संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १०२

ब्रह्मपुराणम् - अध्यायः १०२

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ द्व्यधिकशततमोऽध्यायः
पञ्जतीर्थमाहात्म्यवर्णनम्
ब्रह्मोवाच
सावित्री चैव गायत्री श्रद्धा मेधा सरस्वती ।
एतानि पञ्च तीर्थानि पुण्यानि मुनयो विदुः ॥१॥

तत्र स्नात्वा तु पीत्वा तु मुच्यते सर्वकल्मषात् ।
सावित्री चैव गायत्री श्रद्धा मेधा सरस्वती ॥२॥

एता मम सुतदा ज्येष्ठा धर्मसंस्थानहेतवः ।
सर्वासामुत्तमां कांचिन्निर्ममे लोकसुन्दरीम् ॥३॥

तां दृष्ट्वा विकृता बुद्धिर्ममाऽऽसीन्मुनीसत्तमः ।
गृह्यमाणा मया बाला सा मां दृष्ट्वा पलायिता ॥४॥

मृगीभूता तु सा बला मृगोऽहमभवं तदा ।
मृगव्याधोऽभवच्छंभुर्धर्मसंरक्षणाय च ॥५॥

ता मद्भीताः पञ्च सुता गङ्गामीयुर्महानदीम् ।
ततो महेश्वरः प्रायाद्धर्मसंरक्षणाय सः ॥६॥

धनुर्गृहीत्वा सशरमीशोऽपि मृगरूपिणम् ।
मामुवाच वधिष्ये त्वां मृगव्याधस्तदा हरः ॥७॥

तत्कर्मणो निवृत्तोऽहं प्रादं कन्यां विवस्वते ।
सावित्र्यादायः पञ्च सुता नदीरूपेण संगता ॥८॥

ता आगताः पुनश्चापि स्वर्गं लोकं ममान्तिकम् ।
यत्र ताः संगता देव्या पञ्च तीर्थानि नारद ॥९॥

संगतानि च पुण्यानि पञ्च नद्यः सरस्वती ।
तेषु स्नानं तथा दानं यत्किंचित्कुरुते नरः ॥१०॥

सर्वकामप्रदं तस्मान्नैष्कर्म्यान्मुक्तिदं स्मृतम् ।
तत्राभवनमृगव्याधं तीर्थं सर्वार्थदं नृणाम् ॥
स्वर्गमौक्षफलं चान्यद्ब्रह्मतीर्थफलं स्मृतम् ॥११॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये पञ्चतीर्थमाहात्म्यनिरूपणं नाम द्व्यधिकशततमोऽध्यायः ॥१०२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP