संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १३२

ब्रह्मपुराणम् - अध्यायः १३२

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


यक्षिणीसंगममाहात्म्यकथनम्
ब्रह्मोवाच
यक्षिणीसंगमं नाम तीर्थं सर्वफलप्रदम् ।
तत्र स्नानेन दानेन सर्वान्कामानवाप्नुयात् ॥१॥

यत्र यक्षेश्वरो देवो दर्शनाद्‌भुक्तिमुक्तिदः ।
तत्र च स्नानमात्रेण सत्रयागफलं लभेत् ॥२॥

विश्वावसोः स्वासा नाम्ना पिप्पला गुरुहामिनी ।
ऋषीणां सत्रमगमद्‌गौतमीतीरवर्तिनाम् ॥३॥

दृष्ट्वा तत्र ऋषीन्क्षामान्सा जहासादिगर्विता ।
या गत्वाऽऽश्रावय वौषडस्तु श्रौषडिति स्थिरम् ॥४॥

विस्वरेण ब्रुवती तां ते शेषुः स्राविणी भव ।
ततो नद्यभवत्तत्र यक्षिणीति सुविश्रुता ॥५॥

ततो विश्वावसुः पूज्य ऋषीन्देवं त्रिलोचनम् ।
संगम्य चैव गौतम्यां तां विशापामथाकरोत् ॥६॥

ततः प्रभृति तत्तीर्थं यक्षिणीसंगमं स्मृतम् ।
तत्र स्नानादिदानेन सर्वान्कामानवाप्नुयात् ॥७॥

विश्वावसोः प्रसन्नोऽभूद्यत्र शंभुः शिवान्वितः ।
शैवं तत्परमं तीर्थं दुर्गातीर्थं च विश्रुतम् ॥८॥

सर्वपापौघहरणं सर्वदुर्गतिनाशनम् ।
सर्वेषां तीर्थमुखयानां तद्धि सारं महामुने ॥
तीर्थं मुनिवरैः ख्यातं सर्वसिद्धिप्रदं नृणाम् ॥९॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्‌ये यक्षिणीसंगमदुर्गादितीर्थवर्णनं नाम द्वात्रिंशदधिकशततमोऽध्यायः ॥१३२॥

गौतमीमाहात्म्ये त्रिषष्टितमोऽध्यायः ॥६३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP