TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २३

ब्रह्मपुराणम् - अध्यायः २३

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २३
तत्रादौ भूर्भुवःस्वरादिवर्णनम्
मुनय ऊचुः
कथितं भवता सर्व्वमस्माकं सकलं तथा ।
भुवर्लोकादिकाँल्लोकान् श्रोतुमिच्छामहे वयम् ॥१॥

तथैव ग्रहसंस्थानं प्रमाणानि यता तथा ।
समाचक्ष्व महाभाग यथावल्लोमहर्षणः ॥२॥

लोमहर्षण उवाच
रविचन्द्रमसोर्यावन्मयूखैरवभास्यते ।
ससमुद्रसरिच्छैला तावती पृथिवी स्मृता ॥३॥

यावत्प्रमाणा पृथिवी विस्तारपरिमण्डला ।
नभस्तावत्प्रमाणं हि विस्तारपरिमण्डलम् ॥४॥

भूमेर्योजनलक्षे तु सौरं विप्रास्तु मण्डलम् ।
लक्षे दिवाकराच्चापि मण्डलं शशिनः स्थितम् ॥५॥

पूर्णे शतसहस्रे तु योजनानां निशाकरात् ।
नक्षत्रमण्डलं कृत्‌स्नमुपरिष्टात् प्रकाशते ॥६॥

द्विलक्षे चोत्तरे विप्रा बुधो नक्षत्रमण्डलात् ।
तावत् प्रमाणभागे तु बुधस्याप्युशना स्थितः ॥७॥

अङ्गारकोऽपि शुक्रस्य तत्‌प्रमाणे व्यवस्थितः ।
लक्षद्वियेन भौमस्य स्थितो देवपुरोहितः ॥८॥

सौरिर्बृहस्पतेरूद्‌र्ध्वं द्विलक्षे समवस्थितः ।
सप्तर्षिमण्डलं तस्माल्ल्क्षमेकं द्विजोत्तमाः ॥९॥

ऋषिभ्यस्तु सहस्राणां शतदूद्‌र्ध्वं व्यवस्थितः ।
मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ॥१०॥

त्रैलोक्यमेतत् कथितं संक्षोपेण द्विजोत्तमाः ।
इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता ॥११॥

ध्रुवादूर्ध्वं महर्लोको यत्र ते कल्पवासिनः ।
एकयोजनकोटी तु महर्लोको विधोयते ॥१२॥

द्वे कोट्यौ तु जनो लोको यत्र ब्रह्मणः सुताः ।
सनन्दनाद्याः कथिता विप्राश्चामलचेतसः ॥१३॥

चतुर्गुणोत्तरं चोद्‌र्ध्वं जनलोकात्तपः स्मृतम् ।
वैराजा यत्र ते दवाः स्थिता देहविवर्ज्जिताः ॥१४॥

षड्गुणेन तपोलोकात् सत्यलोको विराजते ।
अपुनर्मारकं यत्र सिद्धादिमुनिसेवितम् ॥१५॥

पादगम्यं तु यत् किञ्चिवद्वस्त्वस्ति पृथिवीमयम् ।
सभूर्लोकः समाख्यातो विस्तारोऽस्य मयोदितः ॥१६॥

भूमिसूर्य्यन्तरं यत्तु सिद्धादिमुनिसेवितम् ।
भूवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तमाः ॥१७॥

ध्रुवसूर्य्यान्तरं यत्तु नियुतानि चतुर्द्दश ।
स्वर्लोकः सोऽपि कथितो लोकसंस्थानचिन्तकैः ॥१८॥

त्रैलोक्यमेतत् कृतकं विप्रैश्च परिपठ्यते ।
जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् ॥१९॥

कृतकाकृतको मध्ये महर्लोक इति स्मृतः ।
शून्यो भवति कल्पान्ते योऽन्तं न च विनश्यति ॥२०॥

एते सप्त महालोका मया वः कथिता द्विजाः ।
पातालानि च स्पैतव ब्रह्माण्डस्यैष विस्तरः ॥२१॥

एतदण्डकटाहेन तिर्य्यगूर्द्ध्वमधस्तथा ।
कपित्थस्य यथा बीजं सर्व्वतो वै समावृतम् ॥२२॥

दशोत्तरेण पयसा द्विजाश्चाण्डञ्च तद्वृतम् ।
स चाम्बुपरिवारोऽसौ वह्निना वेष्टितो बहिः ॥२३॥

वह्निस्तु वायुना वायुर्विप्रास्तु नभसावृतः ।
आकाशोऽपि मुनिश्रेष्ठा महता परिवेष्टितः ॥२४॥

