TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १५९

ब्रह्मपुराणम् - अध्यायः १५९

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १५९
वंजरासंगमतीर्थवर्णनम्
ब्रह्मोवाच
वंजरासंगमं नाम तीर्थं त्रैलोक्यविश्रुतम् ।
ऋषिभिः सेवितं नित्यं सिद्धै राजर्षिभिस्तथा ॥१॥

दासत्वमगमत्पूर्वं नागानां गरुडः खगः ।
मातृदास्यात्तदा दुःखपरिसंतप्तमानसः ॥

कदाचिच्चिन्तयामास रहः स्थित्वा विनिश्वसन् ॥२॥

गरुड उवाच
त एव धन्या लोकेऽस्मिन्कृतपुण्यास्त एव हि ।
नान्यसेवा कृता यैस्तु न येषां व्यसनागमः ॥३॥

सुखं तिष्ठन्ति गायन्ति स्वपन्ति च हसन्ति च ।
स्वदेहप्रभवो धन्या धिग्धिगन्यवशे स्थितान् ॥४॥

ब्रह्मोवाच
इति चिन्तासमाविष्टो जननीमेत्य दुःखितः ।
पर्यपृच्छदमेयात्मा वैनतेयोऽथ मातरम् ॥५॥

गरुड उवाच
क स्यापराधान्मातस्त्वं पितुर्वा मम वाऽन्यतः ।
दासीत्वमाप्ता वद तत्कारणं मम पृच्छतः ॥६॥

ब्रह्मोवाच
साऽब्रवीत्पुत्रमात्मीयमरुणस्यानुजं प्रियम् ॥७॥

विनतोवाच
नैव कस्यापराधोऽस्ति स्वापराधो मयोदितः ।
यस्या वाक्यं विपर्येति सा दासी स्यान्मयोदितम् ॥८॥

कद्रूश्चापि तथैवाहं सा मया संयुता ययौ ।
कद्र्वा ममाभवद्वादश्छद्‌मनाऽहं तया जिता ॥९॥

विधिर्हि बलवांस्तात कां कां चेष्टां न चेष्टते ।
एवं दासीत्वमगमं कद्र्‌वाः कश्यपनन्दन ॥

यदा दासी तु जाताऽहं दासोऽभूस्त्वं द्विजन्मज ॥१०॥

ब्रह्मोवाच
तूष्णीं तदा बभूवासौ गरुडोऽतीव दुःखितः ।
न किंचिदूचे जननीं चिन्तयन्भवितव्यताम् ॥११॥

कद्रुः कदाचित्सा प्राह पुत्राणां हितमिच्छती ।
आत्मनो भूतिमिच्छन्ती विनतां खगमातरम् ॥१२॥

कद्रूरुवाच
पुत्रः सूर्यं नमस्कर्तुं तव यात्यनिवारितः ।
अहो लोकत्रयेऽप्यस्मिन्धन्याऽसि बत दास्यपि ॥१३॥

ब्रह्मोवाच
स्वदुःखं गूहमाना सा कद्रुं प्राह सुविस्मिता ॥१४॥

विनतोवाच
तव पुत्रास्तु किमिति रविं द्रष्टुं न यान्ति च ॥१५॥

कद्रुरुवाच
पुत्रान्मदीयान्सुभगे नय नागालयं प्रति ।
समुद्रस्य समीपे तु तदाऽस्ते शीतलं सरः ॥१६॥

रह्मोवाच
सुपर्णस्त्ववहन्नागान्कद्रुं च विनता तथा ।
ततः प्रोवाच मुदिता वैनतेयस्य मातरम् ॥१७॥

सुराणां नेतु निलयं गरुडो मत्सुतानिति ।
पुनः प्राह सर्पमाता गरुडं विनयान्वितम् ॥१८॥

सर्पमातोवाच
पुत्रा मे द्रष्टुमिच्छन्ति हंसं त्रिजगतां गुरुम् ।
नमस्कृत्वा ततः सूर्यमेष्यन्ति निलयं मम ॥

हण्डे त्वं नय पुत्रान्मे सूर्यमडण्लमन्वहम् ॥१९॥

ब्रह्मोवाच
सा वेपमाना विनता दीना कद्रुमभाषत ॥२०॥

विनतोवाच
नाहं क्षमा सर्पमातः पुत्रो मे नेष्यते सुतान् ।
दृष्ट्वा दिनकरं देवं पुनरेव प्रयान्तु ते ॥२१॥

ब्रह्मोवाच
विनता स्वसुतं प्राह विहगानामधीश्वरम् ।
तमस्कर्तुमथेच्छन्ति नागाः स्वामित्वमागताः ॥२२॥

भास्वन्तमित्युवाचेयं मां सर्पजननी हठात् ।
तथेत्युक्त्वा स गरुडो मामारोहन्तु पन्नगाः ॥२३॥

तदाऽऽरूढं सर्पसैन्यं गरुडं विहगाधिपम् ।
शनैः शनैरुपगमद्यत्र देवो दिवाकरः ॥

ते दह्यमानास्तीक्ष्णेन भानुतापेन विव्यथुः ॥२४॥

सर्पा ऊचुः
निवर्तस्व महाप्राज्ञ पतङ्गाय नमो नमः ।
अलं सूर्यस्य सदनं दग्धाः सूर्यस्य तेजसा ॥

यामस्त्वया वा गरुड विहाय त्वामथापि वा ॥२५॥

ब्रह्मोवाच
एवं नागैरुच्यमान आदित्यं दर्शयामि वः ।
इत्युक्त्वा गगनं शीघ्रं जगामाऽऽदित्यससंमुखः ॥२६॥

दग्धभोगा निपेतुस्ते द्वीपं तं वीरणं प्रति ।
बहवः शतसाहस्राः पीडिता दग्धविग्रहाः ॥२७॥

पुत्राणामार्तसंनादं पतितानां महीतले(?) ।
आश्वासितुं समायाता तान्सा कद्रुः सविह्वला ॥२८॥

उवाच विनतां कद्रुस्तव पुत्रोऽतिदुष्कृतम् ।
कृतावानतिदुर्मेधा येषां शान्तिर्न विद्यते ॥२९॥

नान्यथा कर्तुमायाति स्वामिवाक्यं फणीश्वरः ।
स काश्यपो बृहत्तेजा यद्यत्र स्यादनामयम् ॥३०॥

भवेच्चैवं कथं शान्तिः पुत्राणां मम भामिनि ।
कद्र्वास्तद्वचनं श्रुत्वा विनता ह्यतिभीतवत् ॥३१॥

पुत्रमाह महात्मानं गरुडं विहगाधिपम् ॥३२॥

विनतोवाच
नेदं युक्ततरं पुत्र भूषणं विनयेन हि ।
वर्तितुं युक्तमित्युक्तं वैपरीत्यं न युज्यते ॥३३॥

नामित्रेष्वपि कर्तव्यं सद्भिर्जिह्यं कदाचन ।
श्रोत्रिये चान्त्यजे वाऽपि समं चन्द्रः प्रकाशते ॥३४॥

कुर्वन्त्यनिष्टं कपटैस्त एव मम पुत्रक ।
प्रसह्य कर्तुं ये साक्षादशक्ताः पुरुषाधमाः ॥३५॥

ब्रह्मोवाच
विनता च ततः प्राह कद्रुं तां सर्पमातरम् ॥३६॥

विनतोवाच
किं कृत्वा शान्तिरभ्येति पुत्राणां ते करोमि तत् ।
जरया तु गृहीतास्ते वद शान्तिं करोमि तत् ॥३७॥

बह्मोवाच
कद्रुरप्याह विनतां रसातलगतं पयः ।
तेनाभिषेचितानां मे पुत्राणां शान्तिरेष्यति ॥३८॥

कद्रुवास्तद्वचनं श्रुत्वा रसातलगतं पयः ।
क्षणेनैव समानीय नागांस्तानभ्यषेचयत् ॥

ततः प्रोवाच गरुडो मघवानं शतक्रतुम् ॥३९॥

गरुड उवाच
मेघाश्चाप्यत्र वर्षन्तु त्रैलोक्यस्योपकारिणः ॥४०॥

ब्रह्मोवाच
तथा ववर्ष पर्जन्यो नागानामभवच्छिवम् ।
रसातलभवं गाङ्गं नागसंजीवनं पयः ॥४१॥

जराशोकविनाशार्थमानीतं गरुडेन यत् ।
यत्राभिषेचिता नागास्तन्नागालयमुच्यते ॥४२॥

गरुडेन यतो वारि आनीतं तद्रसातलात् ।
तद्‌गाङ्गं वारि सर्वेषं सर्वपापप्रणाशनम् ॥४३॥

जराया वारणं यस्मान्नागानामभवच्छिवम् ।
रसातलभवं गाङ्गं नागसंजीवनं यतः ॥४४॥

जराशोकविनाशार्थं गङ्गाया दक्षिणे तटे ।
साक्षादमृतसंवाहा वंजरा साऽभवन्नदी ॥४५॥

जरादारिद्‌यसंतापहारिणी क्लेशवारिणी ।
रसातलभवा गङ्गा मर्त्यलोकभवा तु या ॥४६॥

तयोश्च संगमो यः स्यात्किं पुनस्तत्र वर्ण्यते ।
यस्यानुस्मणादेव नाशं यान्त्यघसंचयाः ॥४७॥

तत्र च स्नानदानानां फलं को वक्तुमीश्वरः ।
सपादं तत्र तीर्थानां लक्षमाहुर्मनीषिणः ॥४८॥

सर्वसंपत्तिदातॄणां सर्वपापौघहारिणाम् ।
वंजरासंगमसमं तीर्थं क्वापि न विद्यते ॥

यदनुस्मरणेनापि विपद्यन्ते विपत्तयः ॥४९॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये वंजरासंगमादिसपादलक्षतीर्थवर्णनं नामैकोनषष्ट्यधिकशततमोऽध्यायः ॥१५९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:42.3330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मृगाचिया अंगीं कस्तुरीचा वास। असे ज्याचा त्यास नसे ठावा॥

  • तुगा ३४४७. हरणाच्या बेंबींत कस्तुरी असून त्याचा वास त्याला येत नाहीं. त्याप्रमाणें मनुष्याच्या हदयांत परमेश्र्वर असूनहि त्यास त्याचें ज्ञान होत नाहीं. तु ० -देहींच देव असतां कांरे भ्रमतोसि व्यर्थ तूं रानीं। नाभिंत सुगंधि असतां कस्तुरी मृग जेवि तो फिरे रानीं॥ 
RANDOM WORD

Did you know?

बांस की लकड़ी
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.