संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ७०

ब्रह्मपुराणम् - अध्यायः ७०

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथसप्ततितमोऽध्यायः
ब्रह्माणं प्रति तीर्थसंख्याविषयको नारदप्रश्नः

ब्रह्मोवाच
सर्वेषां चैव तीर्थानां क्षेत्राणां च द्विजोत्तमाः ।
जपहोमव्रतानां च तपोदानफलानि च ॥१॥

न तत्पश्यामि भो विप्रा यत्तेन सदृशं भुवि ।
किं चात्र बहुनोक्तेन भाषितेन पुनः पुनः ॥२॥

सत्यं सत्यं पुनः सत्यं क्षेत्रं तत्परमं महत् ।
पुरुषाख्यं सकृद्दृष्ट्वा सागराम्भः समाप्लुतम् ॥३॥

ब्रह्मविद्यां सकृज्ज्ञात्वा गर्भवासो न विद्यते ।
हरेः संनिहिते स्थान उत्तमे पुरुषोत्तमे ॥४॥

संवत्सरमुपासीत मासमात्रमथापि वा ।
तेन जप्तं हुतं तेन तेन तप्तं तपो महत् ॥५॥

स याति परमं स्थानं यत्र योगेश्वरो हरिः ।
भुक्त्वा भोगान्विचित्रांश्च देवयोषित्समन्वितः ॥६॥

कल्पान्ते पुनरागत्य मर्त्यलोके नरोत्तमः ।
जायते योगिनां विप्रा ज्ञानज्ञेयोद्यतो गृहे ॥७॥

संप्राप्य वैष्णवं योगं हरेः स्वच्छन्दतां व्रजेत् ।
कल्पवृक्षस्य रामस्य कृष्णस्य भद्रया सह ॥८॥

मार्कण्डेयेन्द्रद्युम्नस्य माहात्म्यं माधवस्य च ।
स्वर्गद्वारस्य माहात्म्यं सागरस्य विधिः क्रमात् ॥९॥

मार्जनस्य यथाकाले भागीरथ्याः समागमम् ।
सर्वमेतन्मया ख्यातं यत्परं श्रोतुमिच्छथ ॥१०॥

इन्द्रद्युम्नस्य माहात्म्यमेतच्च कथितं मया ।
सर्वास्चर्यं समाख्यातं रहस्यं पुरुषोत्तमम् ॥
पुराणं परमं गुह्यं धन्यं संसारमोचनम् ॥११॥

मुनय ऊचुः
नहि नस्तृप्तिरस्तीह श्रृण्वतां तीर्थविस्तरम् ।
पुनरेव परं गुह्यं वक्तुमर्हस्यशेषतः ॥
परं तीर्थस्य महाहात्म्यं सर्वतीर्थोत्तमोत्तमम् ॥१२॥

ब्रह्मोवाच
इममेव पुरा प्रश्नं पृष्टोऽस्मि द्विजसत्तमाः ।
नारदेन प्रयत्नेन तदा तं प्रोक्तवानहम् ॥१३॥

नारद उवाच
तपसो यज्ञदानानां तीर्थानां पावनं स्मृतम् ।
सर्वं श्रुतं मया त्वत्तो जगद्योने जगत्पते ॥१४॥

कियन्ति सन्ति तीर्थानि स्वर्गमर्त्यरसातले ।
सर्वेषामेव तीर्थानां सर्वदा किं विशिष्यते ॥१५॥

ब्रह्मोवाच
चतुर्विधानि तीर्थानी स्वर्गे मर्त्ये रसातले ।
दैवानि मुनिशार्दूल आसुराण्यरुषाणि च ॥१६॥

मानुषाणि त्रिलोकेषु विख्यातानि सुरादिभिः ।
मानुषेभ्यश्च तीर्थेभ्य आर्षं तीर्थमनुत्तमम् ॥१७॥

आर्षेभ्यश्चैव तीर्थेभ्य आसुरं बहुपुण्यदम् ।
आसुरेभ्यस्तथा पुण्यं दैवं तत्सार्वकामिकम् ॥१८॥

ब्रह्मविष्णुशिवैश्चैव निर्मितं देवमुच्यते ।
त्रिभ्यो यदेकं जायेत तस्मान्नातः परं विदुः ॥१९॥

त्रयाणामपि लोकानां तीर्थं मेध्यमुदाहृतम् ।
तत्रापि जाम्बवं द्वीपं तीर्थं बहुगुणोदयम् ॥२०॥

जाम्बवे भारतं वर्षं तीर्थं त्रैलोक्यविश्रुतम् ।
कर्मभूमिर्यतः पुत्र तस्मात्तीर्थं तदुच्यते ॥२१॥

तत्रैव यानि तीर्थानि यान्युक्तानि मया तव ।
हिमवद्विन्ध्ययोर्मध्ये षण्नद्यो देवसंभवाः ॥२२॥

तथैव देवजा ब्रह्मन्दक्षिणार्णवविन्ध्ययोः ।
एता द्वादश नद्यस्तु प्राधान्येन प्रकीर्तिताः ॥२३॥

अभिसंपूजितं यस्माद्भारतं बहुपुण्यदम् ।
कर्मभूमिरतो देवैर्वर्षं तस्मात्प्रकीर्तितम् ॥२४॥

आर्षाणि चैव तीर्थानि देवजानि क्वचित्क्वचित् ।
आसुरैरावृतान्यासंस्तदेवाऽऽसुरमुच्यते ॥२५॥

दैवेष्वेव प्रदेशेषु तपस्तप्त्वा महर्षयः ।
दैवप्रभावात्तपस आर्षाण्यपि च तान्यपि ॥२६॥

आत्मनः श्रेयसे मुक्त्यै पूजायै भूतयेऽथवा ।
आत्मनः फलभूत्यर्थं यशसोऽवाप्तये पुनः ॥२७॥

मानुषैः कारितान्याहुर्मानुषाणीति नारद ।
एवं चतुर्विधो भेदस्तीर्थानां मुनिसत्तमाः ॥२८॥

भेदं न कश्चिज्जानाति श्रोतुं युक्तोऽसि नारद ।
बहवः पण्डितंमन्याः श्रृण्वन्ति कथयन्ति च ॥
सुकृती कोऽपि जानाति वक्तुं श्रोतुं निजैर्गुणैः ॥२९॥

नारद उवाच
तेषां स्वरूपं भेदं च श्रोतुमिच्छामि तत्त्वतः ।
यच्ध्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥३०॥

ब्रह्मन्कृतयुगादौ तु उपायोऽन्यो न विद्यते ।
तीर्थसेवां विनास्वत्पायासेनाभीष्टदायिनीम् ॥३१॥

त्वया सदृशो धातर्वक्ता ज्ञाताऽथवा क्वचित् ।
त्वं नाभिकमले विष्णोः संजातोऽखिलपूर्वजः ॥३२॥

ब्रह्मोवाच
गोदावरी भीमरथी तुङ्गभद्रा च वेणिका ।
तापी पयोष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्तिताः ॥३३॥

भागीरथी नर्मदा तु यमुना च सरस्वती ।
विशोका च वितस्ता च हिमवत्पर्वताश्रिताः ॥३४॥

एता नद्यः पुण्यतमा देवतीर्थान्युदाहृताः ।
गयः कोल्लासुरो वृत्रस्त्रिपुरो ह्यन्धकस्तथा ॥३५॥

हयमूर्धा च लवणो नमुचिः श्रृङ्गकस्तथा ।
यमः पातालकेतुश्च मयः पुष्कर एव च ॥३६॥

एतैरावृततीर्थानि आसुराणि शुभानि च ।
प्रभासो भार्गवोऽगस्तिर्नरनारायणौ तथा ॥३७॥

वसिष्ठश्च भरद्वाजो गौतमः कश्यपो मनुः ।
इत्यादिमुनिजुष्टानि ऋषितीर्यानि नारद ॥३८॥

अम्बरीषो हरिश्चन्द्रो मांधाता मनुरेव च ।
कुरुः कनखलश्चैव भद्राश्वः सगरस्तथा ॥३९॥

अश्वयूपो नाचिकेता वृषाकपिररिंदमः ।
इत्यादिमानुषैर्विप्र निर्मितानि शुभानि च ॥४०॥

यशसः फलभूत्यर्थं निर्मितानीह नारद ।
स्वतोद्भूतानि दैवानि यत्र क्वापि जगत्त्रये ।  
पुण्यतीर्थानि तान्याहुस्तीर्थभेदो मयोदितः ॥४१॥

इति श्रीमहापुराणे स्वंयभ्वृषिसंवादे तीर्थमाहात्म्ये तीर्थभेदवर्णंनं नाम सप्ततितमोऽध्यायः ॥७०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP