TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २२९

ब्रह्मपुराणम् - अध्यायः २२९

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २२९
व्यासमुनिसंवादे विष्णुभक्तिहेतुकथनम्
मुनय ऊचुः
श्रुतं फलं गीतिकाया अस्माभिः सुप्रजागरे ।
कृष्णस्य येन चाण्डालो गतोऽसौ परमां गतिम् ॥१॥

यथा विष्णौ भवेद्‌भक्तिस्तन्नो ब्रूहि महामते ।
तपसा कर्मणा येन श्रोतुमिच्छामि सांप्रतम् ॥२॥

व्यास उवाच
श्रृणुध्वं मुनिशार्दूलाः प्रवक्ष्याम्यनुपूर्वशः ।
यथा कृष्णे भवेद्‌भक्तिः पुरुषस्य महाफला ॥३॥

संसारेऽस्मिन्महाघोरे सर्वभूतभयावहे ।
महामोहकरे नॄणां नानादुः खशताकुले ॥४॥

तिर्यग्योनिसहस्रेषु जायमानः पुनः पुनः ।
कथंचिल्लभते जन्म देही मानुष्यकं द्विजाः ॥५॥

मानुषत्वेऽपि विप्रत्वं विप्रत्वेऽपि विवेकिता ।
विवेकाद्धर्मबुद्धिस्तु बुद्ध्या तु श्रेयसां ग्रहः ॥६॥

यावत्पापक्षयं पुंसां न भवेज्जन्मसंचितम् ।
तावन्न जायते भक्तिर्वासुदेवे जगन्मये ॥७॥

तस्माद्वक्ष्यामि भो विप्रा भक्तिः कृष्णे यथा भवेत् ।
अन्यदेवेषु या भक्तिः पुरुषस्येह जायते ॥८॥

कर्मणा मनसा वाचा तद्‌गतेनान्तरात्मना ।
तेन तस्य भवेद्‌भक्तिर्यजने मुनिसत्तमाः ॥९॥

स करोति ततो विप्रा भक्तिं चाग्नेः समाहितः ।
तुष्टे हुताशने तस्य भक्तिर्भवति भास्करे ॥१०॥

पूजां करोति सततमादित्यस्य ततो द्विजाः ।
प्रसन्ने भास्करे तस्य भक्तिर्भवति शंकरे ॥११॥

पूजां करोति विधिवत्स तु शंभोः प्रयत्नतः ।
तुष्टे त्रिलोचने तस्य भक्तिर्भवति केशवे ॥१२॥

संपूज्य तं जगन्नाथं वासुदेवाख्यमव्ययम् ।
ततो भुक्तिं च मुक्तिं च स प्राप्नोति द्विजोत्तमाः ॥१३॥

मुनय ऊचुः
अवैष्णवा नरा ये तु दृश्यन्ते च महामुने ।
किं ते विष्णुं नार्चयन्ति ब्रूहि तत्कारणं द्विज ॥१४॥

व्यास उवाच
द्वौ भूतसर्गौ विख्यातौ लोकेऽस्मिन्मुनिसकत्तमाः ।
आसुरश्च तथा दैवः पुरा सृष्टः स्वयंभुवा ॥१५॥

दैवीं प्रकृतिमासाद्य पूजयन्ति ततोऽच्युतम् ।
आसुरीं योनिमापन्ना दूषयन्ति नरा हरिम् ॥१६॥

मायया हतविज्ञाना विष्णोस्ते तु नराधमाः ।
अप्राप्य तं हरिं विप्रास्ततो यान्त्यधमां गतिम् ॥१७॥

तस्य या गह्वरी माया दुर्विज्ञेया सुरासुरैः ।
महामोहकरी नृणां दुस्तरा चाकृतात्मभिः ॥१८॥

मुनय ऊचुः
इच्छामस्तां महामायां ज्ञातुं विष्णोः सुदुस्तराम् ।
वक्तुमर्हसि धर्मज्ञ परं कौतूहलं हि नः ॥१९॥

व्यास उवाच
स्वप्नेन्द्रजालसंकाशा माया सा लोककर्षणी ।
कः शक्नोति हरेर्मायां ज्ञातुं तां केशवादृते ॥२०॥

या वृत्ता ब्राह्मणस्याऽऽसीन्मायार्थे नारदस्य च ।
विडम्बनां तु तां विप्राः श्रृणुध्वं गदतो मम ॥२१॥

प्रागासीन्नृपतिः श्रीमानाग्नीध्र इति विश्रुतः ।
नगरे कामदमनस्तस्याथ तन्यः शुचिः ॥२२॥

धर्मारामः क्षमाशीलः पितृशुश्रूषणे रतः ।
प्रजानुरञ्जको दक्षः श्रुतिशास्त्रकृतश्रमः ॥२३॥

पिताऽस्य त्वकरोद्यत्नं विवाहाय न चैच्छत ।
तं पिता प्राह किमिति नेच्छसे दारसंग्रहम् ॥२४॥

सर्वमेतत्सुखार्थं हि वाञ्छन्ति मनुजाः किल ।
सुखमूला हि दाराश्च तस्मात्तं त्वं समाचर ॥२५॥

स पितुर्वचनं श्रुत्वा तूष्णीमास्ते च गौरवात् ।
मुहुर्महुस्तं च पिता चोदयामास भो द्विजाः ॥२६॥

अथासौ पितरं प्राह तात नामानुरूपता ।
मया समाश्रिता व्यक्ता वैष्णवी परिपालिनी ॥२७॥

तं पिता प्राह संगम्य नैष धर्मोऽस्ति पुत्रक ।
न विधारयितव्या स्यात्पुरुषेण विपश्चिता ॥२८॥

कुरु मद्वचनं पुत्र प्रभुरस्मि पिता तव ।
मा निमज्ज कुलं मह्यं नरके संततिक्षयात् ॥२९॥

स हि तं पितुरादेसं श्रुत्वा प्राह सुतो वशी ।
प्रीतः संस्मृत्य पौराणीं संसारस्य विचित्रताम् ॥३०॥

पुत्र उवाच
श्रृणु तात वचो मह्यं तत्त्ववाक्यं सहेतुकम् ।
नामानुरूपं कर्तव्यं सत्यं भवति पार्थिव ॥३१॥

मया जन्मसहस्राणि जरामृत्युशतानि च ।
प्राप्तानि दारसंयोगवियोगानि च सर्वशः ॥३२॥

तृणगुल्मलतावल्लीसरीसृपमृगद्विजाः ।
पशुस्त्रीपुरुषाद्यानि प्राप्तानि शतशो मया ॥३३॥

गणकिंनरगन्धर्वविद्याधरमहोरगाः ।
यक्षगुह्यकरक्षांसि दानवाप्सरसः सुराः ॥३४॥

नदीश्वरसहस्रं च प्राप्तं तात पुनः पुनः ।
सृष्टस्तु बहुशः सृष्टौ संहारे चापि संहृतः ॥३५॥

दारसंयोगयुक्तस्य तातेदृङ्मे विडम्बना ।
इतस्तृतीये यद्वृत्तं मम जन्मनि तच्छृणु ॥
कथयामि समासेन तीर्थमाहात्म्यसंभवम् ॥३६॥

अतीत्य जन्मानि बहूनि तात, नृदेवगन्धर्वमहोरगाणाम् ।
विद्याधराणां खरगकिंनराणां, जातो हि वंशे सुतपा महर्षिः ॥३७॥

ततो महाभूदचला हि भक्तिर्जनार्दने लोकपतौ मधुघ्ने ।
व्रतोपवासैर्विविधैश्च भक्त्या, संतोषतश्चक्रगदास्त्रधारी ॥३८॥

दुष्टोऽभ्यगात्पक्षिपतिं महात्मा, विष्णुः समारुह्य वरप्रदो मे ।
प्राहोच्छशब्दं व्रियतां द्विजाते, वरो हि यं वाञ्छसि तं प्रदास्ये ॥३९॥

ततोऽहमूचे हरिमीशितारं, तुष्टोऽसि चेत्केशव तद्‌वृणोमि ।
या सा त्वदीया परमा हि माया, तां वेत्तुमिच्छामि जनार्दनोऽहम् ॥४०॥

अथाब्रवीन्मे मधुकैटभारिः, किं ते तया ब्रह्मन्मायया वै ।
धर्मार्थकामानि ददानि तुभ्यं, पुत्राणि मुख्यानि निरामयत्वम् ॥४१॥

