संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २४५

ब्रह्मपुराणम् - अध्यायः २४५

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अजस्यापि विक्रियया नानाभवनम्
वसिष्ठ उवाच
अप्रबुद्धमथाव्यक्तमिमं गुणनिधिं सदा ।
गुणानां धार्यतां तत्त्वं सृजत्याक्षिपते तथा ॥१॥

अजो हि क्रीडया भूप विक्रियां प्राप्त इत्युत ।
आत्मानं बहुधा कृत्वा नानेन प्रतिचक्षते ॥२॥

एतदेवं विकुर्वाणो बुध्यमानो न बुध्यते ।
गुणानाचरते ह्येष सृजत्याक्षिपते तथा ॥३॥

अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि ।
न त्वेवं बुध्यतेऽव्यक्तं सगुणं तात निर्गुणम् ॥४॥

कदाचित्त्वेव खल्वेतत्तदाहुः प्रतिबुद्धकम् ।
बुध्यते यदि चाव्यक्तमेतद्वै पञ्चविंशकम् ॥५॥

बुध्यमानो भवत्येष ममात्मक इति क्षुतः ।
अन्योन्यप्रतिबुद्धेन वदन्त्यव्यक्तमच्युतम् ॥६॥

अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्युत ।
पञ्चविंशं महात्मनां न चासावपि बुध्यते ॥७॥

षड्विंशं विमलं बुद्धमप्रमेयं महाद्युते ।
सततं पञ्चविंशं तु चतुर्विंशं विबुध्यते ॥८॥

दृश्यादृश्ये ह्यनुगततत्स्वभावे महाद्युते ।
अव्यक्तं चैव तद्‌ब्रह्म बुध्यते तात केवलम् ॥९॥

पञ्चविंशं चतुर्विंशमात्मानमनुपश्यति ।
बुध्यमानो यदाऽऽत्मानमन्याऽहमिति मन्यते ॥१०॥

तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः ।
बुध्यते च परां बुद्धिं विशुद्धाममलां यथा(दा) ॥११॥

षड्‌विंशं राजशार्दूल तदा बुद्धः कृतो व्रजेत् ।
ततस्त्यजति सोऽव्यक्तसर्गप्रलयधर्मिणम् ॥१२॥

निर्गुणां प्रकृतिं वेद गुणयुक्तामचेतनाम् ।
ततः केवलधर्माऽसौ भवत्यव्यक्तदर्शनात् ॥१३॥

केवलेन समागम्य विमुक्तात्मानमाप्नुयात् ।
एतत्तु तत्त्वमित्याहुर्निस्तत्त्वमजरामरम् ॥१४॥

तत्त्वसंश्रवणादेव तत्त्वज्ञो जायते नृप ।
पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः ॥१५॥

न चैव तत्त्ववांस्तात संसारेषु निमज्जति ।
एषामुपैति तत्त्वं हि क्षिप्रं बुध्यस्व लक्षणम् ॥१६॥

षड्‌विंशोऽयमिति प्राज्ञो गृह्यमाणोऽजरामरः ।
केवलेन बलेनैव समतां यात्यसंशयम् ॥१७॥

षड्‌विंशेन प्रबुद्धेन बुध्यमानोऽप्यबुद्धिमान् ।
एतन्नानात्वमित्युक्तं सांख्यश्रुतिनिदर्शनात् ॥१८॥

चेतनेन समेतस्य पञ्चविंशतिकस्य ह ।
एकत्वं वै भवेत्तस्य यदा बुद्‌ध्याऽनुबुध्यते ॥१९॥

बुध्यमानेन बुद्धेन समतां याति मैतिल ।
सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप ॥२०॥

निःसङ्गात्मानमासाद्य षड्‌विंशं कर्मज विदुः ।
विभुस्त्यजति चाव्यक्तं यदा त्वेतद्विबुध्यते ॥२१॥

चतुर्विंशमगाधं च षड्‌विंशस्य प्रबोधनात् ।
एष ह्यप्रतिबुद्धश्च बुध्यमानस्तु तेऽनघ ॥२२॥

उक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात् ।
मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः(कता) ॥२३॥

मत्स्योदकं यथा तद्वदन्यत्पमुपलभ्यते ।
एवमेव च गन्तव्यं नानात्वैकत्वमेतयोः ॥२४॥

एतावन्मोक्ष इत्युक्तो ज्ञानविज्ञानसंज्ञितः ।
पञ्चविंशतिकस्याऽऽशु योऽयं देहे प्रवर्तते ॥२५॥

एष मोक्षयितव्येति प्राहुरव्यक्तगोचरात् ।
सोऽयमेवं विमुच्येत नान्यथेति विनिश्चयः ॥२६॥

परश्च परधर्मा च भवत्येव समेत्य वै ।
विशुद्धधर्माशुद्धेन नाशुद्धेन च बुद्धिमान् ॥२७॥

विमुक्तधर्मा बुद्धेन समेत्य पुरुषर्षभ ।
वियोगधर्मिणा चैव विमुक्तात्मा भवत्यथ ॥२८॥

विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत् ।
शुचिकर्मा शुचिश्चैव भवत्यमितबुद्धिमान् ॥२९॥

विमलात्मा च भवति समेत्य विमलात्मना ।
केवलात्मा तथा चैव केवलेन समेत्य वै ॥
स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्यते ॥३०॥

एतावदेतत्कथितं मया ते तथ्यं महाराज यथार्थतत्त्वम् ।
अमत्सरस्त्वं प्रतिगृह्य बुद्ध्या, सनातनं ब्रह्म विशुद्धमाद्यम् ॥३१॥

तद्वेदनिष्ठस्य जनस्य राजन्, प्रदेयमेतत्परमं त्वया भवेत् ।
विधित्सामानाय निबोधकारकं, प्रबोधहेतोः प्रणतस्य शासनम् ॥३२॥

न देयमेतच्च यथाऽनृतात्मने, शठाय क्लीबाय न जिह्मबुद्धये ।
न पण्डितज्ञानपरोपतापिने, देयं तथा शिष्यविबोधनाय ॥३३॥

श्रद्धान्वितायाथ गुणान्विताय, परापवादाद्विरताय नित्यम् ।
विशुद्धयोगाय बुधाय चैव, कृपावतेऽथ क्षमिणे हिताय ॥३४॥

विविक्तशीलाय विधिप्रिययाय, विवादहीनाय बहुश्रुताय ।
विनीतवेशाय नहैतुकात्मने, सदैव गृह्यं त्विदमेव देयम् ॥३५॥

एतैर्गुणैर्हीनतमे न देयमेतत्परं ब्रह्म विशुद्धमाहुः ।
न श्रेयसे योक्ष्यति तादृशे कृतं, धर्मप्रवक्तारमपात्रदानात् ॥३६॥

पृथ्वीमिमां वा यदि रत्नपूर्णां,दद्याददेयं त्विदमव्रताय ।
जितेन्द्रियाय प्रयताय देयं, देयं परं तत्त्वविदे नरेन्द्र ॥३७॥

कराल मा ते भयमस्ति किंचिदेतच्च्रुतं ब्रह्म परं त्वयाऽद्य ।
यथावदुक्तं परमं वपित्रं, विशोकमत्यन्तमनादिमध्यम् ॥३८॥

अगाधमेतदजरामरं च, निरामयं वीतभयं शिवं च ।
समीक्ष्य मोहं परवादसंज्ञमेतस्य तत्त्वार्थमिमं विदित्वा ॥३९॥

अवाप्तमेतद्धि पुरा सनातनाद्धिरण्यगर्भाद्धि ततो नराधिप ।
प्रसाद्य यत्नेन तमुग्रतेजसं, सनातनं ब्रह्म यथा त्वयैतत् ॥४०॥

पृष्टस्त्वया चाऽस्मि यथा नरेन्द्र, तथा मयेदं त्वयि नोक्तमन्यत् ।
यथाऽवाप्नं ब्रह्मणो मे नरेन्द्र, महाज्ञानं मोक्षविदां परायणम् ॥४१॥

एतदुक्तं परं ब्रह्म यस्मान्नाऽवर्तते पुनः ।
पञ्चविशं मुनिश्रेष्ठा वसिष्ठेन यथा पुरा ॥४२॥

पुनरावृत्तिमाप्नोति परमं ज्ञानमव्ययम् ।
नाति बुध्यति तत्त्वेन बुध्यमानोऽजरामरम् ॥४३॥

एतन्निःश्रेयसकरं ज्ञानं परमं मया ।
कथितं तत्त्वतो विप्राः श्रुत्वा देवर्षितो द्विजाः ॥४४॥

हिरण्यगर्भादृषिणा वसिष्ठेन समाहृतम् ।
वसिष्ठादृषिसार्दूलो नारदोऽवाप्तवानिदम् ॥४५॥

नारदाद्विदितं मह्यमेतदुक्तं सनातनम् ।
मा शुचध्वं मुनिश्रेष्ठाः श्रुत्वैतत्परमं पदम् ॥४६॥

येन क्षराक्षरे भिन्ने न भयं तस्य विद्यते ।
विद्यते तु भयं यस्य यो नैनं वेत्ति तत्त्वतः ॥४७॥

अविज्ञानाच्च मूढात्मा पुनः पुनरुपद्रवान् ।
प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते ॥४८॥

देवलोकं तथा तिर्यङ्मानुष्यमपि चाश्नुते ।
यदि वा मुच्यते वाऽपि तस्मादज्ञानसागरात् ॥४९॥

अज्ञानसागरे घोरे ह्यव्यक्तागाध उच्यते ।
अहन्यहनि मज्जन्ति यत्र भूतानि भो द्विजाः ॥५०॥

तस्मादगाधादव्यक्तादुपक्षीणात्सनातनात् ।
तस्माद्युयं विरजसका वितमस्काश्च भो द्विजाः ॥५१॥

एवं मया मुनिश्रेष्ठाः सारात्सारतरं परम् ।
कथितं परमं मोक्षं यं ज्ञात्वा न निवर्तते ॥५२॥

न नास्तिकाय दातव्य नाभक्ताय कदाचन ।
न दुष्टमतये विप्रा न श्रद्धाविमुखाय च ॥५३॥

इति श्रीमहापुराणे आदिब्राह्मे वसिष्ठकरालजनकसंवादसमाप्तिनिरूपणं नाम पञ्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP