TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २१३

ब्रह्मपुराणम् - अध्यायः २१३

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २१३
वराहावतारवर्णनम्
मुनय ऊचुः
अहो कृष्णस्य माहात्म्यमद्‌भुतं चातिमानुषम् ।
रामस्य च मुनिश्रेष्ठ त्वयोक्तं भुवि दुर्लभम् ॥१॥

न तृप्तिमधिगच्छामः श्रृण्वन्तो भगवत्कथाम् ।
तस्माद्‌ब्रूहि महाभाग भूयो देवस्य चेष्टितम् ॥२॥

प्रादुर्भावः पुराणेषु विष्णोरमिततेजसः ।
सतां कथयतामेष वराह इति नः श्रुतम् ॥३॥

न जानीमोऽस्य चरितं न विधिं च च विस्तरम् ।
न कर्मगुणसद्भावं न हेतुत्वमनीषितम् ॥४॥

किमात्मको वराहोऽसौ का मूर्तिः का च देवता ।
किमाचारप्रभावो वा किंवा तेन तदा कृतम् ॥५॥

यज्ञार्थे समवेतानां मिषतां च द्विजन्मनाम् ।
महावराहचरितं सर्वलोकसुखावहम् ॥६॥

यथा नारायणो ब्रह्मन्वाराहं रूपमास्थितः ।
दंष्ट्रया गां समुद्रस्थमुज्जहारारिमर्दनः ॥७॥

विस्तरेणैव कर्माणि सर्वाणि रिपुघातिनः ।
श्रोतुं नो वर्तते बुद्धिर्हरेः कृष्णस्य धीमतः ॥८॥

कर्मणामानुपूर्व्या च प्रादुर्भावाश्च ये विभोः ।
या वाऽस्य प्रकृतिर्ब्रह्मंस्ताश्चाऽऽख्यातुं त्वमर्हसि ॥९॥

व्यास उवाच
प्रश्नभारो महानेष भविद्भिः समुदाहृतः ।
यथाशक्त्या तु वक्ष्यामि श्रुयतां वैष्णवं यशः ॥१०॥

विष्णोः प्रभावश्रवणे दिष्ट्या वो मतिरुत्थिता ।
तस्माद्विष्णोः समस्ता वै शृणुध्वं या प्रवृत्तयः ॥११॥

सहस्रास्यं सहस्राक्षं सहस्रचरणं च यम् ।
सहस्रशिरसं देवं सहस्रकरमव्ययम् ॥१२॥

सहस्रजिह्‌वं भास्वन्तं सहस्रमुकुटं प्रभुम् ।
सहस्रदं सहस्रादिं सहस्रभुजमव्ययम् ॥१३॥

हवनं सवनं चैव होतारं हव्यमेव च ।
पात्राणि च पवित्राणि वेदिं दीक्षां समित्स्रुवम् ॥१४॥

स्रुक्सोमसूर्यमुशलं प्रोक्षणीं दक्षिणायनम् ।
अध्वर्युं सामगं विप्रं सदस्यं सदनं सदः ॥१५॥

?Bयूपं चक्रं ध्रुवां दर्वीं चरुंश्चोलूखलानि च ।
प्राग्वंशं यज्ञभूमीं च होतारं च परं च यत् ॥१६॥

हस्वाण्यतिप्रमाणानि स्थावराणि चराणि च ।
प्रायश्चित्तानि वाऽर्घ्यं च स्थाण्डिलानि कुशास्तथा ॥१७॥

मन्त्रयज्ञवहं वह्निं भागं भागवहं च यत् ।
अग्रासिनं सोमभुजं हुतार्चिषमुदायुधम् ॥१८॥

आहुर्वेदविदो विप्रा यं यज्ञे शाश्वतं प्रभुम् ।
तस्य विष्णो सुरेशस्य श्रीवत्साङ्कस्य धीमतः ॥१९॥