दशोत्तराण्यशेषाणि विप्राश्चैतानि सप्त वै ।
महान्तञ्च समावृत्य प्रधानं समवस्थितम् ॥२५॥

अनन्तस्य न तस्यान्तः संख्यानं चापि विद्यते ।
तदनन्तमसंख्यातं प्रमाणेनापि वै यतः ॥२६॥

हेतुभूतमशेषस्य प्रकृतिः सा परा द्विजाः ।
अण्डानान्तु सहस्राणां सहस्राण्ययुतानि च ॥२७॥

ईदृशानां तथा तत्र कोटिकोटिशतानि च ।
दारुण्यग्निर्यथा तैलं तिले तद्वत् पुमानिह ॥२८॥

प्रधानेऽवस्थितो व्यापी चेतनात्मनिवेदनः ।
प्रधानञ्च पुमांश्चैव सर्व्वभूतानुभूतया ॥२९॥

विष्णुशक्त्या द्विजश्रेष्ठा धृतौ संश्रयधर्म्मिणौ ।
तयोः सैव पृथग्भावे कारणं संश्रयस्य च ॥३०॥

क्षोभकारणभूता च सर्गकाले द्विजोत्तमाः ।
यथा शैत्यं वातो बिभार्त्ति कणिकागतम् ॥३१॥

जगच्छक्तिस्तथा विष्णोः प्रधानपुरुषात्मकम् ।
यथा च पादपो मूलस्कन्धशाखादिसंयुतः ॥३२॥

आद्यबीजात् प्रभवति बीजान्यन्यानि वै ततः ।
प्रभवन्ति ततस्तेभ्यो भवन्त्यन्ये परे द्रुमाः ॥३३॥

तेऽपि तल्लक्षणद्रव्यकारणानुगता द्विजाः ।
एवमव्याकृतात् पूर्व्व जायन्ये महदादयः २३.३४॥

विशेषान्तास्ततस्तेभ्यः सम्भवन्ति सुरादयः ।
तेभ्यश्च पुत्रास्तेषां तु पुत्राणां परमे सुताः ॥३५॥

वीजाद्वृक्षप्ररोहेण यथा नापचयस्तरोः ।
भूतानां भूतसर्गेण नैवास्त्यपचयस्तथा ॥३६॥

सन्निधानाद्यथाकाशकालाद्याः कारणं तरोः ।
तथैवापरिणामेन विश्वस्य भगवान् हरिः ॥३७॥

व्रीहिबीजे यथा मूलं नालं पत्राङ्कुरौ तथा ।
काण्डकोषास्तथा पुष्पं क्षीरं तद्वच्च तण्डुलः॥ । २३.३८॥

तुषाः पणाश्च सन्तो वै यान्त्याविर्बावमात्मनः ।
प्ररोहहेतुसामग्र्यमासाद्य मुनिसत्तमाः ॥३९॥

तथा कर्म्मस्वनेकेषु देवाद्यास्तनवः स्थिताः ।
विष्णुशवितं समासाद्य प्ररोहमुपयान्ति वै ॥४०॥

स च विष्णुः परं ब्रह्म यतः सर्व्वमिदं जगत् ।
जगच्च यो यत्र चेदं यस्मिन्विलयमेष्यति ॥४१॥

तद्ब्रह्म परमं धाम सदसत् परमं पदम् ।
यस्य सर्व्वमभेदेन जगदेतच्चराचतरम् ॥४२॥

स एव मूलप्रकृतिर्व्यक्तरूपी जगच्च सः ।
तस्मिन्नेव लयं सर्व्वं याति तत्र च तिष्ठति ॥४३॥

कर्त्ता क्रियाणां च स इज्यते क्रतुः, स एव तत् कर्म्मफलञ्च तस्य यत् ।
युगादि यसामाच्च भवेदशेषतोहरेर्न किञ्चिद्व्यतिरिवतमस्ति तत् ॥४४॥

इति श्रीब्राह्मे महापुराणे भूर्भुवःस्वरादिकीर्त्तनं नाम त्रयोविंशोऽध्यायः ॥२३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:34.3030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

संतप्त

  • वि. अतिशय तापवलेला , खूप गरम केलेला ( धातू ); 
  • p  Extremely heated, lit. fig.; scorched, excited, inflamed. Greatly troubled, afflicted, distressed. 
  • वि. जळफळणारा , त्रासलेला , प्रक्षुब्ध , रागावलेला . 
RANDOM WORD

Did you know?

जननशांती म्हणजे काय ? ती केव्हा करावी ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.