TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १५२

ब्रह्मपुराणम् - अध्यायः १५२

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १५२
आनंदतीर्थवर्णनम्
ब्रह्मोवाच
नन्दीतटमिति ख्यातं तीर्थं वेदविदो विदुः ।
तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद ॥१॥

अत्रिपुत्रो महातेजाश्चन्द्रमा इति विश्रुतः ।
सर्वान्वेदांश्च विधिवद्धनुर्वेदं यथाविधि ॥२॥

अधीत्य जीवात्सर्वाश्च विद्याश्चान्या महामते ।
गुरूपूजां करोमीति जीवमाह स चन्द्रमाः ॥
बृहस्पतिस्तदा प्राह चन्द्रं शिष्यं मुदान्वितः ॥३॥

बृहस्पतिरुवाच
मम प्रिया तु जानीते तारा रतिसम्प्रभा ॥४॥

ब्रह्मोवाच
प्रष्टुं तां च तदा प्रायादन्तर्वेश्म स चन्द्रमाः ।
तारां तारामुखीं दृष्ट्वा जगृहे तां करेण सः ॥५॥

स्ववेश्म प्रति तां लोभाद्‌बलादाकर्षयत्तदा ।
तावद्‌धैर्यनिधिर्ज्ञानी मतिमान्विजितेन्द्रियः ॥६॥

यावन्न कामिनीनेत्रवागुराभिर्विबध्यते ।
विशेषतो रहःसंस्थां कामिनीमायतेक्षणाम् ॥७॥

विलोक्य न मनो याति कस्य कामेषु वश्यताम् ।
अत एवान्यपुरुषदर्शनं न कदाचन ॥८॥

कुलवध्वा रहः कार्यं भीतया शीलविप्लुतेः ।
विज्ञाय तत्परिजनात्सहसोत्थाय निर्गतः ॥९॥

दृष्ट्वा तद्‌दुष्कृतं कर्म बृहस्पतिरुदारधीः ।
शशाप कोपाच्चाऽऽक्षिप्त वाग्भिर्विप्रियकारिभिः ॥१०॥

पराभिभूतामालोक्य कान्तां कः सोढुमीश्वरः ।
युयुधे तेन जीवोऽपि देवश्चन्द्रमसा रुषा ॥११॥

न शापैर्हन्यते चन्द्रो नाऽऽयुधैः सुरमन्त्रितैः ।
बृहस्पतिप्रणीतैश्च न मन्त्रैर्हन्यते शशी ॥१२॥

तदा चन्द्रस्तु तां तारां नीत्वा संस्थाप्य मन्दिरे ।
बुभुजे बहुवर्षाणि रोहिणीं चाकुतोभयः ॥१३॥

न जीयते तदा दैवैर्न कोपैः शापमन्त्रकैः ।
न राजभिर्न ऋषिभिर्न साम्ना भेददण्डनैः ॥१४॥

यदा भार्यां न लोभेऽसौ गुरुः सर्वप्रयत्नतः ।
सर्वोपायक्षये जीवस्तदा नीतिमथास्मरत् ॥१५॥

अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ।
स्वार्थमुद्धरते प्राज्ञः स्वार्थभ्रंशो हि मुर्खता ॥१६॥

साध्यं केनाप्युपायेन जानद्भिः पुरुषैः फलम् ।
वृथाभिमानिनः शीघ्रं विपद्यन्ते विमोहिताः ॥१७॥

एवं निश्चित्य मेधावी शुक्रं गत्वा न्यवेदयत् ।
तमागतं कविर्ज्ञात्वा संमानेनाभ्यनन्दयत् ॥१८॥

उपविष्टं सुविश्रान्तं पूजितं च यथाविधि ।
पर्यपृच्छद्दैत्यगुरुस्तदागमनकारणम् ॥१९॥

गृहागतस्य विमुखाः शत्रवोऽप्युत्तमा न हि ।
तस्मै स विस्तरेणाऽऽह भार्याहरणमादितः ॥२०॥

बृहस्पतेस्तदा वाक्यं श्रुत्वा कोपान्वितः कविः ।
अपराधं तु चन्द्रस्य मेने शिष्यस्य नारद ॥
अतिक्रममिमं श्रुत्वा कोपात्कविरथाब्रवीत् ॥२१॥

शुक्र उवाच
तदा भोक्ष्ये तदा पास्ये तदा स्वप्‌स्ये तदा वदे ।
यदाऽऽनये प्रियां भ्रातस्तव भार्यां परार्दिताम् ॥२२॥

तामानीय भुवं पूज्य चन्द्रं शप्त्वा गुरुद्रुहम् ।
पश्चाद्भोक्ष्ये महाबाहो श्रृणु वाचं ग्रहेश्वर ॥२३॥

ब्रह्मोवाच
एवमुक्त्वा स जीवेन दैत्याचार्यो जगाम ह ।
शिवमाराध्य यत्नेन परं सामर्थ्यमाप्तवान् ॥२४॥

वरानपाप्य विविधाञ्शंकराद्‌भावपूजितात् ।
शिवप्रसादात्किं नाम देहिनामिह दुर्लभम् ॥२५॥

जगाम शुक्रो जीवेन तारया यत्र चन्द्रमाः ।
वर्तते तं शशपोच्चैः श्रृणु त्वं चन्द्र मे वचः ॥२६॥

यस्मात्पापतरं कर्म त्वया पाप मदात्कृतम् ।
कुष्ठी भूयास्ततश्चन्द्रं शशापैवं रूषा कविः ॥२७॥

कविशापप्रदग्धोऽभूत्तदैव मृगलाञ्छनः ।
प्रापुः क्षयं न के नाम गुरुस्वामिसखिद्रुहः ॥२८॥

तत्याज तां स चन्द्रोऽपि तां तारां जगृहे कविः ।
शुक्रोऽपि देवानाहूय ऋषीन्पितृगणांस्तथा ॥२९॥

नदीर्नदांश्च विविधानोषधीश्च पतिव्रताः ।
ततः संप्रष्टुमारेभे तारावृत्तविनिष्क्रयम् ॥३०॥

ततः श्रुतिः सुरानाह गौतम्यां भक्तितस्त्वियम् ।
स्नानं करोतु जीवेन तारा पूता भविष्यति ॥३१॥

रहस्यमेतत्परमं न कथ्यं यस्य कस्यचित् ।
सर्वास्वपि दशास्वेह शरणं गौतमी नृणाम् ॥३२॥

तथाऽकरोच्चैव तारा भर्त्रा स्नानं यथाविधि ।
पुष्पवृष्टिरभूत्तत्र जयशब्दो व्यवर्तत ॥३३॥

पुनर्वै देवा अददुः पुनर्मनुष्या उत ।
राजानः सत्यं कृण्वाना ब्रह्‌मजायां पुनर्ददुः ॥३४॥

पुनर्दत्त्वा ब्रह्मजायां कृतां देवैरकल्मषाम् ।
सर्वं क्षेममभूत्तत्र तस्मात्तीर्थं महामुने ॥३५॥

तदभूत्सकलाघौघध्वंसनं सर्वकामदम् ।
आनन्दं क्षेममभवत्सुराणामसुरारिणाम् ॥३६॥

बृहस्पतेश्च शुक्रस्य तारायाश्च विशेषतः ।
परमानन्दमापन्नो गुरुर्गङ्गामभाषत ॥३७॥

गुरुरुवाच
त्वं गौतमि सदा पूज्या सर्वेषामपि मुक्तिदा ।
विशेषतस्तु सिंहस्थे मयि त्रैलोक्यपावनी ॥३८॥

भविष्यसि सरिच्छ्रेष्ठे सर्वतीर्थैः समन्विता ।
यानि कानि च तीर्थानि स्वर्गमृत्युरसातले ॥
त्वां स्नातुं तानि यास्यन्ति मयि सिंहस्थितेऽम्बिके ॥३९॥

ब्रह्मोवाच
धन्यं यशस्यमायुष्यमारोग्यश्रीविवर्धनम् ।
सौभाग्यैश्वर्यजननं तीर्थमानन्दनामकम् ॥४०॥

तत्र पञ्च सहस्राणि तीर्थान्याह स गौतमः ।
स्मरणात्पठनाद्वाऽपि इष्टैः संयुज्यते सदा ॥४१॥

शिवस्यात्र निविष्टस्य नन्दी गङ्गातटेऽनिशम् ।
साक्षात्च्चरत्यसौ धर्मस्तस्म्न्नन्दीतटं स्मृतम् ॥
आनन्दमपि तत्तीर्थं सर्वानन्दविवर्धनात् ॥४२॥

इति श्रीमाहपुराणे आदिब्राह्मे तीर्थमाहात्म्ये आनन्दतीर्थादिपञ्चसहस्रतीर्थवर्णनं नाम द्विपञ्चाशदधिकशततमोऽध्यायः ॥१५२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:41.9600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

जेनुं

  • जेनुं काम तेनुं थाय, बीजा करे तो गोता खाय 
  • (गु.) ज्‍याचे काम त्‍यालाच साधते, दुसरा करू म्‍हणेल तर होत नाही. मूळ म्‍हण-जेनां काम ते तेथी थाय, बीजो करे ते गोथां खाय. तु०-Every man to his trade. 
RANDOM WORD

Did you know?

Do we have copyrights for everything published on this website?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site