TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १४६

ब्रह्मपुराणम् - अध्यायः १४६

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १४६
कालञ्जरतीर्थवर्णनम्
ब्रह्मोवाच
यायातमपरं तीर्थं यत्र कालंजरः शिवः ।
सर्वपापप्रशमनं तद्वत्तमुच्यते मया ॥१॥

ययातिर्नाहुषो राजा साक्षादिन्द्र इवापरः ।
तस्य भार्याद्वयं चाऽऽसीत्कुललक्षणभूषितम् ॥२॥

ज्येष्ठा तु देवयानीति नाम्ना शुक्रसुता शुभा ।
शर्मिष्ठेति द्वितीया सा सुता स्याद्वृषपर्वणः ॥३॥

ब्रह्मण्यपि महाप्राज्ञा देवयानी सुमध्यमा ।
ययातेरभवद्भार्या सा तु शुक्रप्रसादतः ॥४॥

शर्मिष्ठा चापि तस्यैव भार्या या वृषपर्वजा ।
देवयानी शुक्रसुता द्वौ पुत्रौ शमजीजनत् ॥५॥

यदुं च तुर्वसुं चैव देवपुत्रसमावुभौ ।
शर्मिष्ठा च नृपाल्लेभे त्रीन्पुत्रान्देवसंनिभान् ॥६॥

द्रुह्‌युं चानुं च पूरुं च ययातेर्नृपसत्तमात् ।
देवयान्याः सुतौ ब्रह्मन्सदृशौ शुक्ररूपतः ॥७॥

शर्मिष्ठायास्तु तनयाः शक्राग्निवरुणप्रभाः ।
देवयानी कदाचित्तु पितरं प्राह दुःखिता ॥८॥

देवयान्युवाच
मम त्वपत्यद्वितयमभाग्याया भृगूद्वह ।
मम दास्याः सभाग्याया अपत्यत्रितयं पितः ॥९॥

तदेतदनुमृश्यायं दुःखमत्यन्तमागता ।
मरिष्ये दानवगुरो ययातिकृतविप्रियात् ॥
मानभङ्गाद्वरं तात मरणं हि मनस्विनाम् ॥१०॥

ब्रह्मोवाच
तदेतत्पुत्रकावाक्यं श्रुत्वा शुक्रः प्रतापवान् ।
कुपितोऽभ्यायायौ शीघ्रं ययातिमिदब्रवीत् ॥११॥

शुक्र उवाच
यदिदं विप्रियं मे त्वं सुतायाः कृतवानसि ।
रूपोन्मत्तेन राजेन्द्र तस्माद्धृद्धो भविष्यसि ॥१२॥

न च भोक्तुं न च त्यक्तुं शक्नोति विषयातुरः ।
स्पृहयन्मनसैवाऽऽस्ते निःश्वासोच्छ्वासनष्टधीः ॥१३॥

वृद्धत्वमेव मरणं जीवतामपि देहिनाम् ।
तस्माच्छीघ्रं प्रयाहि त्वं जरां भूपातिदुर्धराम् ॥१४॥

ब्रह्मोवाच
एतच्छ्रुत्वा ययातिस्तु शापं शुक्रस्य धीमतः ।
कृताञ्जलिपुटो राजा ययातिः शुक्रमब्रवीत् ॥१५॥

ययातिरुवाच
नापराध्ये न संकुप्ये नैवाधर्मं प्रवर्तये ।
अधर्मकारिणः पपाः शास्या एव महात्मनाम् ॥१६॥

धर्ममेव चरन्तं वै कथं मां शप्तवानसि ।
देवयानी द्विजश्रेष्ठ वृथा मां वक्ति किंचन ॥१७॥

तस्मान्न मम विप्रेन्द्र शापं दातुं त्वमर्हसि ।
विद्वांसोऽपि हि निर्देषे यदि कुप्यन्ति मोहिताः ॥
तदा न दोषो मूर्खाणां द्वेषाग्निप्लुष्टचेतसाम् ॥१८॥

ब्रह्मोवाच
ययातिवाक्याच्छुक्रोऽपि सस्मार सुतया कृतम् ।
असकृद्विप्रियं तस्य दिवा रात्रौ प्रचण्डया ॥१९॥

गतकोपोऽहमित्युक्त्वा काव्यो राजानमब्रवीत् ॥२०॥

शुक्र उवाच
ज्ञातं मयाऽनयाऽकारि विप्रियं न वदेऽनृतम् ।
शापस्येमं करिष्यामि शृणुष्वानुग्रहं नृप ॥२१॥

यस्मै पुत्राय संदातुं जरामिच्छसि मानद ।
तस्य सा यात्वियं राजञ्जरा पुत्राय मद्वरात् ॥२२॥

ब्रह्मोवाच
पुनर्ययातिः श्वशुरं शुक्रं प्राह विनीतवत् ॥२३॥

यो गृह्णाति मया दत्तां जरां भक्तिसमन्वितः ।
स राजा स्याद्दैत्यगुरो तदेतदनुमन्यताम् ॥२४॥

ययातिरुवाच
यो मद्वाक्यं नाभिनन्देत्सुतो दैत्यगुरो दृढम् ।
तं शपेयमनुज्ञाऽत्र दातव्यैव त्वया गुरो ॥२५॥

