TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १७८

ब्रह्मपुराणम् - अध्यायः १७८

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १७८
कण्डुचरित्रवर्णनम्
व्यास उवाच
तस्मिन्क्षेत्रे मुनिश्रेष्ठाः सर्वसत्त्वसुखावहे ।
धर्मार्थकाममोक्षाणां फलदे पुरुषोत्तमे ॥१॥

कण्डुर्नाम महातेजा ऋषिः परमधार्मिकः ।
सत्यवादी शुचिर्दान्तः सर्वभूतहिते रतः ॥२॥

जितेन्द्रियो जितक्रोधो वेदवेदाङ्गपारगः ।
अवाप परमां सिद्धिमाराध्य पुरुषोत्तमम् ॥३॥

अन्येऽपि तत्र संसिद्धा मुनयः संशितव्रताः ।
सर्वभूतहिता दान्ता जितक्रोधा विमत्सराः ॥४॥

मुनय ऊचुः
कौऽसौ कण्डुः कथं तत्र जगाम परमां गतिम् ।
श्रोतुमिच्छामहे तस्य चरितं ब्रूहि सत्तम ॥५॥

व्यास उवाच
शृणुध्वं मुनिशार्दूलाः कथां तस्य मनोहराम् ।
प्रवक्ष्यामि समासेन मुनेस्तस्य विचेष्टितम् ॥६॥

पवित्रे गौतमीतीरे विजने सुमनोहरे ।
कन्दमूलपलैः पूर्णे समित्पुष्पकुशान्वितैः ॥७॥

नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते ।
नानापक्षिरुते रम्ये नानामृगगणान्विते ॥८॥

तत्राऽऽश्रमपदं कण्डोर्बभूव मुनिसत्तमाः ।
सर्वर्तुफलपुष्पाढ्यं कदलीखण्डमण्डितम् ॥९॥

तपस्तेपे मुनिस्तत्र सुमहत्परमाद्‌भुतम् ।
व्रतोपवासैर्नियमैः स्नानमौनसुसंयमैः ॥१०॥

ग्रीष्मे पञ्चतपा भूत्वा वर्षासु स्थण्डिलेशयः ।
आर्द्रवासास्तु हेमन्ते स तेपे सुमहत्तपः ॥११॥

दृष्ट्वा तु तपसो वीर्यं मुनेस्तस्य सुविस्मिताः ।
बभूवुर्देवगन्धर्वाः सिद्धविद्याधरास्तथा ॥१२॥

भूमिं तथाऽन्तरिक्षं च दिवं च मुनिसत्तमाः ।
कण्डुः संतापयामास त्रैलोक्यं तपसो बलात् ॥१३॥

अहोऽस्य परमं धैर्यमहोऽस्य परमं तपः ।
इत्यब्रुवंस्तदा दृष्ट्वा देवास्तं तपसि स्थितम् ॥१४॥

मन्त्रयामासुरव्याग्राः शक्रेण सहितास्तदा ।
भयात्तस्य समुद्विग्नास्तपोविघ्नमभीप्सवः ॥१५॥

ज्ञात्वा तेषाभिप्रायं शक्रस्त्रिभुवनेश्वरः ।
प्रम्लोचाख्यां वरारोहां रूपयौवनगर्विताम् ॥१६॥

सुमध्यां चारुजङ्घां तां पीनश्रोणिपयोधराम् ।
सर्वलक्षणसंपन्नां प्रोवाच फलसूदनः ॥१७॥

शक्र उवाच
प्रम्लोचे गच्छ शीघ्रं त्वं यदाऽसौ तप्यते मुनिः ।
विघ्नार्थं तस्य तपसः क्षोभयस्वां(स्वाऽऽ)शु सुप्रभे ॥१८॥

प्रम्लोचोवाच
तव वाक्यं सुरश्रेष्ठ करोमि सततं प्रभो ।
किंतु शङ्का ममैवात्र जीवितस्य च संशयः ॥१९॥

बिभेमि तं मुनिवरं ब्रह्मचर्यव्रते स्थितम् ।
अत्युग्रं दीप्ततपसं ज्वलनार्कसमप्रभम् ॥२०॥

ज्ञात्वा मां स मुनिः क्रोधाद्विघ्नार्थं समुपागताम् ।
कण्डुः परमतेजस्वी शापं दास्यति दुःसहम् ॥२१॥

उर्वशी मेनका रम्भा घृताची पुञ्जिकस्थला ।
विश्वाची सहजन्या च पूर्वचित्तिस्तिलोत्तमा ॥२२॥

अलम्बुषा मिश्रकेशी शशिलेखा च वामना ।
अन्याश्चाप्सरसः सन्ति रूपयौवनगर्विताः ॥२३॥

सुमध्याश्चारुवदनाः पीनोन्नतपयोधराः ।
कामप्रधानकुशलास्तास्तत्र संनियोजय ॥२४॥

ब्रह्मोवाच
तस्यास्तद्वचनं श्रुत्वा पुनः प्राह शचीपतिः ।
तिष्ठन्तु नाम चान्यास्तास्त्वं चात्र कुशला शुभे ॥२५॥

कामं वसन्तं वायुं च सहायार्थे ददामि ते ।
तैः सार्धं गच्छ सुश्रोणि यत्राऽऽस्ते स महामुनिः ॥२६॥

शक्रस्य वचनं श्रुत्वा तदा सा चारुलोचना ।
जगामाऽऽकाशमार्गेण तैः सार्धं चाऽऽश्रमं मुनेः ॥२७॥

गत्वा सा तत्र रुचिरं ददर्श वनमुत्तमम् ।
मुनिं च दीप्ततपसमाश्रमस्थमकल्मषम् ॥२८॥

अपश्यत्सा वनं रम्यं तैः सार्धं नन्दनोपमम् ।
सर्वर्तुवरपुष्पाढ्यं शाखामृगगणाकुलम् ॥२९॥

पुण्यं पद्‌मबलोपेतं सपल्लवमहाबलम् ।
श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान् ॥३०॥

सर्वर्तुफलभाराढ्यान्सर्वर्तुकुसुमज्ज्वलान् ।
अपश्यत्पादपांश्चैव विहङ्गैरनुनादितान् ॥३१॥

आम्रानाम्रातकान्भव्यान्नारिकेरान्सतिन्दुकान् ।
अथ बिल्वांस्तथाजीवान्दाडिमान्बीजपूरकान् ॥३२॥

पनसांल्लकुचान्नीपाञ्शिरीषान्सुमनोहरान् ।
पारावतांस्तथा कोलानरिमेदाम्लवेतसान् ॥३३॥

भल्लातकानामलकाञ्शतपर्णांश्च किशुकान् ।
इङ्गुदान्करवीरांश्च हरीतकीविभीतकान् ॥३४॥

एतानन्यांश्च सा वृक्षान्ददर्श पृथुलोचना ।
तथैवाशोकपुन्नागकेतकीबकुलानथ ॥३५॥

पारिजातान्कोविदारान्मन्दारेन्दीवरांस्तथा ।
पाटलाः पुष्पिता रम्या देवदारुद्रुमास्तथा ॥३६॥

शालांस्तालांस्तमालांश्च निचुलाँल्लोमकांस्तथा ।
अन्यांश्च पादपश्रेष्ठानपश्यत्फलपुष्पितान् ॥३७॥

चकोरैः शतपत्रैश्च भृङ्गराजैस्तथा शुकैः ।
कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः ॥३८॥

प्रियपुत्रैश्चातकैश्च तथाऽन्यैर्विविधैः खगैः ।
श्रोत्ररम्यं सुमधुरं कूजद्‌भिश्चाप्यधिष्ठितम् ॥३९॥

सरांसि च मनोज्ञानि प्रसन्नसलिलानि च ।
कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः ॥४०॥

कह्लारैः कमलैश्चैव आचितानि समन्ततः ।
कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥४१॥

कारण्डवैर्बकैर्हसैः कूर्मैर्मद्‌गुभिरेव च ।
एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः ॥४२॥

क्रमेणैव तथा सा तु वनं बभ्राम तैः सह ।
एवं दृष्ट्वा वनं रम्यं तैः सार्धं परमाद्‌भुतम् ॥४३॥

विस्मयोत्फुल्लनयना सा बभूव वराङ्गना ।
प्रोवाच वायुं कामं च वसन्तं च द्विजोत्तमाः ॥४४॥

प्रम्लोचोवाच
कुरुध्वं मम साहाय्यं यूयं सर्वे पृथक्पृथक् ॥४५॥

ब्रह्मोवाच
एवमुक्त्वा तदा सा तु तथेत्युक्ता सुरैर्द्विजाः ।
प्रत्युवाचाद्य यास्यामि यत्रासौ संस्थितो मुनिः ॥४६॥

अद्य तं देहयन्तारं प्रयुक्तेन्द्रियवाजिनम् ।
स्मरशस्त्रगलद्रश्मिं करिष्यामि कुसारथिम् ॥४७॥

ब्रह्मा जनार्दनोवाऽपि यदि वा नीललोहितः ।
तथाऽऽप्यद्य करिष्यामि कामबाणक्षतान्तरम् ॥४८॥

इत्युक्त्वा प्रययौ साऽथ यत्रासौ तिष्ठते मुनिः ।
मुनेस्तपःप्रभावेण प्रशान्तश्वापदाश्रमम् ॥४९॥

सा पुंस्कोकिलमाधुर्ये नदीतीरे व्यवस्थिता ।
स्तोकमात्रं स्थिता तस्मादगायत वराऽप्सराः ॥५०॥

ततो वसन्तः सहसा बलं समकरोत्तदा ।
कोकिलारावमधुरमकालिकमनोहरम् ॥५१॥

ववौ गन्धवहश्चैव मलयाद्रिनिकेतनः ।
पुष्पानुच्चावचान्मेध्यान्पातयंश्च शनैः शनैः ॥५२॥

पुष्पबाणधरश्चैव गत्वा तस्य समीपतः ।
मुनेश्च क्षोभयामास कामस्तस्यापि मानसम् ॥५३॥

ततो गीतध्वनिं श्रुत्वा मुनिर्विस्मितमानसः ।
जगाम यत्र सा सुभ्रः कामबाणप्रपीडितः ॥५४॥

दृष्ट्वा तामाह संदृष्टो विस्मयोत्फुल्ललोचनः ।
भ्रष्टोत्तरीयो विकलः पुलकाञ्चितविग्रहः ॥५५॥

ऋषिरुवाच
काऽसि कस्यासि सुश्रोयणि सुभगे चारुहासिनि ।
मनो हरसि मे सुभ्रु ब्रूहि सत्यं सुमध्यमे ॥५६॥

प्रम्लोचोवाच
तव कर्मकरा चाहं पुष्पार्थमहमागता ।
आदेशं देहि मे क्षिप्रं किं करोमि तवाऽऽज्ञया ॥५७॥

व्यास उवाच
श्रुत्वैवं वचनं तस्यास्त्यक्त्वा धैर्यं विमोहितः ।
आदाय हस्ते तां बालां प्रविवेश स्वमाश्रमम् ॥५८॥

ततः कामश्च वायुश्च वसन्तश्च द्विजोत्तमाः ।
जग्मुर्यथागतं सर्वे कृतकृत्यास्त्रिविष्टपम् ॥५९॥

शशंसुश्च हिरं गत्वा तस्यास्तस्य च चेष्टितम् ।
श्रुत्वा शक्रस्तदा देवाः प्रीताः सुमनसोऽभवन् ॥६०॥

स च कण्डुस्तया सार्धं प्रविशन्नेव चाऽऽश्रमम् ।
आत्मनः परमं रूपं चकार मदनाकति ॥६१॥

रूपयौवनसंपन्नमतीव सुमनोहरम् ।
दिव्यालंकारसंयुक्तं षोडशवत्सराकृति ॥६२॥

दिव्यवस्त्रधरं कान्तं दिव्यस्रग्गन्धभूषितम् ।
सर्वोपभोगसंपन्नं सहसा तपसो बलात् ॥६३॥

दृष्ट्वा सा तस्य तद्वीर्यं परं विस्मयमागता ।
अहोऽस्य तपसो वीर्यमित्युक्त्वा मुदिताऽभव्त ॥६४॥

स्नानं संध्यां जपं तद्वीर्यं परं विस्मयमागता ।
अहोऽस्य तपसो वीर्यमित्युक्त्वा मुदिताऽभवत् ॥६५॥

त्यक्त्वा स रेमे मुदितस्तया सार्धमहर्निशम् ।
मन्मताविष्टहृदयो न बुबोध तपःक्षयम् ॥६६॥

संध्यारात्रिदिवापक्षमासर्त्वयनहायनम् ।
न बुबोध गतं कालं विषयासक्तमानसः ॥६७॥

सा च तं कामजैर्भावैर्विदग्धा रहसि द्विजाः ।
वरयामास सुश्रोणिः प्रलापकुशला तदा ॥६८॥

एवं कण्डुस्तया सार्धं वर्षाणामधिकं शतम् ।
अतिष्ठन्मन्दरद्रोण्यां ग्राम्यधर्मरतो मुनिः ॥६९॥

सा तं प्राह महाभागं गन्तुमिच्छाम्यहं दिवम् ।
प्रसादसुमुखो ब्रह्मन्ननुज्ञातुं त्वमर्हसि ॥७०॥

तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः ।
दिनानि कतिचिद्भद्रे स्थीयतामित्यभाषत ॥७१॥

एवमुक्ता ततस्तेन साग्रं वर्षशतं पुनः ।
बुभुजे विषयांस्तन्वी तेन सार्धं महात्मना ॥७२॥

अनुज्ञां देहि भगवन्व्रजामि त्रिदशालयम् ।
उक्तस्तयेति स पुनः स्थीयतामित्यभाषत ॥७३॥

पुनर्गते वर्षशते साधिके सा शुभानना ।
याम्यहं त्रिदिवं ब्रह्मन्प्रणयस्मितशोभनम् ॥७४॥

उक्तस्तयैवं स मुनिः पुनराहाऽऽयतेक्षणाम् ।
इहाऽऽस्यातं मया सुभ्रु चिरं कालं गमिष्यसि ॥७५॥

तच्छापभीता सुश्रोणी सह तेनर्षिणा पुनः ।
शतद्वयं किंचिदूनं वर्षाणां समतिष्ठत ॥७६॥

गमनाय महाभागो देवराजनिवेशनम् ।
प्रोक्तः प्रोक्तस्तया तन्व्या स्थीयतामित्यभाषत ॥७७॥

तस्य शापभयाद्भीरुर्दाक्षिण्येन च दक्षिणा ।
प्रोक्ता प्रणयभङ्गार्तिवेदिनी न जहौ मुनिम् ॥७८॥

तया च रमतस्तस्य परमर्षेरहर्निशम् ।
नवं नवमभूत्प्रेम मन्मथासक्तचेतसः ॥७९॥

एकदा तु त्वरायुक्तो निश्चक्रामोटजान्मुनिः ।
निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा ॥८०॥

इत्युक्तः स तया प्राह परिवृत्तमहः शुभे ।
संध्योपास्ति करिष्यामि क्रियालोपोऽन्यथा भवेत् ॥८१॥

ततः प्रहस्य मुदिता सा तं प्राह महामुनिम् ।
किमद्य सर्वधर्मज्ञ परिवृत्तमहस्तव ॥
गतमेतन्न कुरुते विस्मयं कस्य कथ्यते ॥८२॥

मुनिरुवाच
प्रातस्त्वमागता भद्रे नदीतीरमिदं शुभम् ।
मया दृष्टाऽसि सुश्रोणि प्रविष्ट च ममाऽऽश्रमम् ॥८३॥

इयं च वर्तते संध्या परिणाममहो गतम् ।
अवहासः किमर्थोऽयं सद्भावं कथ्यतां मम ॥८४॥

प्रम्लोचोवाच
प्रत्यूषस्यागता ब्रह्मन्सत्यमेतन्न मे मृषा ।
किं त्वद्य तस्य कालस्य गतान्यब्दशतानि ते ॥८५॥

ततः ससाध्वसो विप्रस्तां पप्रच्छाऽऽयतेक्षणाम् ।
कथ्यतां भीरु कः कालस्त्वया मे रमतः सदा ॥८६॥

प्रम्लोचोवाच
सप्तोत्तराण्यतीतानि नववर्षशतानि च ।
मासाश्च षट्‌तथैवान्यत्समतीतं दिनत्रयम् ॥८७॥

ऋषिरुवाच
सत्यं भीरु वदस्येतत्परिहासोऽथवा शुभे ।
दिनमेकमहं मन्ये त्वया सार्धमिहोषितम् ॥८८॥

प्रम्लोचोवाच
वदिष्याम्यनृतं ब्रह्मन्कथमत्र तवान्तिके ।
विशेषादद्य भवता पृष्टा मार्गानुगामिना ॥८९॥

व्यास उवाच
निशम्य तद्वचस्तस्याः स मुनिर्द्विजसत्तमाः ।
धिग्धिङ्मामित्यनाचारं विनिन्द्याऽऽत्मानमात्मना ॥९०॥

तपांसि मम नष्टानि हतं ब्रह्मविदां धनम् ।
हृतो विवेकः केनापि योषिन्मोहाय निर्मिता ॥९१॥

ऊर्मिषट्कातिगं ब्रह्म ज्ञेयमात्मजयेन मे ।
गतिरेषा कृता येन धिक्तं काममहाग्रहम् ॥९२॥

व्रतानि सर्ववेदाश्च कारणान्यखिलानि च ।
नरकग्राममार्गेण कामेनाद्य हतानि मे ॥९३॥

विनिन्द्येत्थं स धर्मज्ञः स्वरयमात्मानमात्मना ।
तामप्सरसमासीनामिदं वचनमब्रवीत् ॥९४॥

ऋषिरुवाच
गच्छ पापे यथाकामं यत्कार्यं तत्त्वा कृतम् ।
देवराजस्य यत्क्षोभं कुर्वन्त्या भावचेष्टितैः ॥९५॥

न त्वां करोम्यहं भस्म क्रोधतीव्रेण वह्निना ।
सतां साप्तपदं मैत्र्यमुषितोऽहं त्वया सह ॥९६॥

अथवा तव दोषः कः किंवा कुर्यामहं तव ।
ममैव दोषो नितरां येनाहमर्जितेन्द्रिययः ॥९७॥

यथा शक्रप्रियार्थिन्या कृतो मत्तपसो व्ययः ।
त्वया दृष्टिमहामोहमनुनाऽहं जुगुप्सितः ॥९८॥

व्यास उवाच
यावदित्थं स विप्रर्षिस्तां व्रवीति सुमध्यमाम् ।
तावत्स्खलत्‌वेदजला सा बभूवातिवेपथुः ॥९९॥

प्रवेपमानां स च तां स्विन्नगात्रलतां सतीम् ।
गच्छ गच्छेति सक्रोधमुवाच मुनिसत्तमः ॥१००॥

सा तु निर्भर्त्सिता तेन विनिष्क्रम्य तदाश्रमात् ।
आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः ॥१०१॥

वृक्षाद्धृक्षं ययौ बाला उदग्रारुणपल्लवैः ।
निर्ममार्ज च गात्राणि गलत्स्वेदजलानि वै ॥१०२॥

ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः ।
निर्जगाम सरोमाञ्चस्वेदरूपी तदङ्गतः ॥१०३॥

तं वृक्षा जगृहुर्गर्भमेकं चक्रे च मारुतः ।
सोमेनाऽऽप्यायितो गोभिः स तदा ववृधे शनैः ॥१०४॥

मारिषा नाम कन्याऽभूद्धृक्षाणां चारुलोचना ।
प्राचेतसानां सा भार्या दक्षस्य जननी द्विजाः ॥१०५॥

स चापि भगवान्कण्डुः क्षीणे तपसि सत्तमः ।
पुरुषोत्तमाख्यं भो विप्रा विष्णोरायतनं ययौ ॥१०६॥

ददर्श परमं क्षेत्रं मुक्तिदं भुव दुर्लभम् ।
दक्षिणस्योदधेस्तीरे सर्वकामफलप्रदम् ॥१०७॥

सुरम्यं वालुकाकीर्णं केतकीवनशोभितम् ।
नानाद्रुमलताकीर्णं नानापक्षिरुतं शिवम् ॥१०८॥

सर्वत्र सुखसंचारं सर्वर्तुकुसुमान्वितम् ।
सर्वसौख्यप्रदं नृणां धन्यं सर्वगुणाकरम् ॥१०९॥

भृगवाद्यैः सेवितं पूर्वं मुनिसिद्धवरैस्तथा ।
गन्धर्वैः किनरैर्यक्षैस्तथाऽन्यैर्मोक्षकाङ्क्षिभिः ॥११०॥

ददर्श च हरिं तत्र देवैः सर्वैरलंकृतम् ।
ब्राह्मणाद्यैस्तथा वर्णैराश्रमस्थैर्निषेवितम् ॥१११
दृष्ट्वैव स तदा क्षेत्रं देवं च पुरुषोत्तमम् ।
कृतकृत्यमिवाऽऽत्मानं मेने स मुनिसत्तमः ॥११२॥

तत्रैकाग्रमना भूत्वा चकाराऽऽराधनं हरेः ।
ब्रह्मपारमयं कुर्वञ्जपमेकाग्रमानसः ॥
ऊर्ध्वंबाहुर्महायोगी स्थित्वाऽसौ मुनिसत्तमः ॥११३॥

ब्रह्मपारं मुने श्रोतुमिच्छामः परमं शुभम् ।
जपता कण्डुना देवो येनाऽराध्यत केशवः ॥११४॥

व्यास उवाच
पारं परं विष्णुरपारपारः, परः परेभ्यः परमात्मरूपः ।
स ब्रह्मपारः परपारभूतः, परः पराणामपि पारपारः ॥११५॥

स कारणं पारणसंश्रितोऽपि, तस्यापि हेतुः परहेतुहेतुः ।
कार्योऽपि चैष सह कर्मकर्तृ...रूपैरनेकैरवतीह सर्वम् ॥११६॥

ब्रह्म प्रभुर्ब्रह्म स सर्वभूतो, ब्रह्म प्रजानां पतिरच्युतोऽसौ ।
ब्रह्माव्ययं नित्यमजं स विष्णुरपक्षयाद्यैरखिलैरसङ्गः ॥११७॥

ब्रह्माक्षरमजं नित्यं यथाऽसौ पुरुषोत्तमः ।
तथा रागादयो दोषाः प्रयान्तु प्रशमं मम ॥११८॥

व्यास उवाच
श्रुत्वा तस्य मुनेर्जप्यं ब्रह्मपारं द्विजोत्तमाः ।
भक्तिं च परमां ज्ञात्वा सुदृढां पुरुषोत्तमः ॥११९॥

प्रीत्या स परया देवस्तदाऽसौ भक्तवत्सलः ।
गत्वा तस्य समीपं तु प्रोवाच मधुसूदनः ॥१२०॥

मेघगम्भीरया वाचा दिशः संनादयन्निव ।
आरुह्य गरुडं विप्रा विनताकुलनन्दनम् ॥१२१॥

श्रीभगवानुवाच
मुने ब्रूहि परं कार्यं यत्ते मनसि वर्तते ।
वरदोऽहमनुप्राप्तो वरं वरय सुव्रत ॥१२२॥

श्रुत्वैवं वचनं तस्य देवदेवस्य चक्रिणः ।
चक्षुरुन्मील्य सहसा ददर्श पुरतो हरिम् ॥१२३॥

अतसीपुष्पसंकाशं पद्‌मपत्रायतेक्षणम् ।
शङ्खचक्रगदापाणिं मुकुटाङ्गदधारिणम् ॥१२४॥

चतुर्बाहुमुदाराङ्गं पीतवस्त्रधरं शुभम् ।
श्रीवत्सलक्ष्मसंयुक्तं वनमालाविभूषितम् ॥१२५॥

सर्वलक्षणसंयुक्तं सर्वरत्नविभूषितम् ।
दिव्यचन्दनलिप्ताङ्गं दिव्यमाल्यविभूषितम् ॥१२६॥

ततः स विस्मयाविष्टो रोमाञ्चिततूरुहः ।
दण्डवत्प्रणिपत्योर्व्यां प्रणाममकरोत्तदा ॥१२७॥

अद्य मे सफलं जन्म अद्य मे सफलं तपः ।
इत्युक्त्वा मुनिशार्दूलास्तं स्तोतुमुपचक्रमे ॥१२८॥

कण्डुरुवाच
नारायण हरे कृष्म श्रीवत्साङ्क जगत्पते ।
जगद्‌बीज जगद्धाम जगत्साक्षिन्नमोऽस्तु ते ॥१२९॥

अव्यक्त जिष्णो प्रभव प्रधानपुरुषोत्तम ।
पुण्डरीकाक्ष गोविन्द लोकनाथ नमोऽस्तु ते ॥१३०॥

हिरण्यगर्भ श्रीनाथ पद्मनाथ सनातन ।
भूगर्भ घ्रुव ईशान हृषीकेश नमोऽस्तु ते ॥१३१॥

अनाद्यन्तामृताजेय जय त्वं जयतां वर ।
अजिताखण्ड श्रीकृष्ण श्रीनिवास नमोऽस्तु ते ॥१३२॥

पर्जन्यधर्मकर्ता च दुष्पार दुरधिष्ठित ।
दुःखार्तिनाशन हरे जलशायिन्नमोऽस्तु ते ॥१३३॥

भूतपाव्यक्त भूतेश भूततत्त्वैरनाकुल ।
भूताधिवास भूतात्मन्भूतगर्भ नमोऽस्तु ते ॥१३४॥

यज्ञ यज्वन्यज्ञधर यज्ञधाताऽभयप्रद ।
यज्ञगर्भ हिरण्याङ्ग पृश्निगर्भ नमोऽस्तु ते ॥१३५॥

क्षेत्रज्ञ क्षेत्रभृत्क्षेत्री क्षेत्रहा क्षेत्रकृद्वशी ।
क्षेत्रात्मन्क्षेत्ररहित क्षेत्रस्रष्ट्रे नमोऽस्तु ते ॥१३६॥
गुणालय गुणावास गुणाश्रय गुणावह ।
गुणभोक्तृ गुणाराम गुमत्यागिन्नमोऽस्तु ते ॥१३७॥

त्वं विष्णुस्त्वं हरिश्चक्री त्वं जिष्णुस्त्वं जनार्दनः ।
त्वं बूतस्त्वं वषट्कारस्त्वं भव्यस्त्वं भवत्प्रभुः ॥१३८॥

त्वं भूतकृत्तवमव्यक्तस्त्वं भवो भूतभृद्भवान् ।
त्वं बूतभावनो देवस्त्वामाहुरजमीश्वरम् ॥१३९॥

त्वमनन्तः कृतज्ञस्त्वं प्रकृतिस्त्वं वृषाकपिः ।
त्वं रुद्रस्त्वं दुराधर्षस्त्वममोघस्त्वमीश्वरः ॥१४०॥

त्वं विश्वकर्मा जिष्णुस्त्वं त्वं शंभुस्त्वं वृषाकृतिः ।
त्वं शंकरस्त्वमुशना त्वं सत्यं त्वं तपो जनः ॥१४१॥

त्वमादित्यस्त्वमोंक्रस्त्वं प्राणस्त्वं तमिस्रहा ।
त्वं पर्जन्यस्त्वं प्रथितस्त्वं त्वं ज्येष्ठस्त्वं परायणः ॥१४२॥

त्वमादित्यस्त्वमोंकारस्त्वं प्राणस्त्वं तमिस्रहा ।
त्वं पर्जन्यस्त्वं प्रथितस्त्वं वेधास्त्वं सुरेश्वरः ॥१४३॥

त्वमृग्यजुः सामचैव त्वमात्मा संमतो भवान् ।
त्वमग्निस्त्वं च पवनस्त्वमापो वसुधा भवान् ॥१४४॥

त्वं स्रष्टा त्वं तथा भोक्ता होता त्वं च हविः क्रतुः ।
त्वं प्रभुस्त्वं विभुः श्रेष्ठस्त्वं लोकपतिरच्युतः ॥१४५॥

त्वं सर्वदर्शनः श्रीमांस्त्वं सर्वदमनोऽरिहा ।
त्वमहास्त्वं तथारात्रिस्त्वामाहुर्वत्सरं बुधाः ॥१४६॥

त्वं कालस्त्वं कला काष्ठा त्वं मुहूर्तः क्षणालवाः ।
त्वं बालस्त्वं तथा वृद्धस्त्वं पुमान्स्त्री नपुंसकः ॥१४७॥

त्वं विश्वयोनिस्त्वं चक्षुस्त्वं वेदाङ्गं त्वमव्ययः ।
त्वं वेदवेदस्त्वं धाता विधाता त्वं समाहितः ॥१४८॥

त्वं जलनिधिरामूलं त्वं धाता त्वं पुनर्वसुः ।
त्वं वैद्यस्त्वं धृतात्मा च त्वमतीन्द्रियगोचरः ॥१४९॥

त्वमग्रणीर्ग्रामणीस्त्वं त्वं सुपर्णस्त्वमादिमान् ।
त्वं संग्रहस्त्वं सुमहत्त्वं धृतात्मा त्वमच्युतः ॥१५०॥

त्वं यमस्त्वं च नियमस्त्व प्रांशुस्त्वं चतुर्भुजः ।
त्वमेवान्नान्तरात्मा त्वं परमात्मा त्वमुच्यते ॥१५१॥

त्वं गुरुस्त्वं गुरुतम्स्त्वं वामस्त्वं प्रदक्षिणः ।
त्वं पिप्पलस्त्वमगमस्त्वं व्यक्तस्त्वं प्रजापतिः ॥१५२॥

हिरण्यनाभस्त्वं देवस्त्वं शशी त्वं प्रजापतिः ।
अनिर्देश्यवपुस्त्वं वै त्वं यमस्त्वं सुरारिहा ॥१५३॥

त्वं च संकर्षणो देवस्त्वं शशी त्वं प्रजापतिः ।
त्वं वासुदेवोऽमेयात्मा त्वमेव गुणवर्जितः ॥१५४॥

त्वं ज्येष्ठस्त्वं वरिष्ठस्त्वं त्वं सहिष्णुश्च माधवः ।
सहस्रशीर्षा त्वं देवस्त्वमव्यक्तः सहस्रदृक् ॥१५५॥

सहस्रपादस्त्वं देवस्त्वं विराट्त्वं सुरप्रभुः ।
त्वमेव तिष्ठसे भूयो देवदेव दशाङ्गुलः ॥१५६॥

यद्भूतं तत्त्वमेवोक्तः पुरुषः शक्त उत्तमः ।
यद्‌भाव्यं तत्तवमीशानस्त्वमृतस्त्वं तथाऽमृतः ॥१५७॥

त्वत्तो रोहत्ययं लोको महीयांस्त्वमनुत्तमः ।
त्वं ज्यायान्पुरुषस्त्वं च त्वं देव दशधा स्थितः ॥१५८॥

विश्वभूतश्चतुर्भागो नवभागोऽमृतो दिवि ।
नवभागोऽन्तरिक्षस्थः पौरुषेयः सनातनः ॥१५९॥

भागद्वयं य भूसंस्थं चतुर्भागोऽप्यभूदिह ।
त्वत्तो यज्ञाः संभवन्ति जगतो वृष्टिकारणम् ॥१६०॥

त्वत्तो विराट्समुत्पन्नो जगतो हृदि यः पुमान् ।
सोऽतिरिच्यत भूतेभ्यस्तेजसा यशसा श्रिया ॥१६१॥

त्वत्तः सुराणामाहारः पृषदाज्यमजायत ।
ग्राम्यारण्याश्चौषधयस्त्वत्तः पशुमृगादयः ॥१६२॥

ध्येयध्यानपरस्त्वं च कृतवानसि चौषधीः ।
त्वं देवदेव सप्तास्य कालाख्यो दीप्तविग्रहः ॥१६३ ॥
जङ्गमाजङ्गमं सर्वं जगदेतच्चराचरम् ।
त्वत्तः सर्वमिदं जातं त्वयि सर्वं प्रतिष्ठितम् ॥१६४॥

अनिरुद्धस्त्वं माधवस्त्वं प्रद्युम्नः सुरारिहा ।
देव सर्वसुरश्रेष्ठ सर्वलोकपरायण ॥१६५॥

त्राहि मामरविन्दाक्ष नारायण नमोऽस्तु ते ।
नमस्ते भगवन्विष्णो नमस्ते पुरुषोत्तम ॥१६६॥

नमस्ते सर्वलोकेश नमस्ते कमलालाय ।
गुणालय नमस्तेऽस्तु नमस्तेऽस्तु गुणाकर ॥१६७॥

वासुदेव नमस्तेऽस्तु नमस्तेऽस्तु सुरोत्तम ।
जनार्दन नमस्तेऽस्तु नमस्तेऽस्तु सनातन ॥१६८॥

नमस्ते योगिनां गम्य योगावास नमोऽस्तु ते ।
गोपते श्रीपते विष्णो नमस्तेऽस्तु मरुत्पते ॥१६९॥

जगत्पते जगत्सूते नमस्ते ज्ञानिनां पते ।
दिवस्पते नमस्तेऽस्तु नमस्तेऽस्तु महीपते ॥१७०॥

नमस्ते मधुहन्त्रे च नमस्ते पुष्करेक्षण ।
कैटबघ्न नमस्तेऽस्तु सुब्रह्मण्य नमोऽस्तु ते ॥१७१॥

नमोऽस्तु ते महामीन श्रुतिपृष्ठधराच्युत ।
समुद्रसलिलक्षोभ पद्मजाह्लादकारिणे ॥१७२॥

अश्वशीर्षं महाघोण महापुरुषविग्रह ।
मधुकैटभहन्त्रे च नमस्ते तुरगानन ॥१७३॥

महाकमठभोगाय पृथिव्युद्धरणाय च ।
विधृताद्रिस्वरूपाय महाकूर्माय ते नमः ॥१७४॥

नमो महावराहाय पृथिव्युद्धारकारिणे ।
नमश्चाऽऽदिवराहाय विश्वरूपाय वेधसे ॥१७५॥

नमोऽनन्ताय सूक्ष्माय मुख्याय च वराय च ।
परमाणुस्वरूपाय योगिगम्याय ते नमः ॥१७६॥

तस्मै नमः कारणकारणाय, योगीन्द्रवृत्तनिलयाय सुदुर्विदाय ।
क्षीरार्णवाश्रितमहाहिसुतल्पगाय, तुभ्यं नमः कनकरत्नसुकुण्डलाय ॥१७७॥

व्यास उवाच
इत्थं स्तुतस्तदा तेन प्रीतः प्रोवाच माधवः ।
क्षिप्रं ब्रूहि मुनिश्रेष्ठ मत्तो यदभिवाञ्छसि ॥१७८॥

कण्डुरुवाच
संसारेऽस्मिञ्जगन्नाथ दुस्तरे लोमहर्षणे ।
अनित्ये दुःखबहुले कदलीदलसंनिभे ॥१७९॥

निराश्रये निरालम्बे जलबुद्‌बुदचञ्चले ।
सर्वोपद्रवसंयुक्ते दुस्तरे चातिभैरवे ॥१८०॥

भ्रमामि सुचिरं कालं मायया मोहितस्तव ।
न चान्तमभिगच्छामि विषयासक्तमानसः ॥१८१॥

त्वामहं चाद्य देवेश संसारभयपीडितः ।
गतोऽस्मि शरणं कृष्णमामुद्धर भवार्णवात् ॥१८२॥

गन्तुमिच्छामि परमं पदं यत्ते सनातनम् ।
प्रसादात्तव देवेश पुनरावृत्तिदुर्लभम् ॥१८३॥

श्रीभगवानुवाच
भक्तोऽसि मे मुनिश्रेष्ठ मामाराधय नित्यशः ।
मत्प्रसादाद्‌ध्रुवं मोक्षं प्राप्स्यसि त्वं समीहितम् ॥१८४॥

मद्‌भक्ताः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातिजाः ।
प्राप्तनुवन्ति परां सिद्धिं किं पुनस्त्वं द्विजोत्तम ॥१८५॥

श्वपाकोऽपि च मद्‌भक्तः सम्यक्श्रद्धासमन्वितः ।
प्राप्नोत्यभिमतां सिद्धिमन्येषां तत्र का कथा ॥१८६॥

व्यास उवाच
एवमुक्त्वा तु तं विप्राः स देवो भक्तवत्सलः ।
दुर्विज्ञेयगतिर्विष्णुस्तत्रैवान्तरधीयत ॥१८७॥

गते तस्मिन्मुनिश्रेष्ठाः कण्डुः संहृष्टमानसः ।
सर्वान्कामान्परित्यज्य स्वस्थचित्तोऽभवत्पुनः ॥१८८॥

सर्वेन्द्रियाणि संयम्य निर्ममो निरहंकृतिः ।
एकाग्रमानसः सम्यग्ध्यात्वा तं पुरुषोत्तमम् ॥१८९॥

निर्लेपं निर्गुणं शान्तं सत्तामात्रव्यवस्थितम् ।
अवाप परमं मोक्षं सुराणामपि दुर्लभम् ॥१९०॥

यः पठेच्छृणुयाद्वाऽपि कथां कण्डोर्महात्मनः ।
विमुक्तः सर्वपापेभ्यः स्वर्गलोकं स गच्छति ॥१९१॥

एवं मया मुनिश्रेष्ठाः कर्मभूमिरुदाहृता ।
मोक्षक्षेत्रं च परमं देवं च पुरुषोत्तमम् ॥१९२॥

ये पश्यनति विभुं स्तुवन्ति वरदं ध्यायन्ति मुक्तिप्रदं ।
भक्त्वा श्रीपुरुषोत्तमाख्याजरं संसारदुःखापहम् ॥१९३॥

ते भुक्त्वा मननुजेन्द्रभोगममलाः स्वर्गे च दिव्यं सुखं ।
पश्चाद्यान्ति समस्तदोषरहिताः स्थानं हरेरव्ययम् ॥१९४॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभूऋषिसंवादे कण्डोरुपाख्याननिरूपणं नामाष्टसप्तत्यधिकशततमोऽध्यायः ॥१७८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:43.6300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

capital transactions

  • भांडवली व्यवहार 
RANDOM WORD

Did you know?

"Maruti namaskar"
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.