TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १

ब्रह्मपुराणम् - अध्यायः १

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १
तत्रादौ नैमिषारण्य-वर्णनम्
यस्मात् सर्व्वमिदं प्रपञ्चरचितं मायाजगज्जायते, यस्मिंस्तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः ।
यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवं, तं वन्दे पुरुषोत्तमाख्यममलं नित्यं विभुं निश्चलम् ॥१॥

यं ध्यायन्ति बुधाः समाधिसमये शुद्धं वियत्सन्निभं, नित्यानन्दमयं प्रसन्नममलं सर्व्वेश्वरं निर्गुणम् ।
व्यक्ताव्यक्तपरं प्रपञ्चरहितं ध्यानैकागम्यं विभुं, तं संसारविनाशहेतुमजरं वन्दे हरिं मुक्तिदम् ॥२॥

सुपण्ये नैमिषारण्ये पवित्रे सुमनोहरे ।
नानामुनिजनाकीर्णे नानापुष्पोपशोभिते ॥३॥

सरलैः कर्णिकारैश्च पनसैर्धवखादिरैः ।
आम्रजम्बूकपित्थैश्च न्यग्रोधैर्देवदारुभिः ॥४॥

अश्वत्थैः पारिजातैश्च चन्दनागुरुपाटलैः ।
बकुलैः सप्तपर्णैश्च पुन्नागैर्नागकेशरैः ॥५॥

शालैस्तालैस्तमालैश्च नारिकेलैस्तथार्ज्जुनैः ।
अन्यैश्च बहुभिर्वृक्षैश्चम्पकाद्यैश्च शोभिते ॥६॥

नानापक्षिगणकीर्णे नानामृगगणैर्युते ।
नानाजलाशयैः पुण्यैर्दोर्घिकाद्यैरलङ्कृते ॥७॥

ब्राह्मणैः क्षत्रियैर्वैश्यैः शुद्रैश्चान्यैश्च जातिभिः ।
वानप्रस्थैर्गृहस्थैश्छ यतिभिर्ब्रह्मचारिभिः ॥८॥

सम्पन्नैर्गौकुलैश्चैव सर्व्वत्र समलङ्कृते ।
यवगोधूमचणकैमषिमुद्गतिलेक्षुभिः ॥९॥

चीनकाद्यैस्तथा मेध्यैः शस्यैश्चान्यैश्च शोभिते ।
तत्र दीप्ते हुतवहे हूयमाने महामखे ॥१०॥

यजतां नैमिषेयाणां सत्रे द्वादशवार्षिके ।
आजग्मुस्तत्र मुनयस्तथाऽन्येपि द्विजातयः ॥११॥

तानागतान् द्विजांस्ते तु पूजां चक्रुर्यथोचिताम् ।
तेषु तत्रोपविष्टेषु ऋत्विग्भिः सहितेषु च ॥१२॥

तत्राजगाम सूतस्तु मतिमाँल्लोमहर्षणः ।
तं दृष्ट्वा ते मुनिवराः पूजां चक्रुर्मुदान्विताः ॥१३॥

सोऽपि तान् प्रतिपूज्यैव संविवेश वरासने ।
कथां चक्रुस्तदान्योन्यं सूतेन सहिता द्विजाः ॥१४॥

कथान्ते व्याशिष्यं ते पप्रच्छु संशयं मुदा ।
ऋत्विग्भिः सहिताः सर्व्वे सदस्यैः सह दीक्षिताः ॥१५॥

मुनय ऊचुः ॥
पुराणागमशास्त्राणि सेतिहासानि सत्तम ।
देवदैत्यानां चरितं जन्म कर्म्म च ॥१६॥

न तेऽस्त्यविदितं किञ्चिचद्वेदे शास्त्रे च भारते ।
पुराणे मोक्षशास्त्रे च सर्व्वज्ञोऽसि महामते ॥१७॥

यथापूर्व्वमिदं सर्व्वमुत्पन्नं सचराचरम् ।
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ॥१८॥

श्रोतुमिच्छामहे सूत ब्रूहि सर्वं यथा जगत् ।
बभूव भूयश्च यथा महाभागा भविष्यति ॥१९॥

यतश्चैव जगत् सूत यतश्चैव चराचरम् ।
लीनमासीत्तथा यत्र लयमेष्यति यत्र च  ॥२०॥

लोमहर्षण उवाच ॥
अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय विष्णवे सर्व्वजिष्णवे ॥२१॥

नमो हिण्यगर्भाय हरये शङ्कराय च ।
वासुदेवाय ताराय सर्गस्थित्यन्तकर्म्मणे ॥२२॥

एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः ।
अव्यक्ताव्यक्तभूताय विष्णवे मुक्तिहेतवे ॥२३॥

सर्गस्थितिविनाशाय जगतो योऽजरामरः ।
मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥२४॥

आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् ।
प्रणम्य सर्व्वभूतस्थमच्युतं पुरुषोत्तमम् ॥२५॥ ।

ज्ञानस्वरूपमत्यन्तं निर्म्मलं परमार्थतः ।
तमोवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥२६॥

विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् ।
सर्व्वज्ञं जगतामौशमजमक्षयमव्ययम् ॥२७॥

आद्यं सुसूक्ष्मं विश्वेशं ब्रह्मादीन् प्रणिपत्य च॥
इतिहासपुराणज्ञं वेदवेदाङ्गपारगम् ॥२८॥

सर्व्वशास्त्रार्थतत्त्वज्ञं पराशरसुतं प्रभुम् ।
गुरुं प्रणम्य वक्ष्यामि पुराणं वेदसम्मितम् ॥२९॥

कथयामि यथापूर्व्वं दक्षाद्यैनिसत्तमैः ।
पृष्टः प्रोवाच भगवानब्जयोनिः पितामहः ॥३०॥

श्रृणुध्वं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ।
कथ्यमानां मया चित्रां बह्वर्थां श्रुतिविस्तराम् ॥३१॥

यस्त्विमां धारयेन्नित्यं श्रृणुयाद्वाप्यभीक्ष्णशः ।
स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ॥३२॥

अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् ।
प्रधानं पुरुषस्तस्मान्निर्म्ममे विश्वमीश्वरः ॥३३॥

तं बुध्यध्वं मुनिश्रेष्ठा ब्रह्मणममितौजसम् ।
प्रधानं पुरुषस्तस्मान्निर्म्ममे विश्वमीश्वरः ॥३४॥

अहङ्कारस्तु महतस्तस्माद्भूतानि जज्ञिरे ।
भूरभेदाश्च भूतेभ्य इति सर्गः सनातनः ॥३५॥

विस्तरावयवं चैव यथाप्रज्ञं यथाश्रुति ।
कीर्त्त्यमानं श्रुणुध्वं वः सर्व्वेषां कीर्त्तिवर्द्धनम् ॥३६॥

कीर्त्तितं स्थिरकीर्त्तोनां सर्व्वेषां पुण्यवर्द्धतम् ।
ततः स्वयम्बूर्भगवान् सिसृक्षुर्विविधाः प्रजाः ॥३७॥

अप एव ससर्ज्जादौ तासु वीर्य्यमथासृजत् ।
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥३८॥

अयनं तस्य पूर्वं तेन नारायणः स्मृतः ।
हिरण्यवर्णमभवत्तदण्डमुदकेशयम् ॥३९॥

तत्र जज्ञे ब्रह्मा स्वयम्भूरिति नः श्रुतम् ।
हिरण्यवर्णौ भगवानषित्वा परिवत्सरम् ॥४०॥

तदण्डमकरोद्द्द्वैधं दिवं भुवमथापि च ।
तयोः शकलयोर्म्मध्य आकाशमकरोत्प्रभुः ॥४१॥

अप्सु पारिण्लवां पृथ्वीं दिशश्च दशाधा दधे ।
तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् ॥४२॥

ससर्ज सृष्टिं तद्रूपां स्रष्टुमिच्छन् प्रजापतीन् ।
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥४३॥

वसिष्ठं च महातेजाः सोऽसृजत्सप्त मानसान् ।
सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥४४॥

नारायणात्मकानां तु सप्तानां ब्रह्मजन्मनाम् ।
ततोऽसृजत् पुरा ब्रह्मा रुद्रं रोषात्मसम्भवम् ॥४५॥

सनत्कुमारं च विभुं पूर्व्वेषामपि पूर्व्वजम् ।
सप्तस्वेता अजायन्त प्रजा रुद्राश्च भो द्विजाः ॥४६॥

स्कन्दः सनत्कुमारश्च तेजः संक्षिप्य तिष्ठतः ।
तेषां सप्त महावंशा दिव्या देवगणान्विताः ॥४७॥

क्रियावन्तः प्रजावन्तो महर्षिभिरलङ्कृताः ।
विद्युतोऽसनिमघाश्च रोहितेन्द्रधनूंषि च ॥४८॥

वयांसि च ससर्जादौ पर्जन्यञ्च ससर्ज ह ।
ऋचो यजूंषि सामानि निर्म्ममे यज्ञसिद्धये ॥४९॥

साध्यानजनयद् देवानित्येवमनुसञ्जगुः ।
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे । १.५०॥

आपवस्य प्रजासग सृजतो हि प्रजापतेः ।
सृज्यमानाः प्रजा नैव विवर्द्धन्ते यदा तदा ॥५१॥

द्विधा कृत्वात्मनो देहमर्द्धेन पुरुषोऽभवत् ।
अर्द्धेन नारी तस्यां तु सोऽसृजद्विविधाः प्रजाः ॥५२॥

दिवञ्च पृथिवीं चैव महिम्ना व्याप्य तिष्ठति ।
विराजमसृजद्विष्णुः सोऽसृजत् पुरुषं विराट् ॥५३॥

पुरुषं तं मनुं विद्यात्तस्य मन्वन्तरं स्मृतम् ।
द्वितीयं मानसस्यैतन्मनरन्तरमुच्यते ॥५४॥

स वैराजः प्रजासर्गं पुरुषः प्रभुः ।
नारायणविसर्गस्य प्रजास्तस्याप्ययोनिजाः ॥५५॥

आयुष्मान् कीर्त्तिमान् पुण्यप्रजापांश्च भवेन्नरः ।
विदित्वेमं यथेष्टां चाप्नुयाद् गतिम् ॥५६॥

इति श्रीब्राह्मे महापुराणे आदिसर्गवर्णनं नाम प्रथमोऽध्यायः ॥ १॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:33.1130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

देवदत्त

  • n. (सू.नरि.) भागवतमत में उरुश्रवस् राजा का पुत्र । अग्नि, कानीन तथा जातुकर्ण्य ये इसके तीन पुत्र थे । 
RANDOM WORD

Did you know?

हिंदू धर्मियांत मृत माणसाचा दहावा, तेरावा आणि चौदावा कां करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.