ब्रह्मोवाच
एवमस्त्विति राजानमुवाच भृगुनन्दनः ।
ततो ययातिः स्वं पुत्रमाहुयेदं वचोऽब्रवीत् ॥२६॥

ययातिरुवाच
यदो गृहाण मे शापज्जरां जातां सुतो भवान् ।
ज्येष्ठः सर्वार्थवित्प्रौढः पुत्राणां धुरि संस्थितः ॥
पुत्री तेनैव जनको यस्तदाज्ञावशे स्थितः ॥२७॥

ब्रह्मोवाच
नेत्युवाच यदुस्तातं ययातिं भूरिदक्षिणम् ।
ययातिश्च यदुं शप्त्वा तुर्वसुं काममब्रवीत् ॥२८॥

नागृहणात्तुर्वसुश्चापि पित्रा दत्तां जरां तदा ।
तं शप्त्वा चाब्रवीद्‌द्रुह्‌युं गृहाणेमां जरां मम ॥२९॥

द्रुहयुश्च नैच्छत्तां दत्तां जरां रूपविनाशिनीम् ।
अनुमप्यब्रचवीद्राजा गृहाणेमां जरां मम ॥३०॥

अनुर्नैति तदोवाच शप्त्वा तं पूरुमब्रवीत् ।
अभिनन्द्य तदा पूरुर्जरां तां जगृहे पितुः ॥३१॥

सहस्रमेकं वर्षाणां यावत्प्रीतोऽभवत्पिता ।
यौवने यानि भोग्यानि वस्तूनि विविधानि च ॥३२॥

पुत्रयौवनसंपुष्टो ययातिर्बुभुजे सुखम् ।
ततस्तृप्तोऽभवद्राजा सर्वभोगेषु नाहुषः ॥
ततो हर्षाकत्समाहूय पूरुं पुत्रमथाब्रवीत् ॥३३॥

ययातिरुवाच
तृप्तोऽस्मि सर्वभोगेषु यौवनेन तवानघ ।
गृहाण यौवनं पुत्र जरां मे देहि कश्मलाम् ॥३४॥

ब्रह्मोवाच
नेत्युवाच तदा पूरुर्जरया क्षीयते मया ।
विकारास्तात भावानां दुर्निवाराः शरीरिणाम् ॥३५॥

बलात्कालागता सह्या जराऽप्यखिलदेहिभिः ।
सा चेद्‌गुरूपकाराय गृहीता त्यज्यते कथम् ॥३६॥

स्वीकृतत्यागपापाद्धि देहिनां मरणं वरम् ।
अथवा तु जरां राजंस्तपसा नाशयाम्यहम् ॥३७॥

ब्रह्मोवाच
एवमुक्त्वा तु पितरं ययौ गङ्गामनुत्तमाम् ।
गौतम्या दक्षिणे पारे ततस्तेपे तपो महत् ॥३८॥

ततः प्रीतोऽभवद्देवः कालेन महता शिवः ।
लोकातीतमहोदारगुणसन्मणिभूषितम् ॥
किं ददामीति तं प्राह पूरुं स सुरसत्तमः ॥३९॥

पूरुरुवाच
शापप्राप्तां जरां नाथ पितुर्मम सुराधिप ।
तां नाशयस्व देवेश पितृशप्तांश्च कोपतः ॥
मद्‌भ्रातॄञ्शापतो मुक्तान्कुरुष्व सुरपूजित ॥४०॥

ब्रह्मोवाच
तथेत्युक्त्वा जगन्नाथः शापाज्जातां जरां तथा ।
अनाशयज्जगन्नाथो भ्रातृंश्चक्रे विशापिनः ॥४१॥

ततः प्रभृति तत्तीर्थं जरारोगविनाशनम् ।
अकालजजरादीनां स्मरणादपि नाशनम् ॥४२॥

तन्नम्ना चापि विख्यातं कालंजरमुदाहृतम् ।
यायातं नाहुषं पौरं शौक्रं शार्मिष्ठमेव च ॥४३॥

एवमादीनि तीर्थानि तत्राष्टोत्तरमेव च ।
शतं विद्यान्महाबुद्धे सर्वसिद्धिकरं तथा ॥४४॥

तेषु स्नानं च दानं च श्रवणं पठनं तथा ।
सर्वपापप्रशमनं भुक्तिमुक्तिप्रदं भवेत् ॥४५॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये कालंजराद्यष्टोत्तरशततीर्थवर्णनं नाम षट्‌चत्वारिंशदधिकशततमोऽध्यायः ॥१४६॥

गौतमीमाहात्म्ये सप्तसप्ततितमोऽध्यायः ॥७७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:41.6130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

झील चढणें

  • वैभव वाढणें 
  • उत्‍कर्ष होणें 
  • भरभराट होणें 
  • मानमरातब, दर्जा वगैरे वाढणें. 
RANDOM WORD

Did you know?

लग्न ठरवितांना पत्रिका पाहणे किती योग्य आहे? पत्रिका पाहूनही कांही विवाह अयशस्वी कां होतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site