संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १२६

ब्रह्मपुराणम् - अध्यायः १२६

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


तपस्तीर्थवर्णनम्
तपस्तीर्थमिति ख्यातं तपोवृद्धिकरं महत् ।
सर्वकामप्रदं पुण्यां पितॄणां प्रीतिवर्धनम् ॥१॥

तस्मिंस्तीर्थे तु यद्धृत्तं श्रृणु पापप्रणाशनम् ।
अपामग्नेश्च संवादमृषीणां च परस्परम् ॥२॥

अपो ज्येष्ठतमाः केचिन्मेनिरेऽग्नं तथाऽपरे ।
एवं ब्रुवन्तो मुनयः संवादं चाग्निवारिणोः ॥३॥

विनाऽग्निं जीवनं क्व स्याज्जीवभूतो यतोऽनलः ।
आत्मभूतो हव्यभूतश्चाग्निना जायतेऽखिलम् ॥४॥

अग्निना ध्रियते लोको ह्यग्निर्ज्योतिर्मयं जगत् ।
तस्मादग्नेः परं नास्ति पावनं दैवतं महत् ॥५॥

अन्तर्ज्योर्तिः स एवोक्तः परं ज्योतिः स एव हि ।
विनाऽग्निना किंचिदस्ति यस्य धाम जगत्त्रयम् ॥६॥

तस्मादग्नेः परं नास्ति भूतानां ज्यैष्ठ्यभाजनम् ।
योषित्क्षेत्रेऽर्पितं बीजं पुरुषेण यथा तथा ॥७॥

तस्य देहादिका शक्तिः कृशानोरेव नान्यथा ।
देवानां हि मुखं वहिनस्तस्मान्नतः परं विदुः ॥८  ।
अपरे तु ह्यपां ज्यैष्ठयं मेनिरे वेदवादिनः ।
अद्भिः संपत्स्यते ह्यन्नं शुचिरद्भिः प्रजायते ॥९॥

अद्भिरेव धृतं सर्वमापो वै मातरः स्मृताः ।
त्रैलोक्यजीवनं वारि वदन्तीति पुराविदः ॥१०॥

उत्पन्नममृतं ह्यद्‌भयस्ताभ्यश्चौषधिसंभवः ।
अग्निर्ज्येष्ठ इति प्राहुरापो ज्येष्ठतमाः परे ॥११॥

एवं मीमांसमानस्ते ऋषयो वेदवादिनः ।
विरुद्धवादिनो मां च समभ्येत्येदमब्रुवन् ॥१२॥

ऋषय ऊचुः
अग्नेरपां वद ज्यैष्ठ्यं त्रैलोक्यस्य भवान्प्रभुः ॥१३॥

ब्रह्मोवाच
अहमप्यब्रवं प्राप्तानृषीन्सर्वान्यतव्रतान् ।
उभौ पूज्यतमौ लोक उभाभ्यां जायते जगत् ॥१४॥

उभाभ्यां जायते हव्यं कव्यं चामृतमेव च ।
उभाभ्यां जीवनं लोकं शरीरस्य च धारणम् ॥१५॥

नानयोश्च विशेषोऽस्ति ततो ज्यैष्ठ्यं समं मतम् ।
ततो मद्वचनाज्ज्यैष्ठ्यमुभयोर्नैव कस्यचित् ॥१६॥

ज्यैष्ठ्यमन्यतरस्येति मेनिरे ऋषिंसत्तमाः ।
न तृप्ता मम वाक्येन जग्मुर्वायुं तपर्स्विनः ॥१७॥

मुनय ऊचुः
कस्य ज्यैष्ठ्यं भवान्प्राणो वायो सत्यं त्वयि स्थितम् ॥१८॥

ब्रह्मोवाच
वायुराहानलो ज्येष्ठः सर्वमग्नौ प्रतिष्ठितम् ।
नेत्युक्त्वाऽन्योन्यमृषयो जग्मुस्तेऽपि वसुंधराम् ॥१९॥

मुनय ऊचुः
सत्यं भूमे वद ज्यैष्ठ्यमाधाराऽसि चराचरे ॥२०॥

ब्रह्मोवाच
भूमिरप्यराह विनयादागतांस्तानृषीनिदम् ॥२१॥
भूमिरुवाच
ममाप्याधारभूताः स्युरापो देव्यः सनातनाः ।
अद्‌भ्यस्तु जायते सर्वं ज्यैष्ठ्यमप्सु प्रतिष्ठितम् ॥२२॥