ततो मुरारिं पुनरुक्तवानहं, भूयोऽर्थधर्माजिगीषितैव यत् ।
माया तवेमामिह वेत्तुमिच्छे, ममाद्य तां दर्शय पुष्कराक्ष ॥४२॥

ततोऽभ्युवाचाथ नृसिंहमुख्यः, श्रीशः प्रभुर्विष्णुरिदं वचो मे ॥
विष्णुरुवाच
मायां मदीयां न हि वेत्ति कश्चिन्न चापि वा वेत्स्यति कश्चिदेव ॥४३॥

पूर्वं सुरर्षिर्द्विज नारदाख्यो, ब्रह्मात्मजोऽभून्मम भक्तियुक्तः ।
तेनापि पूर्वं भवता यथैव, संतोषितो भक्तिमता हि तद्वत् ॥४४॥

वरं च दत्तं(दातुं)गतवानहं च, स चापि वव्रे वरमेतदेव ।
निवारितो मामतिमूढभावाद्‌भवान्यथैवं वृतवान्वरं च ॥४५॥

ततो मयोक्तोऽम्भसि नारदोऽसौ, मायां हि मे वेत्स्यसि संनिमग्नः ।
ततो निमग्नोऽम्भसि नारदोऽसौ, कन्या बभौ काशिपतेः सुशीला ॥४६॥

तां यौवनाढ्यामाथ चारुधर्मिणे, विदर्भराज्ञस्तनयाया वै ददौ ।
स्व(सु)धर्मणे सोऽपि तया समेतःष सिषेव कामानतुलान्महर्षिः ॥४७॥

स्वर्गे गतेऽसौ पितरि प्रतापवान्राज्यं क्रमायातमवाप्य हृष्टः ।
विदर्भराष्ट्रं परिपालयानः, पुत्रैः सपौत्रेर्बहुभिर्वृतोऽभूत् ॥४८  ।
अथाभवद्‌भूमिपतेः सुधर्मणः, काशीश्वरेणाथ समं सुयुद्धम् ।
तत्र क्षयं प्राप्य(प)सपुत्रपौत्रं, विदर्भराट्‌काशिपतिश्च युद्धे ॥४९॥

ततः सुशीला पितरं सपुत्रं, ज्ञात्वा पतिं चापि सपुत्रपौत्रम् ।
पुराद्विनिःसृत्य रणावनिं गता, दृष्ट्वा सुशीला कदनं महान्तम् ॥५०॥

भर्तुर्बले तत्र पितुर्बले च, दुःखान्विता सा सुचिरं विलप्य ।
जगाम सा मातरमार्तरूपा, भ्रातॄन्सुतान्भातृसुतान्सपौत्रान् ॥५१॥

भर्तारमेष पितरं च गृह्य, महाश्मशाने च महाचितिं सा ।
कृत्वा हुताशं प्रददौ स्वयं च, यदा समिद्धो हुतभुग्बभूव ॥५२॥

तदा सुशीला प्रविवेश वेगाद्वा पुत्र हा पुत्र इति ब्रुवाणा ।
तदा पुनः सा मुनिर्नारदोऽभूत्, स चापि वह्निः स्फटिकामलाभः ॥५३॥

पूर्णं सरोऽभूदथ चोत्ततार, तस्याग्रतो देववरस्तु केशवः ।
कस्ते तु पुत्रो वद मे महर्षे, मृतं च कं शोचसि नष्टबुद्धिः ।
व्रडान्वितोऽभूदथ नारदोऽसौ, ततोऽहमेनं पुनरेव चाऽऽह ॥५५॥

इतदृशा नारद कष्टरूपा, माया मदीया कमलासनाद्यैः ।
शक्या न वेत्तुं समहेन्द्ररुद्रैः, कथं भवान्वेत्स्यति दुर्विभाव्याम् ॥५६॥

स वाक्यमाकर्ण्य महामहर्षिरुवाच भक्तिं मम देहि विष्णो ।
प्राप्तेऽथ काले स्मरणं तथैव, सदा च संदर्शनमीश तेऽस्तु ॥५७॥

यत्राहमार्तश्चितिमद्य रूढस्तत्तीर्थमस्त्वच्युतपापहन्त्रा ।
अधिष्ठितं केशव नित्यमेव, त्वया सहाऽऽसं(हेदं)कमलोद्भवेन ॥५८॥

ततो मयोक्तो द्विज नारदोऽसौ, तीर्थं सितोदे(दं)हि चितिस्तवास्तु ।
स्थास्याम्यहं चात्र सदैव विष्णुर्महेश्वरः स्थास्यति चोत्तरेण ॥५९॥

नदा विरञ्चेर्वदनं त्रिनेत्रः स च्छेत्स्यतेयं च ममु(त्वथ चो)ग्रवाचम् ।
तदा कपालस्य तु मोचनाय, समेष्यते तीर्थमिदं त्वदीयम् ॥६०॥

स्नातस्य तीर्थं त्रिपुरान्तकस्य, पतिष्यते भूमितले कपालम् ।
ततस्तु तीर्थेति कपालमोचनं, ख्यातं पृथिव्यां च भविष्यते तत् ॥६१॥

तदा प्रभृत्यम्बुदवाहनोऽसौ, न मोक्ष्यते तीर्थवरं सुपुण्यम् ।
न चैव तस्मिन्द्विज संप्रचक्षते, तत्क्षेत्रमुग्रं त्वथ ब्रह्मवध्या ॥६२॥

यदा न मोक्षत्यमरारिहन्ता, तत्क्षेत्रमुख्यं महादाप्तपुण्यम् ।
तदा विमुक्तेति सुरै रहस्यं, तीर्थं स्तुतं पुण्यदमव्ययाख्यम् ॥६३॥

कृत्वा तु पापानि नरो महान्ति, तस्मिन्प्रविष्टः शुचिरप्रमादी ।
यदा तु मां चिन्तयते स शुद्धः, प्रयाति मोक्षं भगवत्प्रसादात् ॥६४॥

भूत्वा तस्मिन्नुद्रपिशाचसंज्ञो योन्यन्तरे दुःखमुपाश्नुतेऽसौ ।
विमुक्तपापो बहुवर्षपूगैरुत्पत्तिमायास्याति विप्रगेहे ॥६५॥

शुचिर्यतात्माऽस्य ततोऽन्तकाले, रुद्रो हितं तारकमस्य कीर्तयेत् ।
इत्येवमुक्त्वा द्विजवर्यं नारदं, गतोऽस्मि दुग्धार्णवमात्मगेहम् ॥६६॥

स चापि विप्रस्त्रिदिवं चचार, गनधर्वराजेन समर्च्यमानः ।
एतत्तवोक्तं ननु बोधनाय माया मदीया नहि शक्ये सा ॥६७॥

ज्ञातुं भवानिच्छति चेत्ततोऽद्य, एवं विशस्वाप्सु च वेत्सि येन ।
एवं द्विजातिर्हरिणा प्रबोधितो, भाव्यर्थयोगान्निममज्ज तोये ॥६८॥

कोकामुके तात ततो हि कन्या, चाण्डालवेश्मन्यभवद्‌द्विजः सः ।
रूपान्विता शीलगुणोपपन्ना, अवाप सा यौवनमाससाद । २२९.६९
चाण्डालपुत्रेण सुबाहुनाऽपि, विवाहिता रूपविवर्जितेन ।
पतिर्न तस्या हि मतो बभूव सा तस्य चैवाभिमता बभूव ॥७०॥

पुत्रद्वयं नेत्रहीनं बभूव, कन्या च पश्चाद्‌बधिरा तथाऽन्या ।
पतिर्दरिद्रस्त्वथ साऽपि मुग्धा, नदीगता रोदिति तत्र नित्यम् ॥७१॥

गता कदाचित्कलशं गृहीत्वा, साऽन्तर्जलं स्नातुमथ प्रविष्टा ।
यावद्‌द्विजोऽसौ पुनरेव तावज्जातः क्रियायोगरतः सुशीलः ॥७२॥

तस्याः स भर्ताऽथ चिरं गतेति, द्रष्टुं जगामाथ नदीं सुपुण्याम् ।
ददर्श कुम्भं न च तां तटस्थां, ततोऽतिदुःखात्प्ररुरोद नादयन् ॥७३॥

ततोऽन्धयुग्मं बधिरा च कन्या, दुःखान्विताऽसौ समुपाजगाम ।
ते वै रुदन्तं पितरं च दृष्ट्वा, दुःखान्विता वै रुरुदुर्भृशार्ताः ॥७४॥

ततः स पप्रच्छ नदीतटस्थान्द्विजान्भवद्‌भिर्यदि योषिदेका ।
दृष्टा तु तोयार्थमुपाद्रवन्ती, आख्यात ते प्रोचुरिमां प्रविष्टा ॥७५॥

नदीं न भूयस्तु समुत्ततार, एतावदेवेह समीहितं नः ।
स तद्वचो घोरतरं निशम्य, रुरोद शोकाश्रुपरिप्लुताक्षः ॥७६॥

तं वै रुदन्तं ससुतं सकन्यं, दृष्ट्वाऽहमार्तः सुतरां बभूव ।
आर्तिश्च मेऽभूदथ संस्मृतिश्च, चाण्डोलयोषाऽहमिति क्षितिश ॥७७॥

ततोऽब्रवं तं नृपते मतङ्गं, किमर्थमार्तेन हि रुद्यते त्वया ।
तस्या न लाभो भविताऽतिमोर्ख्यादाक्रन्दितेनेह वृथा हि कं ते ॥७८॥

स मामुवाचाऽऽत्मजयुग्ममन्धं, कन्या चैका बधिरेयं तथैव ।
कथं द्विजाते अधुनाऽऽर्तमतमाश्वासयिष्येप्यथ पोषयिष्ये ॥७९॥

इत्येवमुक्त्वा स सुतैश्च सार्धं, फूत्कृत्य फूत्कृत्य च रोदिति स्म ।
यथा यथा रोदिति स श्वापाकस्तथा तथा मे ह्मभवत्कृताऽपि ॥८०॥

ततोऽहमार्तं तु निवार्यं तं वै, स्ववंशवृत्तान्तमथाऽऽकृताऽपि ।
ततः स दुःखात्सह पुत्रैकः संविवेश कोकामुकमार्तरूपः ॥८१॥

प्रविष्टमात्रे सलिले मतङ्गस्तीर्थप्रभावाच्च विमुक्तपापः ।
विमानमारुह्य शशिप्रकाशं, ययौ दिवं तात ममोपपश्यतः ॥८२॥

तत्मिन्प्रविष्टे सलिले मृते च, ममार्तिरासीदतिमोहकर्त्री ।
ततोऽतिपुण्ये नृपवर्य कोकाजले प्रविष्टस्त्रिदिवं गतश्च ॥८३॥

भूयोऽभवं वैश्यकुले व्याथार्तो, जातिस्मरस्तीर्थवरप्रसादात् ।
ततोऽतिनिर्विण्णमना गतोऽहं, कोकामुखं संयतवाक्यचित्तः ॥८४॥

व्रतं समास्थाय कलेवरं स्वं, संशोषयित्वा दिवमारुरोह ।
तस्माच्च्युतस्त्वद्भवने च जातो, जातिस्मरस्तात हरिप्रसादात् ॥८५॥

सोऽहं समाराध्य मुरारिदेवं, कोकामुखे त्यक्तशुभशुभेच्छः ।
इत्येवमुक्त्वा पितरं प्रणम्य, गत्वा च कोकामुखमग्रतीर्थम् ।
विष्णुं समाराध्य वराहरूपमवाप सिद्धिं मनुर्षभोऽसौ ॥८६॥

इत्थं स कामदमनः सहपुत्रपौत्रः, कोकामुखे तीर्थवरे सुपुण्ये ।
त्यक्त्वा तनुं दोषमयीं ततस्तु, गतो दिवं सूर्यसमैर्विमानैः ॥८७॥

एवं मयोक्ता परमेश्वरस्य, माया सुराणामपि दुर्विचिन्त्या ।
स्वप्नेन्द्रजालप्रतिमा मुरारेर्यया जगन्मोहमुपैति विप्राः ॥८८॥

इति श्रीमहापुराणे आदिब्राह्मे विष्णुधर्मानुकीर्तने मायाप्रादुर्भावनिरूपणं नामैकोनत्रिंशदधिकद्विशततमोऽध्यायः ॥२२९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:46.2870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

memorialist

  • सा. विज्ञापक 
RANDOM WORD

Did you know?

ADHYAY 43 OF GURUCHARITRA IS WRONGLY PRINTED AND ADHYAY 47 AND 48 ARE SAME KINDLY CHANGE or make correction for it
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.