगान्यान्ति लोकान्तरं ततः ।
दशजन्म यदा तेषां क्रमेणैवं प्रपूर्यते ॥३५॥

तदा लोकं हरेर्दिव्यं ब्रह्मलोकाद्‌व्रजन्ति ते ।
गत्वा तत्राक्षयान्भोगान्भुक्त्वा सर्वगुणान्वितान् ॥३६॥

मन्वन्तरशतं यावज्जन्ममृत्युविवर्जिताः ।
गच्छन्ति भुवनं पश्चाद्वाराहस्य द्विजोत्तमाः ॥३७॥

दिव्यदेहाः कुण्डलिनो महाकाया महाबलाः ।
क्रीडन्ति तत्र विप्रेन्द्राः कृत्वा रूपं चतुर्भुजम् ॥३८॥

दश कोटिसहस्राणि वर्षाणां द्विजसत्तमाः ।
तिष्ठन्ति शाश्वते भावे सर्वैर्देवैर्नमस्कृताः ॥३९॥

ततो यान्ति तु ते धीरा नरसिंहगृहं द्विजाः ।
क्रीडन्ते तत्र सौख्येन वर्षाणामयुतानि च ॥४०॥

तदन्ते वैष्णवं यान्ति पुरं सिद्धिनिषेवितम् ।
क्रीडन्ते तत्र सौख्येन वर्षाणामयुतानि च ॥४१॥

ब्रह्मलोके पुनर्विप्रा गच्छन्ति साधकोत्तमाः ।
तत्र स्थित्वा चिरं कालं वर्षकोटिशतान्बहून् ॥४२॥

नारायणपुरं यान्ति ततस्ते साधकेश्वराः ।
भुक्त्वा भोगांश्च विविधान्वर्षकोट्यर्बुदानि च ॥४३॥

अनिरुद्धपुरं पश्चाद्दिव्यरूपा महाबलाः ।
गच्छन्ति साधकवराः स्तूयमानाः सुरासुरैः ॥४४॥

तत्र कोटीसहस्राणि वर्षाणां च चतुर्दश ।
तिष्ठन्ति वैष्णवास्तत्र जरामरणवर्जिताः ॥४५॥

प्रद्युम्नस्य पुरं पश्चाद्‌गच्छन्ति विगतज्वराः ।
तत्र तिष्ठन्ति ते विप्रा लक्षकोटिशतत्रयम् ॥४६॥

स्वच्छन्दगामिनो हृष्टा बलशक्तिसमन्विताः ।
गच्छन्ति योगिनः पश्चाद्यत्र संकर्षणः प्रभुः ॥४७॥

तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्सहस्रशः ।
विशन्ति वासुदेवेति विरूपाख्ये निरञ्जने ॥४८॥

विनिर्मुक्ताः परे तत्त्वे जरामरणवर्जिते ।
तत्र गत्वा विमुक्तास्ते भवेयुर्नात्र संशयः ॥४९॥

एवं क्रमेण भुक्तिं ते प्राप्नुवन्ति मनीषिणः ।
मुक्तिं च मुनिशार्दुला वासुदेवार्चने रताः ॥५०॥

इति श्रीमहापुराणे आदिब्राह्मे वैष्णवानां गतिख्यापनं नाम सप्तविंशत्यधिकद्विशततमोऽध्यायः ॥२२७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:46.1930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

स्मशान

  • स्मशान इ० पहा . 
  • न. मसण ; प्रेते जाळण्याची , पुरण्याची जागा . [ सं . शव + शयन ] 
  • ०कर्म न. प्रेतसंस्कार ; उत्तरक्रिया ; दहनविधि . 
  • श्मशान पहा. 
More meanings
RANDOM WORD

Did you know?

पंचप्राणांना भोजनापूर्वी आहुती का द्यावी ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site