प्रादुर्भवसहस्राणि समतीतान्यनेकशः ।
भूयश्चैव भविष्यन्ति ह्येवमाह पितामहः ॥२०॥

यत्पृच्छध्वं महाभागा दिव्यां पुण्यामिमां कथाम् ।
प्रादुर्भावाश्रितां विष्णोः सर्वपापहरां शिवाम् ॥२१॥

शृणुध्वं तां महाभागास्तद्‌गतेनान्तरात्मना ।
प्रवक्ष्याम्यानुपूर्व्येण यत्पृच्छध्वं ममानघाः ॥२२॥

वासुदेवस्य माहात्म्यं चरितं च महामतेः ।
हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च ॥२३॥

बहुशः सर्वभूतात्मा प्रादुर्भवति वीर्यवान् ।
प्रादुर्भावांश्च वक्ष्यामि पुण्यान्दिव्यान्गुणान्वितान् ॥२४॥

सुप्तो युगसहस्रं यः प्रादुर्भवति कार्यतः ।
पूर्णे युगसहस्रेऽथ देवदेवो जगत्पतिः ॥२५॥

ब्रह्म च कपिश्चैव त्र्यम्बकस्त्रिदशास्तथा ।
देवाः सप्तर्षयश्चैव नागाश्चाप्सरसस्तथा ॥२६॥

सनत्कुमारश्च महानुभावो, मनुर्महात्मा भगवान्प्रजाकरः ।
पुराणदेवोऽथ पुराणि चक्रे प्रदीप्तवैश्वानरतुल्यतेजा ॥२७॥

योऽसौ चार्णवमध्यस्थो नष्टे स्थावरजङ्गमे ।
नष्टे देवासुरनरे प्रनष्टोरगराक्षसे ॥२८॥

योद्धुकामौ दुराधर्षौ तावुभौ मधुकेटभौ ।
हतौ भगवता तेन तयोर्दत्त्वाऽमितं वरम् ॥२९॥

पुरा कमलनाभस्य स्वपतः सागराम्भसि ।
पुष्करे तत्र संभूता देवाः सर्षिगणास्तथा ॥३०॥

एष पौष्करको नाम प्रादुर्भावो महात्मनः ।
पुराणं कथ्यते यत्र देवश्रुतिसमाहितम् ॥३१॥

वाराहस्तु श्रुतिमुखः प्रादुर्भावो महात्मनः ।
यत्र विष्णुः सुरश्रेष्ठो वाराहं रुपमास्थितः ॥३२॥

वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः ।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥३३॥

अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः ।
आज्यनासः स्रुवतुण्डः सामघोषस्वरो महान् ॥३४॥

सत्यधर्ममयः श्रीमान्क्रमविक्रमसत्कृतः ।
प्रायश्चित्तनखौ मन्त्रस्फिग्विकृतः सोमशोणितः ॥३५॥

उद्‌गातान्त्रो होमलिङ्गो बीजौषधिमहाफलः ।
वाद्यान्तरात्मा मन्त्रस्फिग्विकृतः सोमशोणितः ॥३६॥

वेदिस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् ।
प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरन्वितः ॥३७॥

दक्षिणाहृदयो योगी महासत्रमयो महान् ।
उपाकर्माष्टरुचकः प्रवर्गावर्तभूषणः ॥३८॥

नानाच्छन्दोगतिपथो गृह्योपनिषदासनः ।
छायापत्नीसहायोऽसौ मणिश्रृङ्ग इवोत्थितः ॥३९॥

महीं सागरपर्यन्तां सशैलवनकाननाम् ।
एकार्णवजलभ्रण्टामेकार्णवगतः प्रभुः ॥४०॥

दंष्ट्रया यः समुद्धृत्य लोकानां हितकाम्यया ।
सहस्रशीर्षो लोकादिश्चकार जगतीं पुनः ॥४१॥

एवं यज्ञवराहेण भूत्वा भूतहितार्थिना ।
उद्धृता पृथिवी देवी सागराम्बुधरा पुरा ॥४२॥

वाराह एष कथितो नारसिंहस्ततो द्विजाः ।
यत्र भूत्वा मृगन्द्रेण हिरण्यकशिपुर्हतः ॥४३॥

पुरा कृतयुगे नाम सुरारिर्बलर्पितः ।
दैत्यानामादिपुरुषश्चकार सुमहत्तपः ॥४४॥

दश वर्षसहस्राणि शतानि दश पञ्च च ।
जपोपवासनिरतस्तस्थौ मौनव्रतस्थितः ॥४५॥

ततः शमदमाभ्यां च ब्रह्मचर्येण चैव हि ।
प्रीतोऽभवत्ततस्तस्य तपसा नियमेन च ॥४६॥

तं वै स्वयंभूर्भगवान्स्वयमागम्य भो द्विजाः ।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥४७॥

आदित्यैर्वसुभिः सार्धं मरुद्भिर्दैवतैस्तथा ।
रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिंनरैः ॥४८॥

दिशाभिः प्रदिशाभिश्च नदीभिः सागरैस्तथा ।
नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः ॥४९॥

देवर्षिभिस्तपोवृद्धैः सिद्धैर्विद्वद्भिरेव च ।
राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः ॥५०॥

चराचरगुरुः श्रीमान्वृतः सर्वैः सुरैस्तथा ।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥५१॥

ब्रह्मोवाच
प्रीतोऽस्मि तव भक्तस्य तपसाऽनेन सुव्रत ।
वरं वरय भद्रं ते यथेष्टं काममाष्नुहि ॥५२॥

हिरण्यकशिपुरुवाच
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
ऋषयो वाऽथ मां शापैः क्रुद्धा लोकपितामह ॥५३॥

शपेयुस्तपसा युक्ता शर एष वृतो मया ।
न शस्त्रेण न वाऽस्त्रेण गिरिणा पादपेन वा ॥५४॥

न शुष्केण न चाऽऽर्द्रेण न चैवोर्ध्वं न चाप्यधः ।
पाणिप्रहारेणैकेन सभृत्यबलवाहनम् ॥५५॥

यो मां नाशयितुं शक्तः स मे मृत्युर्भविष्यति ।
भवेयमहमेवार्कः सोमो वायुर्हुताशनः ॥५६॥

सलिलं चान्तरिक्षं च आकाशं चैव सर्वशः ।
अहं क्रोधश्च कामश्च वरुणो वासवो यमः ॥
धनदश्च धनाध्यक्षो यक्षः किंपुरुषाधिपः ॥५७॥

ब्रह्मोवाच
एते दिव्या शरास्तात मया दत्तास्तवाद्‌भुताः ।
सर्वान्कामानिमांस्तात प्राप्स्यसि त्वं न संशयः ॥५८॥

व्यास उवाच
एवमुक्त्वा तु भगवाञ्जगामाऽऽशु पितामहः ।
वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ॥५९॥

अतो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा ।
वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः ॥६०॥

देवा ऊचुः
वरेणानेन भगवन्बाधिष्यति स नोऽसुरः ।
तत्प्रसीदाऽऽशु भगवन्वधोऽप्यस्य विचिन्त्यताम् ॥६१॥

भगवन्सर्वभूतानां स्वयंभूरादिकृत्प्रभुः ।
स्रष्टा च हव्यकव्यानामव्यक्तं प्रकृतिर्ध्रुवम् ॥६२॥

व्यास उवाच
ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापितः ।
प्रोवाच भगवान्वाक्यं सर्वदेवगणांस्तथा ॥६३॥

ब्रह्मोवाच
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् ।
तपसोऽन्ते च भगवान्वधं विष्णुः करिष्यति ॥६४॥

व्यास उवाच
एतछ्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः ।
स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः ॥६५॥

लब्धमत्रे वरे चापि सर्वाः सोऽबाधत प्रजाः ।
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥६६॥

आश्रमेषु महाभागान्मुनीन्वै संशितव्रतान् ।
सत्यधर्मरतान्दान्तांस्तदा धर्षितवांस्तथा ॥६७॥

त्रिदिवस्थांस्तथा देवान्पराजित्य महाबलः ।
त्रैलोक्यं वशमानीय स्वर्गे वसति सोऽसुरः ॥६८॥

यदा वरमदोन्मत्तो विचरन्दानवो भुवि ।
यज्ञीयानकरोद्दैत्यानयज्ञीयाश्च देवताः ॥६९॥

आदित्या वसवः साध्या विश्वे च मरुतस्तथा ।
शरण्यं विष्णुमुपतस्थुर्महाबलम् ॥७०॥

देवब्रह्मयं यज्ञं ब्रह्मदेवं सनातनम् ।
भूतं भव्यं भविष्यं च प्रभुं लोकनमस्कृतम् ॥
नारायणं विभुं देवं शरण्यं शरणं गताः ॥७१॥

देवा ऊचुः
त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्भयात् ।
त्वं हि नः परमो देवस्त्वं हि नः परमो गुरुः ॥७२॥

त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम ।
उत्फुल्लामलपत्राक्ष शत्रुपक्षक्षयंकर ॥
क्षयाय दितिवंशस्य शरणं त्वं भवस्व नः ॥७३॥

वासुदेव उवाच
भयं त्यजध्वममरा अभयं वो ददाम्यहम् ।
तथैव त्रिदिवं देवाः प्रतिलप्स्यथ मा चिरम् ॥७४॥

एषोऽहं सगणं दैत्यं वरदानेन दर्पितम् ।
अवध्यममरेन्द्राणां दानवेन्द्रं निहन्मि तम् ॥७५॥

व्यास उवाच
एवमुक्त्वा तु भगवान्विसृज्य त्रिदशेश्वरान् ।
हिरण्यकशिपोः स्थानमाजगाम महाबलः ॥७६॥

नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं प्रभुः ।
नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ॥७७॥

घनजीमूतसंकाशो घनजीमूतनिस्वनः ।
घनजीमूतदीप्तौजा जीमूत इव वेगवान् ॥७८॥

दैत्यं सोऽतिबलं दृष्ट्वा दृप्तशार्दूलविक्रमः ।
दृप्तैर्दैत्यगणैर्गुप्तं हतवानेकपाणिना ॥७९॥

नृसिंह एष कथितो भूयोऽयं वामनः परः ।
यत्र वामनमास्थाय रूपं दैत्यविनाशनम् ॥८०॥

बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा ।
विक्रमैस्त्रिभिरक्षोभ्याः क्षोभितास्ते महासुराः ॥८१॥

विप्रचित्तिः शिवः शङ्कुरयःशङ्कुस्तथैव च ।
अयः शिरा अश्वशिरा हयग्रीवश्च वीर्यवान् ॥८२॥

वेगवान्केतुमानुग्रः सोग्रव्यग्रो महासुरः ।
पुष्करः पुष्कलश्चैव शा(सा)श्वोऽश्वपतिरेव च ॥८३॥

प्रह्लादोऽश्वपतिः कुम्भः संह्रादो गमनप्रियः ।
अनुह्रादो हरिहयो वाराहः संहरोऽनुजः ॥८४॥

शरभः शलभश्चैव कुपथः क्रोधनः क्रथः ।
बृहत्कीर्तिर्महाजिह्वः शङ्कुकर्णो महास्वनः ॥८५॥

दीप्तजिह्‌वोऽर्कनयनो मृगपादो मृगप्रियः ।
वायुर्गरिष्ठो नमुचिः सम्बरो विस्करो महान् ॥८६॥

चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च ।
कालकः कालकोपश्च वृत्रः क्रोधो विरोचनः ॥८७॥

