संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २४३

ब्रह्मपुराणम् - अध्यायः २४३

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


वशिष्ठं प्रति मोक्षधर्मविषयको जनकप्रश्नः
जनक उवाच
अक्षरक्षरयोरेष द्वयोः संबन्ध इष्यते ।
स्त्रीपुंसयोर्वा सम्बन्ध स वै पुरुष उच्यते ॥१॥

ऋते तु पुरुषं नेह स्त्री गर्भान्धारयत्युत ।
ऋते स्त्रियं न पुरुषो रूपं निर्वर्तते तथा ॥२॥

अन्योन्यस्याभिसंबन्धानयोन्यगुणसंश्रयात् ।
रूपं निर्वर्तयेदेतदेवं सर्वासु योनिषु ॥३॥

रत्यर्थमतिसंयोगादन्योन्यगुमसंश्रयात् ।
ऋतौ निर्वर्तते रूपं तद्वक्ष्यामि निदर्शनम् ॥४॥

ये गुणाः परुषस्येह ये च मातुर्गुणास्तथा ।
अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज ॥५॥

त्वङ्मासशोणितं चेति मातृजान्यनुशुश्रुम ।
एवमेतद्‌द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते ॥६॥

प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते ।
वेदशास्त्रप्रमाणं च प्रमाणं तत्सनातनम् ॥७॥

एवमेवाभिसम्बन्धौ नित्यं प्रकृतिपूरुषौ ।
यच्चापि भगवंस्तस्मान्मोक्षधर्मो न विद्यते ॥८॥

अथवाऽनन्तरकृतं किंचिदेव निदर्शनम् ।
तन्ममाऽऽचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वदा ॥९॥

मोक्षकामा वयं चापि काङ्क्षामो यदनामयम् ।
अजेयमजरं नित्यमतीन्द्रियमनीश्वरम् ॥१०॥

वसिष्ठ उवाच
यदेतदुक्तं भवता वेदशास्त्रनिदर्शनम् ।
एवमेतद्यता वक्ष्ये तत्त्वग्राही यथा भवान् ॥११॥

धार्यते हि त्वाया ग्रन्थ उभयोर्वेदशास्त्रयोः ।
न च ग्रन्थस्य तत्त्वज्ञो यथातत्त्वं नरेश्वर ॥१२॥

यो हि वेदे च शास्त्रे च ग्रान्थधारणतत्परः ।
न च ग्रन्तार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा ॥१३॥

भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः ।
यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा ॥१४॥

ग्रन्थस्यार्थं स पृष्टस्तु मादृशो वक्तुमर्हति ।
यथातत्त्वाभिगमनादर्थं तस्य स विन्दति ॥१५॥

न यः समुत्सुकः कश्चिद्‌ग्रन्थार्थं स्थूलबुद्धिमान् ।
स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ॥१६॥

अज्ञात्वा ग्रन्थतत्त्वानि वादं यः कुरुते नरः ।
लोभाद्वाऽप्यथवा दम्भात्स पापी नरकं व्रजेत् ॥१७॥

निर्णयं चापि च्छिद्रात्मा न तद्वक्ष्यति तत्त्वतः ।
सोऽपीहास्यार्थतत्त्वज्ञो यस्मान्नैवाऽऽत्मवानपि ॥१८॥

तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यते ।
यथा तत्त्वेन सांख्येषु योगेषु च महात्मसु ॥१९॥

यदेव योगाः पश्यन्ति सांख्यं तदनुगम्यते ।
एकं सांख्यां च योगं च यः यपश्यति स बुद्धिमान् ॥२०॥

त्वङ्मांसं रुधिरं मेदः पित्तं मज्जाऽस्थि स्नायु च ।
एतदैन्द्रियकं तात यद्‌भवानित्थमात्थ माम् ॥२१॥

द्रव्याद्‌द्रव्यस्य निर्वृत्तिरिन्द्रियादिन्द्रियं तथा ।
देहाद्‌देहमवाप्नोति बीजाद्बीजं तथैव च ॥२२॥

निरिन्द्रियस्य बीजस्य निर्द्रव्यस्यापि देहिनः ।
कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः ॥२३॥

