संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १९८

ब्रह्मपुराणम् - अध्यायः १९८

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


हलिक्रीडावर्णनम्
व्यास उवाच
वने विहरतस्तस्य सह गोपैर्महात्मनः ।
मानुषच्छद्मरूपस्य शेषस्य धरणीभृतः ॥१॥

निष्पादितोरुकार्यस्य कार्येणैवावतारिमः ।
उपभोगार्थमत्यर्तं वरुणः प्राह वारुणीम् ॥२॥

वरुण उवाच
अभीष्टां सर्वदा ह्यस्य मदिरे त्वं महौजसः ।
अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे ॥३॥

इत्युक्ता वारुणी तेन सनिधानमथाकरोत् ।
वृन्दावनतटोत्पन्नकदम्बतरुकोटरे ॥४॥

विचरन्बलदेवोऽपि मदिरागन्धमुद्धतम् ।
आग्राय मदिराहर्षमवापाथ पुरातनम् ॥५॥

ततः कदम्बात्सहसा मद्यधारां स लाङ्गली ।
पतन्तीं वीक्ष्य मुनयः प्रययौ परमां मुदम् ॥६॥

पपौ च गोपगोपीभिः समवेतो मुदाऽन्वितः ।
उपगीयमानो ललितं गीतवाद्यविशारदैः ॥७॥

श्रमतोऽत्यन्तघर्माम्भःकणिकामौक्तिकोज्ज्वलः ।
आगच्छ यमुने स्नातुमिच्छामीत्याह विह्वलः ॥८॥

तस्य वाचं नदी सा तु मत्तोक्तामवमन्य वै ।
नाऽऽजगाम ततः क्रुद्धो हलं जग्राह लाङ्गली ॥९॥

गृहीत्वा तां तटेनैव चकर्ष मदविह्वलः ।
पापे नाऽऽयासि नाऽऽयासि गम्यतामिच्छयाऽन्यतः ॥१०॥

सा गृष्टा तेन सहसा मार्गं संत्यज्य निम्नगा ।
यत्राऽऽस्ते बलदेवोऽसौ प्लावयामास तद्वनम् ॥११॥

शरीरिणी तथोपेत्य त्रासविह्वललोचना ।
प्रसीदेत्यब्रवीद्रामं मुञ्च मां मुशलायुध ॥१२॥

सोऽब्रवीदवजानासि मम शौर्यबलं यदि ।
सोऽहं त्वां हलपातेन नयिष्याम सहस्रधा ॥१३॥

व्यास उवाच
इत्युक्तयाऽतिसंत्रस्ततया नद्या प्रसादितः ।
भूभागे प्लाविते तत्र मुमोच यमुनां बलः ॥१४॥

ततः स्नातस्य वै कान्तिराजगाम महावने ।
अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम् ॥१५॥

वरुणप्रहितां चास्मै मालामम्लानपङ्कजाम् ।
समुद्रार्हे तथा वस्त्रे नीले लक्ष्मीरयच्छत ॥१६॥

कृतावतंसः स तदा चारुकुण्डलभूषितः ।
नीलाम्बरधरः स्रग्वी शुशुभे कान्तिसंयुतः ॥१७॥

इत्थं विभूषितो रेमे तत्र रामस्तदा व्रजे ।
मासद्वयेन यातश्च पुनः स मथुरां पुरीम् ॥१८॥

रेवतीं चैव तनयां रैवतस्य महीपतेः ।
उपयेमे बलस्तस्यां जज्ञाते निशठोल्मुकौ ॥१९॥

इति श्रीमहापुराणे आदिब्राह्मे हलिक्रीडावर्णनं नामाष्टनवत्यधिकशततमोऽध्यायः ॥१९८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP