TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १८४

ब्रह्मपुराणम् - अध्यायः १८४

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १८४
श्रीकृष्णबालचरितवर्णनम्
व्यास उवाच
विमुक्तो वसुदेवोऽपि नन्दस्य शकटं गतः ।
प्रहृष्टं दृष्टवान्नन्दं पुत्रो जातो ममेति वै ॥१॥

वसुदेवोऽपि तं प्राह दिष्ट्या दिष्ट्येति सादरम् ।
वार्धकेऽपि समुत्पन्नस्तनयोऽयं तवाधुना ॥२॥

दत्तो हि वार्षिकः सर्वो भवद्भिर्नृपतेः करः ।
यदर्थमागतस्तस्मान्नात्र स्थेयं महात्मनाः ॥३॥

यदर्थमागतः कार्यं तन्निष्पन्नं किमास्यते ।
भवद्भिर्गम्यतां नन्द तच्छीघ्रं निजगोकुलम् ॥४॥

ममापि बालकस्तत्र रोहिणीप्रसवो हि यः ।
स रक्षणीयो भवता यथाऽयं तनयो निजः ॥५॥

व्यास उवाच
इत्युक्ताः प्रययुर्गोपा नन्दगोपपुरोगमाः ।
शकटारोपितैर्भाण्डैः करं दत्त्वा महाबलाः ॥६॥

वसतां गोकुले तेषां पूतना बालघातिनी ।
सुप्तं कृष्णमुपादाय रात्रौ च प्रददौ स्तनम् ॥७॥

यस्मै यस्मै स्तनं रात्रौ पूतना संप्रयच्छति ।
तस्य तस्य क्षणेनाङ्गं बालकस्योपहन्यते ॥८॥

कृष्णस्तस्याः स्तनं गाढं कराभ्यामतिपीडितम् ।
गृहीत्वा प्राणसहितं पपौ क्रोधसमन्वितः ॥९॥

सा विमुक्तमहारावा विच्छिन्नस्नायुबन्धना ।
पपात पूतना भूमौ म्रियमाणाऽतिभिषणा ॥१०॥

तन्नादश्रुतिसंत्रासाद्विबुद्धास्ते व्रजौकसः ।
ददुशुः पूतनोत्सङ्गे कृष्णं तां च निपातिताम् ॥११॥

आदाय कृष्णं संत्रस्ता यशोदा च ततो द्विजाः ।
गोपुच्छभ्रामणाद्यैश्च बालदोषमपाकरोत् ॥१२॥

गोपुरीषमुपादाय नन्दगोपोऽपि मस्तके ।
कृष्णस्य प्रददौ रक्षां कुर्वन्निदमुदैरयत् ॥१३॥

नन्दगोप उवाच
रक्षते त्वामशेषाणां भूतानां प्रभवो हरिः ।
यस्य नाभिसमुद्‌भूतात्पङ्काजादभवज्जगत् ॥१४॥

येन दंष्ट्राग्रविधृता धारयत्यवनी जगत् ।
वराहरूपधृग्देवः स त्वां रक्षतु केशवः ॥१५॥

गुह्यं स जठरं विष्णुर्जङ्घा पादौ जनार्दनः ।
वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् ॥१६॥

त्रिविक्रमक्रमाक्रान्तत्रैलोक्यस्फुरदायुधः ।
शिरस्ते पातु गोविन्दः कण्ठं रक्षतु केशवः ॥१७॥

मुखबाहू प्रबाहू च मनः सर्वेन्द्रियाणि च ।
रक्षत्वव्याहतैश्वर्यस्तव नारायणोऽव्ययः ॥१८॥

त्वां दिक्षु पातु वैकुण्ठो विदिक्षु मदुसूदनः ।
हृषीकेशोऽम्बरे भूमौ रक्षतु त्वां महीधरः ॥१९॥

व्यास उवाच
एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः ।
शायितः शकटस्याधो बालपर्यङ्किकातले ॥२०॥

ते चा गोपा महद्‌दृष्ट्वा पूतनायाः कलेवरम् ।
मृतायाः परमं त्रायं विस्मयं च तदा ययुः ॥२१॥