गुणा गुणेषु जायन्ते तत्रैव विरमन्ति च ।
एवं गुणाः प्रकृतिजा जायन्ते न च यान्ति च ॥२४॥

त्वङ्मांसं रुधिरं मेदः पित्तं मज्जाऽस्ति स्नायु च ।
अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतेन वै ॥२५॥

पुमांश्चैवापुमांस्चैव स्त्रीलिङ्गं प्राकृतं स्मृतम् ।
वायुरेष पुमांश्चैव रस इत्यभिधीयते ॥२६॥

अलिङ्गा प्रकृतिर्लिङ्गैरुपलभ्यति साऽऽत्मजैः ।
यथा पुष्पफलैर्नित्यं मूर्तं चामूर्तयस्तथा ॥२७॥

एवमप्यनुमानेन स लिङ्गमुपलभ्यते ।
पञ्चविंशतिकस्तात लिङ्गेषु नियतात्मकः ॥२८॥

अनादिनिधनोऽनन्तः सर्वदर्शनकेवलः ।
केवलं त्वभिमानित्वाद्‌गुणेषु गुण उच्यते ॥२९॥

गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः ।
तस्मादेवं विजानन्ति ये जना गुणदर्शिनः ॥३०॥

यदा त्वेष गुणानेतान्प्राकृतानभिमन्यते ।
तदा स गुणवानेव गुणभेदान्प्रपश्यति ॥३१॥

यत्तद्‌बुद्धेः परं प्राहुः सांख्ययोगं च सर्वशः ।
बुध्यमानं महाप्राज्ञाः प्रबुद्धपरिवर्जनात् ॥३२॥

अप्रबुद्धं यथा व्यक्तं स्वगुणैः प्राहुरीश्वरम् ।
निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च ॥३३॥

प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः ।
सांख्ययोगे च कुशला बुध्यन्ते परमैषिणः ॥३४॥

यदा प्रबुद्धमव्यक्तमवस्थात(प)ननी(भी)रवः ।
बुध्यमानं न बुध्यन्तेऽवगच्छन्ति समं तदा ॥३५॥

एतन्नदर्शनं सम्यङ्न सम्यगनुदर्शनम् ।
बुध्यमानं प्रबुध्यन्ते द्वाभ्यां पृथगरिंदम ॥३६॥

परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम् ।
एकत्वदर्शनं चास्य नानात्वं चास्य दर्शनम् ॥३७॥

प़ञ्चविंशतिनिष्ठोऽयं तदा सम्यक्प्रचक्षते ।
एकत्वदर्शनं चास्य नानात्वं चास्य दर्शनम् ॥३८॥

तत्त्ववित्तत्त्वयोरेव पृथगेतन्निदर्शनम् ।
पञ्चविंसतिभिस्तत्त्वं तत्त्वमाहुर्मनीषिणः ॥३९॥

निस्तत्त्वं पञ्चविंशस्य परमाहुर्मषिणः ।
वर्ज्यस्य वर्ज्यमाचारं तत्त्वं तत्त्वात्सनातनम् ॥४०॥

करालजनक उवाच
नानात्वैकत्वमित्युक्तं त्वयैतद्‌द्विजसत्तम ।
पश्यतस्तद्वि संदिग्धमेतयोर्वै निदर्शनम् ॥४१॥

तथा बुद्धप्रबुद्धाभ्यां बुध्यमानस्य चानघ ।
स्थूलबुद्‌ध्या न पश्यामि तत्त्वमेतन्न संशयः ॥४२॥

अक्षरक्षरयोरुक्तं त्वया यदपि कारणम् ।
तदप्यस्थिरबुद्धित्वात्प्रनष्टमिव मेऽनघ ॥४३॥

तदेतच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम् ।
द्वंद्वं चैवानिरुद्धं च बुध्यमानं च तत्त्वतः ॥४४॥

विद्याविद्ये च भगवन्नक्षरं क्षरमेव च ।
सांख्ययोगं च कृत्स्नेन बुद्धाबुद्धिं पृथक्पृथक् ॥४५॥

वसिष्ठ उवाच
हन्त ते संप्रवक्ष्यामि यदेतदनुपृच्छसि ।
योगकृत्यं महाराज पृथगेव शृणुष्व मे ॥४६॥

योगकृत्यं तु योगानां ध्यानमेव परं बलम् ।
तच्चापि द्विविधं ध्यानमाहुर्विद्याविदो जनाः ॥४७॥

एकग्रता च मनसः प्राणायामस्तथैव च ।
प्राणायामस्तु सगुणो निर्गुणो मानसस्तथा ॥४८॥

मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप(?) ।
द्विकालं नोपभृञ्जीत शेषं भुञ्जीत तत्परः ॥४९॥

इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः ।
दशद्वादशभिर्वाऽपि चतुर्विंशात्परं यतः ॥५०॥

स चोदनाभिर्मतिमान्नात्मानं चोदयेदथ ।
तिष्ठन्तमजरं तं तु यत्तदुक्तं मनीषिभिः ॥५१॥

विश्वात्मा सततं ज्ञेय इत्येवमनुसुश्रुम ।
द्रव्यं ह्यहीनमनसो नान्यथेति विनिश्चयः ॥५२॥

विमुक्तः सर्वसङ्गेभ्यो लवाहारो जितेन्द्रियः ।
पूर्वरात्रे पार्धे च धारयीत मनो हृदि ॥५३॥

स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर ।
मनो बुद्‌ध्या स्थिरं कृत्वा पाषाण इव निश्चलः ॥५४॥

स्थाणुवच्चाप्यकम्प्यः स्याद्दारुवच्चापि निश्चलः ।
बुद्‌ध्या विधिविधानज्ञास्ततो युक्तं प्रचक्षते ॥५५॥

न शृणोति न चाऽऽघ्राति न च पश्यति किंचन ।
न च सपर्शं विजानाति न च संकल्पते मनः ॥५६॥

न चापि मन्यते किंचिन्न च बुध्येत काष्ठवत् ।
तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः ॥५७॥

न भाति हि यथा दीपो दीप्तिस्तद्वच्च दृश्यते ।
निलिङ्गस्चाधश्चोर्ध्वं च तिर्यग्गतिमवाप्नुयात् ॥५८॥

तदा तदुपपन्नश्च यस्मिन्दृष्टे च कथ्यते ।
हृदयस्थोऽन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः ॥५९॥

निर्धूम इव सप्तार्चिरादित्य इव रश्मिवान् ।
वैद्युतोऽग्निरिवाऽकाशे पस्यत्यात्मानमात्मनि ॥६०॥

यं पस्यन्ति महात्मानो धृतिमन्तो मनीषिणः ।
ब्राह्मणा ब्रह्मयोनिस्था ह्ययोनिममृतात्मकम् ॥६१॥

तदेवाऽऽहुरणुभ्योऽणु तन्महद्‌भ्यो महत्तरम् ।
सर्वत्र सर्वभूतेषु ध्रुवं तिष्ठन्न दृश्यते ॥६२॥

बुद्धिद्रव्येण दृश्येन मनोदीपेन लोककृत् ।
महतस्तमसस्ततात पारे तिष्ठन्न तामसः ॥६३॥

तमसो दूर इत्युक्तस्तत्त्वज्ञैर्वेदपारगैः ।
विमलो विमतश्चैव निर्लिङ्गोऽलिङ्गसंज्ञकः ॥६४॥

योग एष हि लोकानां किमन्यद्योगलक्षणम् ।
एवं पश्यन्प्रपश्येन आत्मानमजरं परम् ॥६५॥

योगदर्शनमेतावदुक्तं ते तत्त्वतो मया ।
सांख्यज्ञानं प्रवक्ष्यामि परिसंख्यानिदर्शनम् ॥६६॥

अव्यक्तमाहुः प्रख्यानं परां प्रकृतिमात्मनः ।
तस्मान्महात्समुत्पन्नं द्वितीयं राजसत्तम ॥६७॥

अहंकारस्तु महतस्तृतीय इति नः श्रुतम् ।
पञ्चभूतान्यहंकारादाहुः सांख्यात्मदर्शिनः ॥६८॥

एताः प्रकृतयस्त्वष्टौ विकाराश्चापि षोडश ।
पञ्च चैव विशेषाश्च तथा पञ्चेन्द्रियाणि च ॥६९॥

एतावदेव तत्त्वानां सांख्यमाहुर्मनीषिणः ।
सांख्ये सांख्यविधानज्ञा नित्यं सांख्यपथे स्थिताः ॥७०॥

यस्माद्यदभिजायेत तत्तत्रैव प्रलीयते ।
लीयन्ते प्रतिलोमानि गृह्यन्ते चान्तरात्मना ॥७१॥

आनुलोम्येन जायन्ते लीयन्ते प्रतिलोमतः ।
गुणा गुणेषु सततं सागरस्योर्मयो यथा ॥७२॥

सर्गप्रलय एतावान्प्रकृतेर्नृपसत्तम ।
एकत्वं प्रलये चास्य बहुत्वं च तथा सृजि ॥७३॥

एवमेव च राजेन्द्र विज्ञेयं ज्ञानकोविदैः ।
अधिष्ठातारमव्यक्तमस्याप्येतन्निदर्शनम् ॥७४॥

एकत्वं च बहुत्वं च प्रकृतेरनुतत्त्ववान् ।
एक्तंव प्रलये चास्य बहुत्वं च प्रवर्तनात् ॥७५॥

बहुलाऽऽत्मा राजेन्द्र प्रोच्यते यतिसत्तमैः ।
अधिष्ठानादधिष्ठाता क्षेत्राणामिति नः श्रुतम् ॥७६॥

अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः ।
अधिष्ठानादधिष्ठाता क्षेत्राणामिति नःश्रुतम् ॥७७॥

क्षेत्रं जानाति चाव्यक्तं ज्ञेत्रज्ञ इति चोच्यते ।
अव्यक्तिके पुरे शेते पुरुषश्चेति कथ्यते ॥७८॥

अन्यदेव च क्षेत्रं स्यादन्यः क्षेत्रज्ञ उच्यते ।
क्षेत्रमव्यक्त इत्युक्तं ज्ञातारं पञ्चविंशकम् ॥७९॥

अन्यदेव च ज्ञानं स्यादन्यज्ज्ञेयं तदुच्यते ।
ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै प़ञ्चविंशकम् ॥८०॥

अव्यक्तं क्षेत्रमित्युक्तं तथा सत्त्वं तथेश्वरम् ।
अनीश्वरमतत्त्वं च तत्त्वं तत्पञ्चविंशकम् ॥८१॥

सांक्यदर्शनमेतावत्परिसंख्या न विद्यते ।
संख्यां प्रकुरुते चैव प्रकृतिं च प्रवक्ष्यते ॥८२॥

चत्वारिंशच्चतुर्विंशत्प्रतिसंख्याय तत्त्वतः ।
संख्या सहस्रकृत्या तु निस्तत्त्वः पञ्चविंशकः ॥८३॥

पञ्चविंशत्प्रबुद्धात्मा बुध्यमान इति श्रुतः ।
यदा बुध्यति आत्मानं तदा भवति केवलः ॥८४॥

सम्यग्दर्शनमेतावद्भाषितं तव तत्त्वतः ।
एवमेतद्‌विजानन्तः साम्यतां प्रतियान्त्युत ॥८५॥

सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा ।
गुणवत्त्वाद्यथैतानि निर्गुणेभ्यस्तथा भवेत् ॥८६॥

सम्यङ्‌निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा ।
गुणवत्त्वाद्यथैतानि निर्गुणेभ्यस्तथा भवेत् ॥८७॥

पश्यन्त्यमतयो ये नच सम्यक्तेषु च दर्शनम् ।
ते व्यक्तिं प्रतिपद्यन्ते पुनः पुनररिंदम ॥८८॥

सर्वमेतद्विजानन्तो न सर्वस्य प्रबोधनात् ।
व्यक्तिभूता भविष्यन्ति व्यक्तस्यैवानुवर्तनात् ॥८९॥

सर्वमव्यक्तमित्युक्तमसर्वः पञ्चविंशकः ।
य एवमभिजानन्ति न भयं तेषु विद्यते ॥९०॥

इति श्रीमहापुराणे आदिब्राह्मे वसिष्ठकरालजनकसंवादे त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP