TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २३७

ब्रह्मपुराणम् - अध्यायः २३७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २३७
ज्ञानिनां मोक्षप्राप्तिनिरूपणम्
मुनय ऊचुः
यद्येवं वेदवचनं कुरु कर्म त्यजेति च ।
कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा ॥१॥

एतद्वै श्रोतुमिच्छमस्तद्‌भवान्प्रब्रवीतु नः ।
एतदन्योन्यवैरूप्यं वर्तते प्रतिकूलतः ॥२॥

व्यास उवाच
श्रृणुध्वं मुनिशार्दूला यत्पृच्छध्वं समासतः ।
कर्मविद्यामयौ चौभौ व्याख्यास्यामि क्षराक्षरौ ॥३॥

यां दिशं विद्यया यान्ति यां गच्छन्ति च कर्मणा ।
श्रृणुध्वं सांप्रतं विप्रा गहनं ह्येतदुत्तरम् ॥४॥

अस्ति धर्म इति युक्तं नास्ति तत्रैव यो वदेत् ।
यक्षस्य सादृश्यमिदं यक्षस्येदं भवेदथ ॥५॥

द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः ।
प्रवृत्तिलक्षणो धर्मो निवृत्तो वा विभाषितः ॥६॥

कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।
तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥७॥
कर्मणा जायते प्रेत्य मूर्तिमान्षोडशात्मकः ।
विद्यया जायते नित्यमव्यक्तं ह्यक्षरात्मकम् ॥८॥

कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धिरता नराः ।
तेन ते देहजालेन रमयन्त उपासते ॥९॥

ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः ।
न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्निवः ॥१०॥

कर्मणां फलमाप्नोति सुखदुःखे भवाभवौ ।
विद्यया तदवाप्नोति यत्र गत्वा न शोचति ॥११॥

न म्रियते यत्र गत्वा यत्र गत्वा न जायते ।
न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते ॥१२॥

यत्र तद्‌ब्रह्म परममव्यक्तमचलं ध्रुवम् ।
अव्याकृतमनायामममृतं चाधियोगवित् ॥१३॥

द्वंद्वैर्न यत्र बाध्यन्ते मानसेन च कर्मणा ।
समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः ॥१४॥

विद्यामयोऽन्यः पुरुषो द्विजाः कर्ममयोऽपरः ।
विप्राश्चन्द्रसमस्पर्शः सूक्ष्मया कलया स्थितः ॥१५॥

तदेतदृषिणा प्रोक्तं विस्तरेणानुगीयते ।
न वक्तुं शक्यते द्रष्टुं चक्रतन्तुमिवाम्बरे ॥१६॥

एकादशविकारात्मा कलासंभारसंभृतः ।
मूर्तिमानिति तं विद्याद्विप्राः कर्मगुणात्मकम् ॥१७॥

देवो यः संश्रितस्तस्मिन्बुद्धीन्दुरिव पुष्करे ।
क्षेत्रज्ञं तं विजानीयान्नित्यं योगजितात्मकम् ॥१८॥

तमो रजश्च सत्त्वं च ज्ञेयं जीवगुणात्मकम् ।
जीवमात्मगुणं विद्यादात्मानं परमात्मनः ॥१९॥

सचेतनं जीवगुणं वदन्ति, स चेष्टते जीवगुणं च सर्वम् ।
ततः परं क्षेत्रविदो वदन्ति, प्रकल्पयन्तो भुवनानि सप्त ॥२०॥

व्यास उवाच
प्रकृत्यास्तु विकारा ये क्षेत्रज्ञास्ते परिश्रुताः ।
ते चैनं न प्रजानन्ति न जानाति स तानपि ॥२१॥

तैश्चैव कुरुते कार्यं मनः षष्ठैरिहेन्द्रियैः ।
सुदान्तैरिव संयन्ता दृढः परमवाजिभिः ॥२२॥

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥२३॥

महतः परमव्यक्तमव्यक्तात्परतोऽमृतम् ।
अमृतान्न परं किंचित्सा काष्ठा परमा गतिः ॥२४॥

एवं सर्वेषु भूतेषु गूढात्मा न प्रकाशते ।
दृश्यते त्वगय्रया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥२५॥