कदाचिच्छकटस्याधः शयानो मधुसुदनः ।
चिक्षेप चरणावूर्ध्व स्तनार्थो प्ररुरोद च ॥२२॥

तस्य पादप्रहारेण शकटं परिवर्तितम् ।
विध्वस्तभाण्डकुम्भं तद्विपरीतं पपात वै ॥२३॥

ततो हाहाकृतः सर्वो गोपगोपीजनो द्विजाः ।
आजगाम तदा ज्ञात्वा बालमुत्तानशायिनम् ॥२४॥

गोपाः केनेति जगदुः शकटं परिवर्तितम् ।
तत्रैव बालकाः प्रोचुर्बालेनानेन पातितम् ॥२५॥

रुदता दृष्टमस्माभिः पादविक्षेपताडितम् ।
शकटं परिवृत्तं वै नैतदन्यस्य चेष्टितम् ॥२६॥

ततः पुनरती वाऽऽसन्गोपा विस्मितचेतसः ।
नन्दगोपोऽपि जग्राह बालमत्यन्तविस्मितः ॥२७॥

यशोदा विस्मयारूढा भग्नभाण्डकपालकम् ।
शकटं चार्चयामास दधिपुष्पफलाक्षतैः ॥२८॥

गर्गश्च गोकुले तत्र वसुदेवप्रचोदितः ।
प्रच्छन्न एव गोपानां संस्कारमकरोत्तयोः ॥२९॥

ज्येष्ठं च राममित्याह कृष्णं चैव तथाऽपरम् ।
गर्गो मतिमतां श्रेष्ठो नाम कुर्वन्महामतिः ॥३०॥

अल्पेनैव हि कालेन विज्ञातौ तौ महाबलौ ।
घृष्टजानुकरौ विप्रा बभूवतुरुभावपि ॥३१॥

करोषभस्मदिग्धाङ्गौ भ्रममाणावितस्ततः ।
न निवारयितुं शक्ता यशोदा तौ न रोहिणी ॥३२॥

गोवाटमध्ये क्रीडन्तौ वत्सवाटगतौ पुनः ।
तदहर्जातगोवत्सपुच्छाकर्षणतत्परौ ॥३३॥

यदा यशोदा तौ बालावेकस्थानचरावुभौ ।
शशाक नो वारयितुं क्रीडन्तावतिचञ्चलौ ॥३४॥

दाम्ना बद्‌ध्वा तदा मध्ये निबबन्ध उलूखले ।
कृष्णमक्लिष्टकर्माणमाह चेदममर्षिता ॥३५॥

यदि शक्तोऽसि गच्छ त्वमतिचञ्चलचेष्टित ॥३६॥

व्साय उवाच
इत्युक्त्वा च निजं कर्म सा चकार कुटुम्बिनी ।
व्यग्रायामथ तस्यां स कर्षमाण उलूखलम् ॥३७॥

यमलार्जुनयोर्मध्ये जगाम कमलेक्षणः ।
कर्षता वृक्षयोर्मध्ये तिर्यगेवमुलूखलम् ॥३८॥

भग्नावुत्तुङ्गशाखाग्रौ तेन तौ यमलार्जुनौ ।
ततः कटकटाशब्दसमाकर्णनकातरः ॥३९॥

आजगाम व्रजजनो ददृशे च महाद्रुमौ ।
भग्नस्कन्धौ निपतितौ भग्नशाखौ महीतले ॥४०॥

ददर्श चाल्पदन्तासमयं स्मितहासं च बालकम् ।
तोयर्मध्यगतं बद्धं दाम्ना गाढं तथोदरे ॥४१॥

ततश्च दामोदरतां स ययौ दामबन्धनात् ।
गोपवृद्धास्ततः सर्वे नन्दगोपपुरोगमाः ॥४२॥

मन्त्रयामासुरुद्विग्ना महोत्पातातिभीरवः ।
स्थानेनेह न नः कार्यं व्रजामोऽन्यन्महावनम् ॥४३॥

उत्पाता बहवो ह्यत्र दृश्यन्ते नाशहेतवः ।
पूतनाया विनाशश्च शकटस्य विपर्ययः ॥४४॥

विना वातादिदोषेण द्रुमयोः पतनं तथा ।
वृन्दावनमितः स्तानात्तस्माद्‌गच्छाम मा चिरम् ॥४५॥

यावद्भौममहोत्पातदोषो नाभिभवेद्‌व्रजम् ।
इति कृत्वा मतिं सर्वे गमने ते व्रजैकसः ॥४६॥

ऊचुः स्वं स्वं कुलं शीघ्रं गम्यतां मा विलम्ब्यताम् ।
ततः क्षणेन प्रययुः शकटैर्गोधनैस्तथा ॥४७॥

यूथशो वत्सपालीश्च कालयन्तो व्रजौकसः ।
सर्वावयवनिर्धूतं क्षणमात्रेण तत्तदा ॥४८॥

काककाकीसमाकीर्णः व्रजस्थानमभूद्‌ द्विजाः ।
वृन्दावनं भगवता कृष्णेनाक्लिष्टकर्मणाः ॥४९॥

शुभेन मनसा ध्यानं गवां वृद्धिमभीप्सता ।
ततस्तत्रातिरुक्षेऽपि घर्मकाले द्विजोत्तमाः ॥५०॥

प्रावृट्काल इवाभूच्च नवशष्पं समन्ततः ।
स समावासितः सर्वो व्रजो वृन्दावने ततः ॥५१॥

शकटीवाटपर्यनतचन्द्रार्धाकारसंस्थितिः ।
वत्सबालौ च संवृत्तौ रामदामोदरौ ततः ॥५२॥

तत्र स्थितौ तौ गोष्ठे चेरतुर्बाललीलया ।
बर्हिपत्रकृतापीडौ वन्यपुष्पावतंसकौ ॥५३॥

गोपवेणुकृतातोद्यपत्रवाद्यकृतस्वनौ ।
काकपक्षधरौ बालौ कुमाराविव पावकौ ॥५४॥

हसन्तौ च रमन्तौ च चेरतुस्तन्महद्वनम् ।
क्वचिद्धसन्तावन्योन्यं क्रीडमानौ तथा परैः ॥५५॥

गोपपुत्रैः समं वत्सांश्चारयन्तौ विचेरतुः ।
कालेन गच्छता तौ तु सप्तवर्षौ बभूवतुः ॥५६॥

सर्वस्य जगतः पालौ वत्सपालौ महाव्रजे ।
प्रावृट्कालस्ततोऽतीव मेघौघस्थगिताम्बरः ॥५७॥

बभूव वारिधाराभिरैक्यं कुर्वन्दिशामिव ।
प्ररूढनवपुष्पाढ्या शक्रगोपवृता मही ॥५८॥

यथा मारकते वाऽऽसीत्पद्मरागविभूषिता ।
ऊहुरुन्मार्गगामीनि निम्नगाम्भांसि सर्वतः ॥५९॥

मानां सि दुर्विनीतानां प्राप्य लक्ष्मीं नवामिव ।
विकाले च यथाकामं व्रजमेत्य महाबलौ ॥
गोपैः समानैः सहितौ चिक्रीडातेऽमराविव ॥६०॥

इति श्रीमहापुराणे आदिब्राह्मे बालचरिते वृन्दावनप्रवेशवर्णनं नाम चतुरशीत्यधिकशततमोऽध्यायः ॥१८४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:43.9430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कुत्रें, कुतरें

  • n  A dog. A sort of grass and the flower or head of it. The seed of certain wild plants. An apparatus with a peg and an iron pin to keep a door closed. A term for a quarrelsome and abusive fellow. 
  • कुत्रीं मारीत, कुत्र्यासारखा फिरणें, हिंडणें Idle about 
  • कुत्रें होऊन राहणें, पडणें To be very servile or obsequious. 
RANDOM WORD

Did you know?

मंगळवारी येणार्‍या संकष्टी चतुर्थीस ‘ अंगारकी चतुर्थी ’ असे कां म्हणतात ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.