ब्रह्मोवाच
नेत्युक्त्वाऽन्योन्यमृषयो जग्मुः क्षीरोदशायिनम् ।
तुष्टुवुर्विविधैः स्तोत्रैः शङ्खचकगदाधरम् ॥२३॥

ऋषय ऊचुः
यो वेद सर्वं भुवनं भविष्यद्यज्जायमानं च गुहानिविष्टम् ।
लोकत्रयं चित्रविचित्ररूपमन्ते समस्ते च यमाविवेश ॥२४॥

यदक्षरं शाश्वतमप्रमेयं, यं वेदवेद्यमृषयो वदन्ति ।
यमाश्रिताः स्वेप्सितमाप्नुवन्ति, तद्वस्तु सत्यं शरणं व्रजामः ॥२५॥

भूतं महाभूतजगत्प्रधानं, न विन्दते योगिनो विष्णुरूपम् ।
तद्वक्तुमेते ऋषयोऽत्र याताः, सत्यं वदस्वेह जगन्निवास ॥२६॥

त्वमन्तरात्माऽखिलदेहभाजां, त्वमेव सर्वं त्वयि सर्वमीश ।
तथाऽपि जानन्ति न केऽपि कुत्राप्यहो भवन्तं प्रकृतिप्रभावात् ॥
अन्तर्बहिः सर्वत एव सन्तं, विश्वात्मना संपरिवर्तमानम् ॥२७॥

ब्रह्मोवाच
ततः प्राह जगद्धात्री दैवी वागशरीरिणी ॥२८॥

दैवी वागुवाच
उभावाराध्य तपसा भक्त्या च नियमेन च ।
यस्य स्यात्प्रथमं सिद्धिस्तद्‌भूतं ज्येष्ठमुच्यते ॥२९॥

ब्रह्मोवाच
तथेत्युक्त्वा ययुः सर्वे ऋषयो लोकपूजिताः ॥
श्रान्ताः खिन्नान्तरात्मानः परं वैराग्यमाश्रिताः ॥३०॥

सर्वलोककैजननीं भुवनत्रयपावनम् ।
गौतमीमगमन्सर्वे तपस्तप्तुं यतव्रताः ॥३१॥

अब्दैवतं तथाऽग्निं च पूजनायोद्यतास्तदा ।
अग्नेश्च पूजका ये च अपां वै पूजने स्थिताः ॥
तत्र वागब्रवीद्दैवी वेदमाता सरस्वती ॥३२॥

अग्नेरापस्तथा योनिरद्भिः शौचमवाप्यते ।
अग्नेश्च पूजका ये च विनाऽद्भिः पूजनं कथम् ॥३३॥

अप्सु जातासु सर्वत्र कर्मण्यधिकृतो भवेत् ।
तावत्कर्मण्यनर्होऽयमशुचिर्मलिनो नरः ॥३४॥

न मग्नः श्रद्धया यावदप्सु शीतासु वेदवित् ।
तस्मादापो वरिष्ठा स्युर्मातृभूता यतः स्मृताः ॥
तस्माज्ज्यैष्ठ्यमपामेव जनन्योऽग्नेर्विशेषतः ॥३५॥

ब्रह्मोवाच
एतद्वचः शुश्रृवुस्ते ऋषयो वेदवादिनः ।
निश्चयं च ततश्चक्रुर्भवेज्ज्यैष्ठ्यमपामिति ॥३६॥

यत्र तीर्थे वृत्तमिदमृषिसत्रे च नारद ।
तपस्तीर्थं तु तत्प्रोक्तं सत्रतीर्थं तदुच्यते ॥३७॥

अग्नितीर्थं च तत्प्रोक्तं तथा सारस्वतं विदुः ।
तेषु स्नानं च दानं च सर्वकामप्रदं शुभम् ॥३८॥

चतुर्दश शतन्यत्र तीर्थानां पुण्यदायिनाम् ।
तेषु स्नानं च दानं च स्वर्गमोक्षप्रदायकम् ॥३९॥

कृतं संदेहहरणमृषीणां यत्र भाषया ।
सरस्वत्यभवत्तत्र गङ्गया संगता नदी ॥
माहात्म्यं तस्य को वक्तुं संगमस्य क्षमो नरः ॥४०॥

इति श्रीमहापुराणे आदिब्राह्मो तीर्थमाहात्म्ये तपस्तीर्थादिचतुर्दशशततीर्थवर्णनं नाम ष़ड्विंशाधिकशततमोऽध्यायः ॥१२६॥

गौतमीमाहात्म्ये सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP