TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १६५

ब्रह्मपुराणम् - अध्यायः १६५

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १६५
भद्रतीर्थवर्णनम्
ब्रह्मोवाच
भद्रतीर्थमिति प्रोक्तं सर्वानिष्टनिवारणम् ।
सर्वपापप्रशमनं महाशान्तिप्रदायकम् ॥१॥

आदित्यस्य प्रिया भार्या उषा त्वाष्ट्री पतिव्रता ।
छायाऽपि भार्या सवितुस्तस्याः पुत्रः शनैश्चरः ॥२॥

तस्य स्वसा विष्टिरिति भीषणा पापरूपिणी ।
तां कन्यां सविता कस्मै ददामीति मतिं दधे ॥३॥

यस्मै यस्मै दातुकामः सूर्यो लोकगुरुः प्रभुः ।
तच्छ्रुत्वा भीषणा चेति किं कुर्मो भार्ययाऽनया ॥४॥

एवं तु वर्तमाने सा पितरं प्राह दुःखिता ॥५॥

विष्टिरुवाच
बालामेव पिता यस्तु दद्यात्कन्यां सुरूपिणे ।
स कृतार्थो भवेल्लोके न चेद्‌दुष्कृतवान्पिता ॥६॥

चतुर्थाद्वत्सरादूर्ध्वं यावन्न दशमात्ययः ।
तावद्विवाहः कन्यायाः पित्रा कार्यः प्रयत्नतः ॥७॥

श्रीमते विदुषे यूने कुलीनाय यशस्विने ।
उदाराय सनाथाय कन्या देया वराय वै ॥८॥

एतच्चेदन्यथा कुर्यात्पिता स निरयी सदा ।
धर्मस्य साधनं कन्या विदुषामपि भास्कर ॥९॥

नरकस्येव मूर्खाणां कामोपहतचेतसाम् ।
एकतः पृथिवी कृत्स्ना सशैलवनकानना ॥१०॥

स्वलंकृतोपाधिहीना सुकन्या चैकतः स्मृता ।
विक्रीणीते यश्च कन्यामश्वं वा गां तिलानपि ॥११॥

न तस्य रौरवादिभ्यः कदाचिन्निष्कृतिर्भवेत् ।
विवाहातिक्रमः कार्यो न कन्यायाः कदाचन ॥१२॥

तस्मिन्कृते यत्पितुः स्यात्पापं तत्केन कथ्यते ।
यावल्लज्जां न जानाति यावत्क्रीडति पांशुभिः ॥१३॥

तावत्कन्या प्रदातव्या नो चेत्पित्रोरधोगतिः ।
पितुः स्वरूपं पुत्रः स्याद्यः पिता पुत्र एव सः ॥१४॥

आत्मनः सुखितां लोके को न कुर्यात्करोति च ।
यत्कन्यायायं पिता कुर्याद्दानं पूजनमीक्षणम् ॥१५॥

यत्कृतं तत्कृतं विद्यात्तासु दत्तं तदक्षयम् ।
यद्दत्तं तासु कन्यासु तदानन्त्याय कल्पते ॥१६॥

पुत्रेषु चैव पौत्रेषु को न कुर्यात्सुखं रवे ।
करोति यः कन्यकानां स संपद्‌भाजनं भवेत् ॥१७॥

ब्रह्मोवाच
एवं तां वादिनीं कन्यां विष्टिं प्रोवाच भास्करः ॥१८॥

सूर्य उवाच
किं करोमि न गृह्‌णातित्वां कश्चिद्‌भीषणाकृतिम् ।
कुलं रूपं वयो वित्तं विद्यां वृत्तं सुशीलताम् ॥१९॥

मिथः पश्यन्ति संबन्धे विवाहे स्त्रीषुं पुंसु च ।
अस्मासु सर्वमप्यस्ति विना तव गुणैः शुभे ॥
किं करोमि क्व दास्यामि वृथा मां धिक्करोषि किम् ॥२०॥

ब्रह्मोवाच
एवमुक्त्वा पुनस्तां च विष्टिं प्रोवाच भास्करः ॥२१॥

सूर्य उवाच
यस्मै कस्मै च दातव्या त्वं वै यद्यनुमन्यसे ।
दीयसेऽद्य मया विष्टे अनुजानीहि मां ततः ॥२२॥

ब्रह्मोवाच
पितरं प्राह सा विष्टिर्भर्ता पुत्रा धनं सुखम् ।
आयू रूपं च संप्रीतिर्जायते प्राक्तनानुगम् ॥२३॥

यत्पुरा विहितं कर्म प्राणिना साध्वसाधु वा ।
फलं तदनुरोधेन प्राप्यतेऽपि भवान्तरे ॥२४॥

स्वदोष एव तत्पित्रा परिहर्तव्य आदरात् ।
तादृगेव फलं तु स्याद्यादृगाचरितं पुरा ॥२५॥

तस्माद्दानसंबन्धं स्ववंशानुगतं पिता ।
करोति शेषं दैवेन यद्‌भाव्यं तद्भविष्यति ॥२६॥

ब्रह्मोवाच
तच्छ्रुत्वा दुहितुर्वाक्यं त्वष्टुः पुत्राय भीषणाम् ।
विश्वरूपाय तां प्रादाद्विष्टिं लोकभयंकरीम् ॥२७॥

विश्वरूपोऽपि तद्वच्च भीषणो भीषणाकृतिः ।
एवं मिथः संचरतोः शीलरूपसमानयोः ॥२८॥

प्रीतिः कदाचिद्वैषम्यं दंपत्योरभवन्मिथः ।
गण्डो नामाभवत्पुत्रो ह्‌यतिगण्डस्तथैव च ॥२९॥

रक्ताक्षः क्रोधनश्चैव व्ययो दुर्मुख एव च ।
तेभ्यः कनीयानभवद्धर्षणो नाम पुण्यभाक् ॥३०॥

सुतः सुशीलः सुभगः शान्तः शुद्धमतिः शुचिः ।
स कदाचिद्यमगृहं द्रष्टुं मातुलमभ्यगात् ॥३१॥

स ददर्श बहूञ्जन्तून्स्वर्गस्थानिव दुःखिनः ।
स मातुलं तु पप्रच्छ नत्वा धर्मं सनातनम् ॥३२॥

हर्षण उवाच
क इमे सुखिनस्तात पच्यन्ते नरके च के ॥३३॥

ब्रह्मोवाच
एवं पृष्टो धर्मराजः सर्वं प्राह यथार्थवत् ।
तत्कर्मणां गतिं सर्वामशेषेण न्यवेदयत् ॥३४॥

यम उवाच
विहितस्य न कुर्वन्ति ये कदाचिदतिक्रमम् ।
न ते पश्यन्ति निरयं कदाचिदपि मानवाः ॥३५॥

न मानयन्ति ये शास्त्रं नाऽऽचारं न बहुश्रुतान् ।
विहितातिक्रमं कुर्युर्ये ते नरकगामिनः ॥३६॥

ब्रह्मोवाच
स तु श्रुत्वा धर्मवाक्यं हर्षणः पुनरब्रवीत् ॥३७॥

हर्षण उवाच
पिता त्वाष्ट्रो भीषणश्च माता विष्टिश्च भीषणा ।
भ्रातरश्च महात्मानो येन ते शान्तबुद्धयः ॥३८॥

सुरूपाश्च भविष्यन्ति निर्दोषा मङ्गलप्रदाः ।
तन्मे कर्म वदस्वाद्य तत्कर्ताऽस्मि सुरोत्तम ॥३९॥

अन्यथा तान्न गच्छेयमित्युक्तः प्राह धर्मराट् ।
हर्षणं शुद्धबुद्धिं तं हर्षणोऽसि न संशयः ॥४०॥

बहवः स्युः सुताः केचिन्नैव ते कुलतन्तवः ।
एक एव सुतः कश्चिद्येन तदध्रियते कुलम् ॥४१॥

कुलस्याऽऽधारभूतो यो यः पित्रोः प्रियकारकः ।
यः पूर्वजानुद्धरति स पुत्रस्त्वितरो गदः ॥४२॥

यस्मात्त्वयाऽनुरूपं मे प्रोक्तं मातामह प्रियम् ।
तस्मात्त्वं गौतमीं गच्छ स्नात्वा नियतमानसः ॥४३॥

स्तुहि विष्णुं जगद्येनिं शान्तं प्रीतेन चेतसा ।
स तु प्रीतो यदि भवेत्सर्वमिष्टं प्रदास्यति ॥४४॥

ब्रह्मोवाच
इति श्रुत्वा धर्मवाक्यं हर्षणो गौतमीं ययौ ।
शुचिस्तुष्टाव देवेशं हरिं प्रीतोऽभवद्धरिः ॥४५॥

हर्षणाय ततः प्रादात्कुलभद्रं ततस्तु सः ।
सर्वाभद्रप्रशमनपूर्वकं भद्रमस्तु ते ॥४६॥

तद्भद्रा प्रोच्यते विष्टिः पिता भद्रस्तथा सुताः ।
ततः प्रभृति तत्तीर्थं भद्रतीर्थं तदुच्यते ॥४७॥

सर्वमङ्गलदं पुंसां तत्र भद्रपतिर्हरिः ।
तत्तीर्थसेविनां पुंसां सर्वसिद्धिप्रदायकम् ॥
मङ्गलैकनिधिः साक्षाद्देवदेवो जनार्दनः ॥४८॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये भद्रतीर्थवर्णनं नाम पञ्चषष्ट्यधिकशततमोध्यायः ॥१६५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:42.6470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

water displacement method

  • जल विस्थापन पद्धति 
RANDOM WORD

Did you know?

कुंभमेळ्याबद्दल माहिती द्या? नजिकचा कुंभमेळा कोठे आहे ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site