TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २३२

ब्रह्मपुराणम् - अध्यायः २३२

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २३२
व्यास-मुनिसंवादे प्राकृतप्रतिसंचरकथनम्
व्यास उवाच
सर्वेषामेव भूतानां त्रिविधः प्रतिसंचरः ।
नैमित्तिकः प्राकृतिकस्तथैवाऽऽत्यन्तिको मतः ॥१॥

ब्राह्मो नैमित्तिकस्तेषां कल्पान्ते प्रतिसंचरः ।
आत्यन्तिको वै मोक्षश्च प्राकृतो द्विपरार्धिकः ॥२॥

मुनय ऊचुः
परार्धसंख्यां भगवंस्त्वमाचक्ष्व यथोदिताम् ।
द्विगुणीकृतयज्ज्ञेयः प्रकृतः प्रतिसंचरः ॥३॥

व्यास उवाच
स्थानत्स्थानं दशगुणमेकैकं गण्यते द्विजाः ।
ततोष्टादशमे भागे परार्धमभिधियते ॥४॥

परार्धं द्विगुणं यत्तु प्राकृतः स लयो द्विजाः ।
तदाऽव्यक्तेऽखिलं व्यक्तं सहेतौ लयमेति वै ॥५॥

निमेषो मानुषो योऽयं मात्रामात्रप्रमाणतः ।
तैः पञ्चदशभिः काष्ठा त्रिंशत्काष्ठास्तथा कला ॥६॥

नाडिका तु प्रमाणेन कला च(श्च)दश प़ञ्च च ।
उन्मानेनाम्भसः सा तु पलान्यर्धत्रयोदश ॥७॥

हेममाषै कृतच्छिद्रा चतुर्भिचतुरङ्गुलैः ।
मागधेन प्रमाणेन जलप्रस्थस्तु स स्मृतः ॥८॥

नाडिकाभ्यामथ द्वाभ्यां मुहूर्तो द्विजसत्तमाः ।
अहोरात्रं मुहूर्तास्तु त्रिंशन्मासो दिनैस्तथा ॥९॥

मासैर्द्वादशभिर्वर्षमहोरात्रं तु तद्दिवि ।
त्रिभिर्वर्षशतैर्वर्षं षष्ट्या चैवासुरद्विषाम् ॥१०॥

तैस्तु द्वादशसाहस्रैश्चतुर्युगमुदाहृतम् ।
चतुर्युगसहस्रं तु कथ्यते ब्रह्मणो दिनम् ॥११॥

स कल्पस्तत्र मनवश्चतुर्दश द्विजोत्तमाः ।
तदन्ते चैव भो विप्रा ब्रह्मनैमित्तिको लयः ॥१२॥

तस्य स्वरूपमत्युग्रं द्विजेन्द्रा गदतो मम ।
श्रृणुध्वं प्राकृतं भूयस्ततो वक्ष्याम्यहं लयम् ॥१३॥

चतुर्युगसहस्रान्ते क्षीणप्राये महीतले ।
अनावृष्टिरतीवोग्रा जायते शतवार्षिकी ॥१४॥

ततो यान्यल्पसाराणि तानि सत्त्वान्यनेकशः ।
क्षयं यान्ति मुनिश्रेष्ठाः पार्थिवान्यतिपीडनात् ॥१५॥

ततः स भगवान्कृष्णो रुद्ररूपी तथाऽव्ययः ।
क्षयाय यतते कर्तुमात्मस्थाः सकलाः प्रजाः ॥१६॥

ततःस भगवान्विष्णुर्भानोः सप्तसु रश्मिषु ।
स्थितः पिबत्यशेषाणि जलानि मुनिसत्तमाः ॥१७॥

पीत्वाऽम्भांसि समस्तानि प्राणिभूतगतानि वै ।
शोषं नयति भो विप्राः समस्तं पृथिवीतलम् ॥१८॥

समुद्रान्सरितः शैलाञ्शैलप्रस्रवणानि च ।
पातालेषु च यत्तोयं तत्सर्वं नयति क्षयम् ॥१९॥

ततस्तस्याप्यभावेन तोयाहारोवबृंहितः ।
सहस्ररश्मयः सप्त जायन्ते तत्र भास्कराः ॥२०॥

अधश्चोर्ध्वं च ते दीप्तास्ततः सप्त दिवाकराः ।
दहन्त्यशेषं त्रैलोक्यं सपातालतलं द्विजाः ॥२१॥

दह्यमानं तु तैर्दीप्तैस्त्रैलोक्यं दीप्तभास्करैः ।
साद्रिनगार्णवाभोगं निः स्नेहमभिजायते ॥२२॥

ततो निर्दग्धवृक्षाम्बु त्रैलोक्यमखिलं द्विजाः ।
भवत्येषा च वसुधा कूर्मपृष्ठोपमाकृतिः ॥२३॥

ततः कालाग्निरुद्रोऽसौ भूतसर्गहरो हरः ।
शेषाहिश्वाससंतापात्पातालानि दहत्यधः ॥२४॥

पातालानि समस्तानि स दग्ध्वा ज्वलतो महान् ।
भूमिमभ्येत्य सकलं दग्ध्वा तु वसुधातलम् ॥२५॥

भुवो लोकं ततः सर्वं स्वर्गलोकं च दारुणः ।
ज्वालामालामहावर्तस्तत्रैव परिवर्तते ॥२६॥

अम्बीरीषमिवाऽऽभाति त्रैलोक्यमखिलं तदा ।
ज्वालावर्तपरीवारमुपक्षीणबलास्ततः ॥२७॥

ततस्तापपरीतासु लोकद्वयनिवासिनः ।
हृतावकाशा गच्छन्ति महर्लोकं द्विजास्तदा ॥२८॥

तस्मादपि महातापतप्ता लोकास्ततः परम् ।
गच्छन्ति जनलोकं ते दशावृत्या परैषिणः ॥२९॥

ततो दग्ध्वा जगत्सर्वं रुद्ररूपी जनार्दनः ।
मुखनिःश्वासजान्मेघान्करो ति मुनिसत्तमाः ॥३०॥

ततो गजकुलप्रख्यास्तडिद्वन्तो निनादिनः ।
उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्तका घनाः ॥३१॥

केचिदञ्जनसंकासाः केचित्कुमुदसंनिभाः ।
धर्मवर्णा घनाः केचित्केचित्पीताः पयोधराः ॥३२॥

केचिद्धरिद्रावर्णाभा लाक्षारसनिभास्तथा ।
केचिद्वैदूर्यसंकाशा इन्द्रनीलनिभास्तथा ॥३३॥

शङ्खकुन्दनिभाश्चान्ये जातीकुन्दनिभास्तथा ।
इन्द्रगोपनिभाः केचिन्मनः शिलनिभास्तथा ॥३४॥

पद्मपत्रनिभाः केचिदुत्तिष्ठन्ति घना घनाः ।
केचित्पुरवराकाराः केचित्पर्वतसंनिभाः ॥३५॥

कूटागारनिभाश्चान्ये केचित्स्थलनिभा घनाः ।
महाकाया महारावा पूरयन्ति नभस्थलम् ॥३६॥

वर्षन्तस्ते महासारास्तमग्निमतिभैरवम् ।
समयन्त्यखिलं विप्रास्त्रैलोक्यान्तरविस्तृतम् ॥३७॥

नष्टे चाग्नौ शतं तेऽपि वर्षाणामधिकं घनाः ।
प्लावयन्तो जगत्सर्वं वर्षन्ति मुनिसत्तमाः ॥३८॥

धाराभिरक्षमात्राभिः प्लावयित्वाऽखिलां भुवम् ।
भुवो लोकं तथैवोर्ध्वं प्लावयन्ति दिवं द्विजाः ॥३९॥

अन्धकारीकृते लोके नष्टे स्थावरजङ्गमे ।
वर्षन्ति ते महामेघा वर्षाणामधिकं शतम् ॥४०॥

इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे संहारलक्षणकथनं नाम द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥२३२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:46.4600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दुमान

  • न. ( गो . ) करट ; गळूं . तंव मनुष्या आणि मोन जातीते । दुमाने करटे जाहाली सकलाते । - ख्रिपु १ . १६ . ८७ . 
RANDOM WORD

Did you know?

Sarva namaskar havet.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.