गरिष्ठश्च वरिष्ठश्च प्रलम्बनरकावुभौ ।
इन्द्रतापनवातापी केतुमान्बलदर्पितः ॥८८॥

असिलोमा पुलोमा च बाष्कलः प्रमदो मदः ।
स्वमिश्रः कालवदनः करालः केशिरेव च ॥८९॥

एकाक्षश्चन्द्रमा राहुः संह्रादः सम्बरः स्वनः ।
शतघ्नीचक्रहस्ताश्च तथा मुशलपाणयः ॥९०॥

अश्वयन्त्रायुधोपेता भिन्दिपालायुधास्तथा ।
शूलोलूखलहस्ताश्च परश्वधधरास्तथा ॥९१॥

पाशमुद्‌गरहस्ताश्च तथा परिघपाणयः ।
महाशिलाप्रहरणाः शूलहस्ताश्च दानवाः ॥९२॥

नानाप्रहरणा घोरा नानावेशा महाबलाः ।
कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा ॥९३॥

खरोष्ट्रवदनाश्चैव वराहवदनास्तथा ।
मार्जारशिखिवक्त्राश्च महावक्त्रास्तथा परे ॥९४॥

नक्रमेषाननाः शूरा गोजाविमहिषाननाः गोधाशल्लकिवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः ॥९५॥

आखुदर्दुरवक्त्राश्च घोरा वृकमुखास्तथा ।
भींमा मकरवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः ॥९६॥

अश्वाननाः खरमुखा मयूरवदनास्तथा ।
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः ॥९७॥

चीरसंवृतगात्राश्च तथा नीलकवाससः ।
उष्णीषिणो मुकुटिनस्तथा कुण्डलिनोऽसुराः ॥९८॥

किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः ।
नानावेशधरा दैत्या नानामाल्यानुलेपनाः ॥९९॥

स्वान्यायुधानि संगृह्य प्रदीप्तानि च तेजसा ।
क्रममाणं हृषीकेशमुपावर्तन्त सर्वशः ॥१००॥

प्रमथ्य सर्वान्दैतेयान्पादहस्ततलैर्विभुः ।
रूपं कृत्वा महाभीमं जहाराऽऽशु स मेदिनीम् ॥१०१॥

तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ।
नभः प्रक्रममाणस्य नाभ्यां किल तथा स्थितौ ॥१०२॥

परमाक्रममाणस्य जानुदेशे व्यवस्थितौ ।
विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः ॥१०३॥

हृत्वा स मेदिनीं कृत्स्नां हत्वा चासुरपुंगवान् ।
ददौ शक्राय वसुधां विष्णुर्बलवतां वरः ॥१०४॥

एष वो वामनो नाम प्रादुर्भावो महात्मनः ।
वेदविद्भिर्द्विजैरेतत्कथ्यते वैष्णवं यशः ॥१०५॥

भूयो भूतात्मनो विष्णोः प्रादुर्भावो महात्मनः ॥
दत्तात्रेय इति ख्यातः क्षमया परया युतः ॥१०६॥

तेन नष्टेषु वेदेषु प्रक्रियासु मखेषु च ।
चातुर्वर्ण्ये च संकीर्णे धर्मे शिथिलतां गते ॥१०७॥

अतिवर्धति चाधर्मे सत्ये नष्टेऽनृते स्तिते ।
प्रजासु शीर्यमाणासु धर्मे चाऽऽकुलतां गते ॥१०८॥

सयज्ञाः सक्रिया वेदाः प्रत्यानीता हि तेन वै ।
चातुर्वर्ण्यमसंकीर्णं कृतं तेन महात्मना ॥१०९॥

तेन हैहयराजस्य कार्तवीर्यस्य धीमतः ।
वरदेन वरो दत्तो दत्तात्रेयेण धीमता ॥११०॥

एतद्‌बाहुद्वयं यत्ते तत्ते मम कृते नृप ।
शतानि दश बाहूनां भविष्यन्ति न संशयः ॥१११॥

पालयिष्यसि कृत्स्नां च वसुधां वसुधेश्वर ।
दुर्निरीक्ष्योऽरिवृन्दानां युद्धस्थश्च भविष्यसि ॥११२॥

एष वो वैष्णवः श्रीमान्प्रादुर्भावोऽद्भुतः शुभः ।
भूयश्च जामदग्न्योऽयं प्रादुर्भावो महात्मनः ॥११३॥

यत्र बाहुसहस्रेण द्विषतां दुर्जयं रणे ।
रामोऽर्जुनमनीकस्थं जघान नृपतिं प्रभुः ॥११४॥

रथस्थं पार्थिवं रामः पातयित्वाऽर्जुनं भुवि ।
धर्षयित्वाऽर्जुनं रामः क्रोशमानं च मेघवत् ॥११५॥

कृत्स्नं बाहुसहस्रं च चिच्छेद भृगुनन्दनः ।
परश्वधेव दीप्तेन ज्ञातिभिः सहितस्य वै ॥११६॥

कीर्णा क्षत्रियकटीभिर्मेरुमन्दरभूषणा ।
त्रिः सप्तकृत्वः पृथिवी तेन निःक्षत्रिय कृता ॥११७॥

कृत्वा निःक्षत्रियां चैनां भार्गवः सुमहायशाः ।
सर्वपापविनाशाय वाजिमेधेन चेष्टवान् ॥११८॥

यस्मिन्यज्ञे महादाने दक्षिणां भृगुनन्दनः ।
मारीचाय ददौ प्रीतः कश्यपाय वसुंधराम् ॥११९॥

वारणांस्तुरगाञ्शुभ्रान्रथांश्च रथिनां वरः ।
हिरण्यमक्षयं धेनुर्गजेन्द्रांश्च महीपतिः । २१३.१२०॥

ददौ तस्मिन्महायज्ञे वाजिमेधे महायशाः ।
अद्यापि च हितार्थाय लोकानां भृगुनन्दनः ॥१२१॥

चरमाणस्तपो घोरं जामदग्न्यः पुनः प्रभुः ।
आस्ते वै देववच्छ्रीमान्महेन्द्रे पर्वतोत्तमे ॥१२२॥

एष विष्णोः सुरेशस्य शाश्वतस्याव्ययस्य च ।
जामदग्न्य इति ख्यातः प्रादुर्भावो महात्मनः ॥१२३॥

चतुर्विंशे युगे वाऽपि विश्वामित्रपुरःसरः ।
जज्ञे दशरथस्याथ पुत्रः पद्मयतेक्षणः ॥१२४॥

कृत्वाऽत्मानं महाबाहुश्चतुर्धा प्रभुरीश्वरः ।
लोके राम इति ख्यातस्तेजसा भास्करोपमः ॥१२५॥

प्रसादनार्थं लोकस्य रक्षसां निग्रहाय च ।
धर्मस्य च विवृद्ध्यर्थं जज्ञे तत्र महयशाः ॥१२६॥

तमप्याहुर्मनुष्येन्द्रं सर्वभूतहिते रतम् ।
यः समाः सर्वधर्मज्ञश्चतुर्दश वनेऽवसत् ॥१२७॥

लक्ष्मणानुचरो रामः सर्वभूतहिते रतः ।
चतुर्दश वने तप्त्वा तपो वर्षणि राघवः ॥१२८॥

रूपिणी तस्य पार्श्वस्था सीतेति प्रथिता जने ।
पूर्वोदिता तु या लक्ष्मीर्भर्तारमनुगच्छति ॥१२९॥

जनस्थाने वसन्कार्यं त्रिदशानां चकार सः ।
तस्यापकारिणं क्रूरं पौलस्त्यं मनुजर्षभः ॥१३०॥

सीतायाः पदमन्विच्छन्निजघान महायशाः ।
देवासुरगणानां च यक्षराक्षसभोगिनाम् ॥१३१॥

यत्रावध्यं राक्षसेन्द्रं रावणं युधि दुर्जयम् ।
युक्तं राक्षसकोटीभिर्नीलाञ्जनचयोपमम् ॥१३२॥

त्रैलाक्यद्रावणं क्रूरं रावणं राक्षसेश्वरम् ।
दुर्जयं दुर्धरं दृप्तं शार्दूलसमविक्रमम् ॥१३३॥

दुर्निरीक्ष्यं सुरगणैर्वरदानेन दर्पितम् ।
जघान सचिवैः सार्धं ससैन्यं रावणं युधि ॥१३४॥

महाभ्रगणसंकाशं महाकायं महाबलम् ।
रावणं निजघानाऽऽशु रामो भूतपतिः पुरा ॥१३५॥

सुग्रीवस्य कृते येन वानरेन्द्रो महाबलः ।
वाली विनिहतः संख्ये सुग्रीवश्चाभिषेचितः ॥१३६॥

मधोश्च तनयो दृप्तो लवणो नाम दानवः ।
हतो मधुवने वीरो वरमत्तो महासुरः ॥१३७॥

यज्ञविघ्नकरौ येन मुनीनां भावितात्मनाम् ।
मारीचश्च सुबाहुश्च बलेन बलिनां वरौ ॥१३८॥

निहतौ च निराशौ च कृतौ तेन महात्मना ।
समरे युद्धशौण्डेन तथाऽन्ये चापि राक्षसाः ॥१३९॥

विराधश्च कबन्धश्च राक्षसौ भीमविक्रमौ ।
जघान पुरुषव्याघ्रो गन्धवौ शापमोहितौ ॥१४०॥

हुताशनार्कांशुतडिद्‌गुणाभैः प्रतप्तजाम्बूनदचित्रपुङ्खैः ।
महेन्द्रवज्राशनितुल्यसारै रिपून्स रामः समरे निजघ्ने ॥१४१॥

तस्मै दत्तानि शस्त्राणि विश्वामित्रेण धीमता ।
वधार्थं देवशत्रूणां दुर्धर्षाणां सुरैरपि ॥१४२॥

वर्तमाने मखे येन जनकस्य महात्मनः ।
भग्नं माहेश्वरं चापं क्रीडता लीलया पुरा ॥१४३॥

एतानि कृत्वा कर्माणि रामो धर्मभृतां वरः ।
दशाश्वमेधाञ्जारूथ्यानाजहार निर्गलान् ॥१४४॥

नाश्रूयन्ताशुभा वाचो नाऽऽकुलं मारुतो ववौ ।
न वित्तहरणं चाऽऽसीद्रामे राज्यं प्रशासति ॥१४५॥

परिदेवन्ति विधवा नानर्थाश्च कदाचन ।
सर्वमासीच्छुभं तत्र रामे राज्यं प्रशासति ॥१४६॥

न प्राणिनां भयंम चाऽऽसीज्जलाग्न्यनिलघातजम् ।
न चापि वृद्धा बालानां प्रेतकार्याणि चक्रिरे ॥१४७॥

ब्रह्मचर्यपरं क्षत्रं विशस्तु क्षत्रिये रताः ।
शूद्राश्चैव हि वर्णास्त्रीञ्शुश्रूषन्त्यनहंकृताः ॥१४८॥

नार्यो नात्यचरन्भर्तॄन्भार्यां नात्यचरत्पतिः ।
सर्वमासीज्जगद्दान्तं निर्दस्युरभवन्मही ॥१४९॥

राम एकोऽभवद्भर्ता रामः पालयिताऽभवत् ।
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः ॥१५०॥

अरोगाः प्राणिनश्चाऽऽसन्रामे राज्यं प्रशासति ।
देवतानामृषीणां च मनुष्याणां च सर्वशः ॥१५१॥

पृथिव्यां समवायोऽभूद्रामे राज्यं प्रशासति ।
गाथामप्यत्र गायन्ति ये पुराणविदो जनाः ॥१५२॥

रामे निबद्धतत्त्वार्था माहात्म्यं तस्य धीमतः ।
श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषितः ॥१५३॥

आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ।
दश वर्षसहस्राणि रामो राज्यमकारयत् ॥१५४॥

ऋक्सामयजुषां घोषो ज्याघोषश्च महात्मनः ।
अव्युच्छिन्नोऽभवद्राष्ट्रे दीयतां भुज्यतामिति ॥१५५॥

सत्त्ववान्गुणसंपन्नो दीप्यमानः स्वतेजसा ।
अतिचन्द्रं च सूर्यं च रामो दाशरथिर्बभौ ॥१५६॥

ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः ।
हित्वाऽयोध्यां दिवं यातो राघवो हि महाबलः ॥१५७॥

एवमेव महाबाहुरिक्ष्वाकुकुलनन्दनः ।
रावणं सगणं हत्वा दिवमाक्रमे विभुः ॥१५८॥

अपरः केशवस्यायं प्रादुर्भावो महात्मनः ।
विख्यातो माथुरे कल्पे सर्वलोकहिताय वै ॥१५९॥

यत्र शाल्वं च चैद्यं च कंसं द्विविदमेव च ।
अरिष्टं वृषभं केशिं पूतनां दैत्यदारिकाम् ॥१६०॥

नागं कुवलयापीडं चाणूरं मुष्टिकं तथा ।
दैत्यान्मानुषदेहेन सूदयामास वीर्यवान् ॥१६१॥

छिन्नं बाहुसहस्रं च बाणस्याद्‌भुतकर्मणः ।
नरकश्च हतः संख्ये यवनश्च महाबलः ॥१६२॥

हृतानि च महीपानां सर्वरत्नानि तेजसा ।
दुराचाराश्च निहिताः पार्थिवा ये महीतले ॥१६३॥

एष लोकहितार्थाय प्रदुर्भावो महात्मनः ।
कल्की विष्णुयशा नाम शम्भलग्रामसंभवः ॥१६४॥

सर्वलोकहितार्थाय भूयो देवो महायशाः ।
एते चान्ये च बहवो दित्या देवगणैर्वृतः ॥१६५॥

प्रादुर्भावः पुराणेषु गीयन्ते ब्रह्मवादिभिः ।
यत्र देवा विमुह्यन्ति प्रादुर्भावानुकीर्तने ॥१६६॥

पुराणं वर्तते यत्र वेदश्रुतिसमाहितम् ।
एतदुद्देशमात्रेण प्रादुर्भावानुकीर्तनम् ॥१६७॥

कीर्तितं कीर्तनीयस्य सर्वलोकगुरोर्विभोः ।
पीयन्ते पितरस्तस्य प्रादुर्भावानुकीर्तनात् ॥१६८॥

विष्णोरमितवीर्यस्य यः श्रृणोति कृताञ्जलिः ॥१६९॥

एताश्च योगेश्वरयोगमायाः श्रुत्वा नरो मुच्यति सर्वपापैः ।
ऋद्धिं समृद्धिं विपुलांश्च भोगान्प्राप्नोति शीघ्रं भगवत्प्रसादात् ॥१७०॥

एवं मया मुनिश्रेष्ठा विष्णोरमिततेजसः ।
सर्वपापहराः पुण्याः प्रादुर्भावाः प्रकीर्तिताः ॥१७१॥

इति श्रीमहापुराणे आदिब्राह्मे विष्णोः प्रादुर्भावानुकीर्तनं नाम त्रयोदशाधिकद्विशततमोऽध्यायः ॥२१३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:45.4430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

regermination

  • पुनरंकुरण 
  • स्थगित झालेले अंकुरण पुन्हा सुरु होण्याची प्रक्रिया 
RANDOM WORD

Did you know?

जेवण उष्टे सोडून अन्नाचा अपमान करणार्याला विविध शास्त्र, पुराणात काय शिक्षासांगितली आहे कृपाया संदर्भासह स्पष्ट करणे .
Category : Vedic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site