TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २४१

ब्रह्मपुराणम् - अध्यायः २४१

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २४१
वसिष्ठकरालजनकसंवादे क्षराक्षरविचारनिरूपणम्
मुनय ऊचुः
किं तदक्षरमित्युक्तं यस्मान्नाऽऽवर्तते पुनः ।
किंस्वित्तत्क्षरमित्युक्तं यस्मादावर्तते पुनः ॥१॥

अक्षराक्षरयोर्व्यक्तिं पृच्छामस्त्वां महामुने ।
उपलब्धुं मुनिश्रेष्ठ तत्त्वेन मुनिपुंगव ॥२॥

त्वं हि ज्ञानविदां श्रेष्ठः प्रोच्यसे वेदपारगैः ।
ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः ॥३॥

तदेतच्छ्रोतुमिच्छास्त्वत्तः सर्वं महामते ।
न तृप्तिमधिगच्छामः श्रृण्वन्तोऽमृतमुत्तमम् ॥४॥

व्यास उवाच
अत्र वो वर्णयिष्यामि इतिहासं पुरातनम् ।
वसिष्ठस्य च संवादं करालजनकस्य च ॥५॥

वसिष्ठं श्रेष्ठमासीनमृषीणां भास्करद्युतिम् ।
पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् ॥६॥

परमात्मनि कुशलमध्यात्मगतिनिश्चयम् ।
मैत्रावरुणमिमासीनमभिवाद्य कृताञ्जलिः ॥७॥

स्वच्छन्दं सुकृतं चैव मधुरं चाप्यनुल्बणम् ।
पप्रच्छर्षिवरं राजा करालजनकः पुरा ॥८॥

करालजनक उवाच
भगवञ्श्रोतुमिच्छामि परं ब्रह्म सनातनम् ।
यस्मिन्न पुनरावृत्तिं प्राप्नुवन्ति मनीषिणः ॥९॥

यच्च तत्क्षरमित्युक्तं यत्रेदं क्षरते जगत् ।
यच्चाक्षरमिति प्रोक्तं शिवं क्षेममनामयम् ॥१०॥

वसिष्ठ उवाच
श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् ।
यत्र क्षरति पूर्वेण यावत्कालेन चाप्यथ ॥११॥

युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्युगम् ।
दशकल्पशतावर्तंमहस्तद्‌ब्राह्मुच्यते ॥१२॥

रात्रिश्चैतावती राजन्यस्यन्ते प्रतिबुध्यते ।
सृजत्यनन्तकर्माणि महान्तं भूतमग्रजम् ॥१३॥

मूर्तिमन्तममूर्तात्मा विश्वं शंभुः स्वयंभुवः ।
यत्रोत्पत्तिं प्रवक्ष्यामि मूलतो नृपसत्तम ॥१४॥

अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम् ।
सर्वतःपाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् ॥१५॥

सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।
हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतिः ॥१६॥

महानिति च योगेषु विरिञ्चिरिति चाप्यथ ।
सांख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः ॥१७॥

विचित्ररूपो विश्वात्मा एकाक्षर इति श्रुतः ।
धृतमेकात्मकं येन कृत्स्नं त्रैलोक्यमात्मना ॥१८॥

तथैव बहुरूपत्वाद्विश्वरूप इति श्रुतः ।
एष वै विक्रियापन्नः सृजत्यात्मानमात्मना ॥१९॥

प्रधानं तस्य संयोगादुत्पन्नं सुमहत्पुरम् ।
अहंकारं महातेजाः प्रजापतिनमस्कृतम् ॥२०॥

अव्यक्ताद्‌व्यक्तिमापन्नं विद्यासर्गं वदन्ति तम् ।
महान्तं चाप्यहंकारमविद्यासर्ग एव च ॥२१॥

अचरश्च चरश्चैव समुत्पन्नौ तथैकतः ।
विद्याऽविद्योति विख्याते श्रुतिशास्त्रानुचिन्तकैः ॥२२॥

भूतसर्गमहंकारत्तृतीयं विद्धि पार्थिव ।
अहंकारेषु नृपते चतुर्थं विद्धि वैकृतम् ॥२३॥

वायुर्ज्योतिरथाऽऽकाशमापोऽथ पृथिवी तथा ।
शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च ॥२४॥

एवं युगपदुत्पन्नं दशवर्गमसंशयम् ।
पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थकृत् ॥२५॥

श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमेव च पञ्चमम् ।
वाग्हस्तौ चैव पादौ च पायुर्मेढ्रं तथैव च ॥२६॥

बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च ।
संभूतानीह युगपन्मनसा सह पार्थिव ॥२७॥

एषा तत्त्वचतुर्विंशा सर्वाऽऽकृतिः प्रवर्तते ।
यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः ॥२८॥

एवमेतत्समुत्पन्नं त्रैलोक्यमिदमुत्तमम् ।
वेदितव्यं नरश्रेष्ठ सदैव नरकार्णवे ॥२९॥

सयक्षभूतगन्धर्वे सकिंनरमहोरगे ।
सचारणपिशाचे वै सदेवर्षिनिशाचरे ॥३०॥

सदंशकीटमशके सपूतिकृमिमूषके ।
शुनि श्वपाके चैणेये सचाण्डाले सपुल्कसे ॥३१॥

हस्त्यश्वखरशार्दूले सवृके गवि चैव ह ।
या च मूर्तिश्च यत्किंचित्सर्वत्रैतन्निदर्शनम् ॥३२॥

जले भुवि तथाऽऽकाशे नान्यत्रेति विनिश्चयः ।
स्थानं देहवतामासीदित्येवनुशुश्रुम ॥३३॥

कृत्स्नमेतावतस्तात क्षरते व्यक्तसंज्ञकः ।
अहन्यहनि भूतात्मा यच्चाक्षर इति स्मृतम् ॥३४॥

ततस्तत्क्षरमित्युक्तं क्षरतीदं यथा जगत् ।
जगन्मोहात्मकं चाऽऽहुरव्यक्ताद्‌व्यक्तसंज्ञकम् ॥३५॥

महांश्चैवाक्षरो नित्यमेतत्क्षरविवर्जनम् ।
कथितं ते महाराज यस्मान्नाऽऽवर्तते पुनः ॥३६॥

पञ्चविंशतिकोऽमूर्तः स नित्यस्तत्त्वसंज्ञकः ।
सत्त्वसंश्रयणात्तत्वं सत्त्वमाहुर्मनीषिणः ॥३७॥

यदमूर्तिः सृजद्‌व्यक्तं तन्मूर्तिमधितिष्ठति ।
चतुर्विंशतिमो व्यक्तो ह्यमूर्तिः पञ्चविंशकः ॥३८॥

स एव हृदि सर्वासु मूर्तिष्वातिष्ठताऽऽत्मवान् ।
चेतयंश्चेतनीं नित्यं सर्वमूर्तिरमूर्तिमान् ॥३९॥

सर्गप्रलयधर्मेण स सर्गप्रलयात्मकः ।
गोचरे वर्तते नित्यं निर्गुणो गुणसंज्ञितः ॥४०॥

एवमेष महात्मा च सर्गप्रलयकोटिशः ।
विकुर्वाणः प्रकृतिमान्नाभिमन्येत बुद्धिमान् ॥४१॥

तमःसत्त्वरजोयुक्तस्तासु तास्विह योनिषु ।
लीयते प्रतिबुद्धत्वादबुद्धजनसेवनात् ॥४२॥

सहवासनिवासत्वाद्‌बालोऽहमिति मन्यते ।
योऽहं न सोऽहमित्युक्ते गुणानेवानुवर्तते ॥४३॥

तमसा तामसान्भावन्विविधान्प्रतिपद्यते ।
रजसा राजसांश्चैव सात्त्विकान्सत्त्वसंक्षयात् ॥४४॥

शुक्ललोहितकृष्णानि रूपाण्येतानि त्रीणि तु ।
सर्वाण्येतानि रूपाणि जानीहि प्राकृतानि तु ॥४५  ।
तामसा निरयं यान्ति राजसा मानुषानथ ।
सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः ॥४६॥

निष्केवलेन पापेन तिर्यग्योनिमवाप्नुयात् ।
पुण्यपापेषु मानुष्यं पुण्यमात्रेण देवताः ॥४७॥

एवमव्यक्तविषयं मोक्षमाहुर्मनीषिणः ।
पञ्चविंशतिमो योऽयं ज्ञानादेव प्रवर्तते ॥४८॥

इति श्रीमहापुराणे आदिब्राह्मे वसिष्ठकरालजनकसंवादे क्षराक्षरविचारनिरूपणं नाम एकचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:47.2870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

float money

  • निर्गम मुद्रा, अस्थायी मुद्रा 
RANDOM WORD

Did you know?

यज्ञोपवीत ( जानवे ) म्हणजे काय? त्याला किती दोरे असतात? त्याच्या गाठीला काय म्हणतात
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.