अन्तरात्मनि संलीय मनःषष्ठानि मेधया ।
इन्द्रियैरिन्द्रियार्थांश्च बहुचित्तमचिन्तयन् ॥२६॥

ध्यानेऽपि परमं कृत्वा विद्यासंपादितं मनः ।
अनीश्वरः प्रशान्तात्मा ततो गच्छेत्परं पदम् ॥२७॥

इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः ।
आत्मनः संप्रदानेन मर्त्यो मृत्युमुपाश्नुते ॥२८॥

विहत्य सर्वसंकल्पान्सत्त्वे चित्तं निवेशयेत् ।
सत्त्वे चित्तं समावेश्य ततः कालंजरो भवेत् ॥२९॥

चित्तप्रसादेन यतिर्जहातीह शुभाशुभम् ।
प्रसन्नात्माऽऽत्मनि स्थित्वा सुखमत्यन्तमश्नुते ॥३०॥

लक्षणं तु प्रसादस्य यथा स्वप्ने सुखं भवेत् ।
निर्वाते वा यथा दीपो दीप्यमानो न कम्पते ॥३१॥

एवं पूर्वापरे रात्रे युञ्जन्नात्मानमात्मना ।
लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥३२॥

रहस्यं सर्ववेदानामनैतिह्यमनागमम् ।
आत्मप्रत्यायकं शास्त्रमिदं पुत्रानुशासनम् ॥३३॥

धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद्वसु ।
दशवर्षसहस्राणि निर्मथ्यामृतमुद्धृतम् ॥३४॥

नवनीतं यथा दध्नः काष्ठादग्निर्यथैव च ।
तथैव विदुषां ज्ञानं मुक्तिहेतोः समुद्धृतम् ॥३५॥

स्नातकानामिदं शास्त्रं वाच्यं पुत्रानुशासनम् ।
तदिदं नाप्रशान्ताय नादान्ताय तपस्विने ॥३६॥

नावेदविदुषे वाच्यं तथा नानुगताय च ।
नासूयकायानृजवे न चानिर्दिष्टकारिणे ॥३७॥

न तर्कशास्त्रदग्धाय तथैव पिशुनाय च ।
श्लाघिने श्लाघनीयाय प्रशान्ताय तपस्विने ॥३८॥

इदं प्रियाय पुत्राय शिष्यायानुगताय तु ।
रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथंचन ॥३९॥

यदप्यस्य महीं दद्याद्रत्नपूर्णामिमां नरः ।
इतमेव ततः श्रेय इति मन्येत तत्त्ववित् ॥४०॥

अतो गुह्यतरार्थं तदध्यात्ममतिमानुषम् ।
यत्तन्महर्षिभिर्दुष्टं वेदान्तेषु च गीयते ॥४१॥

तद्युष्मभ्यं प्रयच्छामि यन्मां पृच्छत सत्तमाः ।
यन्मे मनसि वर्तेत यस्तु वो हृदि संशयः ॥
श्रुतं भवद्भिस्तत्सर्वं किमन्यत्कथयामि वः ॥४२॥

मुनय ऊचुः
अध्यात्मं विस्तरेणेह पुनरेव वदस्व नः ।
यदध्यात्मं यथा विद्‌मो भगवन्नृषिसत्तम ॥४३॥

व्यास उवाच
अध्यात्मं यदिदं विप्राः पुरुषस्येह पठ्यते ।
युष्मभ्यं कथयिष्यामि तस्य व्याख्याऽवधार्यताम् ॥४४॥

भीमिरापस्तथा ज्योतिर्वायुराकाशमेव च ।
महाभूतानि यश्चैव सर्वभूतेषु भूतकृत् ॥४५॥

मुनय ऊचुः
आकारं तु भवेद्यस्य यस्मिन्देहं न पश्यति ।
आकासाद्यं शरीरेषु कथं तदुपवर्णयेत् ॥
इन्द्रियाणां गुणाः केचित्कथं तानुपलक्षयेत् ॥४६॥

व्यास उवाच
एतद्वो वर्णयिष्यामि यथावदनुदर्शनम् ।
श्रृणुध्वं तदिहैकाग्य्रा यथातत्त्वं यथा च तत् ॥४७॥

शब्दः श्रोत्रं तथा खानि त्रयमाकाशलक्षणम् ।
प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः ॥४८॥

रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते ।
रसोऽथ रसनं स्वेदो गुणास्त्वेते त्रयोऽम्भसाम् ॥४९॥

घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः ।
एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः ॥५०॥

वायोः स्पर्शो रसोऽद्‌भ्यश्च ज्योतिषो रूपमुच्यते ।
आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः ॥५१॥

मनो बुद्धिः स्वभावश्च गुणा एते स्वयोनिजाः ।
ते गुणानतिवर्तन्ते गुणेभ्यः परमा मताः ॥५२॥

यथा कुर्म इवाङ्गानि प्रसार्य संनियच्छति ।
एवमेवेन्द्रियग्रामं बुद्धिश्रेष्ठो नियच्छति ॥५३॥

यदूर्ध्वं पादतलयोरवार्केर्द्वं च(गधश्च)पश्यति ।
एतस्मिन्नेव कृत्ये सा वर्तते बुद्धिरुत्तमा ॥५४॥

गुणैस्तु नीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि ।
मनःषष्ठानि सर्वाणि बुद्ध्या भवात्कुतो गृणाः ॥५५॥

इन्द्रियाणि नरैः पञ्च षष्ठं तन्मन उच्यते ।
सप्तमीं बुद्धिमेवाऽऽहुः क्षेत्रज्ञं विद्धि चाष्टमम् ॥५६॥

चक्षुरालोकनायैव संशयं कुरुते मनः ।
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ॥५७॥

रजस्तमश्च सत्त्वं च त्रय एते स्वयोनिजाः ।
समाः सर्वेषु भूतेषु तान्गुणानुपलक्षयेत् ॥५८॥

तत्र यत्प्रीतिसंयुक्तं किंचिदात्मनि लक्षयेत् ।
प्रशान्तमिव संयुक्तं सत्त्वं तदुपधारयेत् ॥५९॥

यत्तु संतापसंयुक्तं काये मनसि वा भवेत् ।
प्रवृत्तं रज इत्येवं तत्र चाप्युपलक्षयेत् ॥६०॥

यत्तु संमोहसंयुक्तमव्यक्तं विषमं भवेत् ।
अप्रतर्क्यमविज्ञेयं तमस्तदुपदारयेत् ॥६१॥

प्रहर्षः प्रीतिरानन्दं स्वाम्यं स्वस्थात्मचित्तता ।
अकस्माद्यदि वा कस्माद्वदन्ति सात्त्विकान्गुणान् ॥६२॥

अभिमानो मृषावादो लोभो महोस्तथा क्षमा ।
लिङ्गानि रजसस्तानि वर्तन्ते हेतुतत्त्वतः ॥६३॥

तथा मोहः प्रमादश्च तन्द्री निन्द्राऽप्रबोधिता ।
कथंचिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः ॥६४॥

मनः प्रसृजते भावं बुद्धिरध्यवसायिनी ।
हृदयं प्रियमेवेह त्रिविधा कर्मचोदना ॥६५॥

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा परः स्मृतः ॥६६॥

बुद्धिरात्मा मनुष्यस्य बुद्धिरेवाऽऽमनायिका ।
यदा विकुरुते भावं तदा भवति सा मनः ॥६७॥

इन्द्रियाणां पृथग्भावाद्‌बुद्धिर्विकुरुते ह्यनु ।
क्षृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते ॥६८॥

पश्यन्ति च भवेद्‌दृष्टी रसन्ती भवेत् ।
जिघ्रन्ती भवति घ्राणं बुद्धिर्विकुरुते पृथक् ॥६९॥

इन्द्रियाणि तु तान्याहुस्तेषां वृत्त्या वितिष्ठति ।
तिष्ठति पुरुषे बुद्धिर्बुद्धिभावव्यवस्थिता ॥७०॥

कदाचिल्लभते प्रीतिं कदाचिदपि शोचति ।
न सुखेन न दुःखेन कदाचिदिह मुह्यते ॥७१॥

स्वयं भावात्मिका भावांस्त्रीनेतानतिवर्तते ।
सरितां सागरो भर्ता महावेलामिवोर्मिमान् ॥७२॥

यदा प्रार्थयते किंचित्तदा भवति सा मनः ।
अधिष्ठाने च वै बुद्ध्या पृथगेतानि संस्मरेत् ॥७३॥

इन्द्रियाणि च मेध्यानि विचेतव्यानि कृत्स्नशः ।
सर्वाण्येवानुपूर्वेण यद्यदा च विधीयते ॥७४॥

अभिभागमना बुद्धिर्भावो मनसि वर्तते ।
प्रवर्तमानस्तु रजः सत्त्वमप्यतिवर्तते ॥७५॥

ये वै भावेन वर्तन्ते सर्वेष्वेतेषु ते त्रिषु ।
अन्वर्थान्संप्रवर्तन्ते रथनेमिमरा इव ॥७६॥

प्रदीपार्थं मनः कुर्यादिन्द्रियैर्बुद्धिसत्तमैः ।
निश्चरद्भिर्यथायोगमुदासीनैर्यदृच्छया ॥७७॥

एवं स्वभावमेवेदमिति बुद्‌ध्वा न मुह्यति ।
अशोचन्संप्रहृष्यंश्च नित्य विगतमत्सरः ॥७८॥

न ह्यात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः ।
प्रवर्तमानैरनेकैर्कर्धदुरैरकृतात्मभिः ॥७९॥

तेषां तु मनसा रश्मीन्यदा सम्यङ्‌नियच्छति ।
तदा प्रकाशतेऽस्याऽऽत्मा दीपदीप्ता यथाऽऽकृतिः ॥८०॥

सर्वेषामेव भूतानां तमस्युपगते यथा ।
प्रकाशं भवते सर्वं तथैवमुपधार्यताम् ॥८१॥

यथा वारिचरः पक्षी न लिप्यति जले चरन् ।
विमुक्तात्मा तथा योगी गुणदोषैर्न लिप्यते ॥८२॥

एवमेव कृतप्रज्ञो न दोषैर्विषयांश्चरन् ।
असज्जमानः सर्वेषु न कथंचित्प्रलिप्यते ॥८३॥

त्यक्त्वा पूर्वकृतं कर्मरतिर्यस्य सदाऽऽत्मनि ।
सर्वभूतात्मभूतस्य गुणसङ्गेन सज्जतः ॥८४॥

स्वयमात्मा प्रसवति गुणेष्वपि कदाचन ।
न गुणा विदुरात्मानं गुणान्वेद स सर्वदा ॥८५॥

परिदध्याद्‌गुणानां स द्रष्टा चैव यथातथम् ।
सत्तवक्षेत्रज्ञयोरेवमन्तरं लक्षयेन्नरः ॥८६॥

सृजते तु गुणानेक एको न सृजते गुणान् ।
पृथग्भूतौ प्रकृत्यैतौ संप्रयुक्तौ च सर्वदा ॥८७॥

यथाऽश्मना हिरण्यस्य संप्रयुक्तौ तथैव तौ ।
मशकौदुम्बरौ वाऽपि संप्रयुक्तौ यथा सह ॥८८॥

इषिका वा यथा मुञ्जे पृथक्च सह चैवाह ।
तथैव सहितावेतौ अन्योन्यस्मिन्प्रतिष्ठितौ ॥८९॥

इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे सप्तत्रिंशदधिकद्विशततमोध्यायः ॥२३७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:46.7400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

खतावणें

  • अ.क्रि. उकिरड्यासारखा होणें ; कुजणें ; घाण येऊं लागणें . - सक्रि . शेत किंवा जमीन खत घालुन तयार करणें . ( खत ) 
  • स्त्री. १ चिळख वीट येणें . २ हुरहुर , खुरखुर , लागणें . वाटणें ; तळमळणें . ( खंत ) 
  • स.क्रि. कीर्दीतील रक्कम खतावणींत बार झाल्याबद्दल रोजखर्ड्यावर खात्यांची नांवें नोंदणें . उदा० स्वारी राजमंडळ शिलकबंद खासगत इ० खातेबार करने ; खात्यांत घालणें . ' रोजकीर्दी जमा धरुनी सकळ । खताविला काळ वरावरी । ' - तुगा १८९४ . 
  • उ.क्रि. भिंतीवर रेघा . आकृती काढणें . 
RANDOM WORD

Did you know?

श्रीयंत्र स्थापना व मुहूर्त याबद्दल माहिती द्यावी.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site