TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २१५

ब्रह्मपुराणम् - अध्यायः २१५

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २१५
दक्षिणमार्गवर्णनम्
मुनय ऊचुः
कथं दक्षिणमार्गेण विशन्ति पापिनः पुरम् ।
श्रेतुमिच्छाम तद्‌ब्रूहि विस्तरेण तपोधन ॥१॥

व्यास उवाच
सुघोरं तन्महाघोरं द्वारं वक्ष्यामि भीषणम् ।
नानाश्वापदसंकीर्णं शिवशतनिनादितम् ॥२॥

फेत्काररवसंयुक्तमागम्यं लोमहर्षणम् ।
भूतप्रेतपिशाचैश्च वृतं चान्यैश्च राक्षसैः ॥३॥

एवं दृष्ट्वा सुदूरान्ते द्वारं दुष्कृतकारिणः ।
मोहं गच्छन्ति सहसा त्रासाद्विप्रलपन्ति च ॥४॥

ततस्ताञ्शृङ्खलैः पाशैर्बद्‌ध्वा कर्षन्ति निर्भयाः ।
ताडयन्ति च दण्डैश्च भर्त्सयन्ति पुनः पुनः ॥५॥

लब्धसंज्ञास्ततस्ते वै रुधिरेण परिप्लुताः ।
व्रजन्ति दक्षिणं द्वारं प्रस्खलन्तः पदे पदे ॥६॥

तीव्रकण्टकयुक्तेन शर्करानिचितेन च ।
क्षुरधारानिभैस्तीक्ष्णैः पाषाणैर्निचितेन च ॥७॥

क्वचित्पङ्केन निचिता निरुत्तारैश्च खातकैः ।
लोहसूचीनिभैर्दन्तैः संछन्नेन क्वचित्क्वचित् ॥८॥

तटप्रपातविषमैः पर्वतैर्वृक्षसंकुलैः ।
प्रतप्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः ॥९॥

क्वचिद्विषमगर्ताभिः क्वचिल्लोष्टैः सुपिच्छलैः ।
सुतप्तवालुकाभिश्च तथा तीक्ष्णैश्च शङ्कुभिः ॥१०॥

अयःशृङ्गाटकैस्तप्तैः क्वचिद्दावाग्निना युतम् ।
क्वचित्तप्तशिलाभिश्च क्वचिद्‌व्याप्तं हिमेन च ॥११॥

क्वचिद्वालुकया व्याप्तमाकण्ठान्तःप्रवेशया ।
क्वचिद्‌दुष्टाम्बुना व्याप्तं क्वचित्कर्षाग्निना पुनः ॥१२॥

क्वचित्सिंहैर्वृकैर्व्याघ्रैर्दंशकीटैश्च दारुणैः ।
क्विचिन्महाजलौकाभिः क्वचिदजगरैः पुनः ॥१३॥

मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पैर्विषोल्वणैः ।
क्वचिदद्ष्टगजैश्चैव बलोन्मत्तैः प्रमाथिभिः ॥१४॥

पन्थानमुल्लिखद्‌भिश्च तीक्ष्णश्रृङ्गैर्महावृषैः ।
महाश्रृङ्गैश्च महिषैरुष्ट्रैर्मत्तैश्च खादनैः ॥१५॥

डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः ।
व्याधिभिश्च महारौद्रैः पीड्यमाना व्रजन्ति ते ॥१६॥
महाधूलिविमिश्रेण महाचण्डेन वायुना ।
महापाषाणवर्षेण हन्यमाना निराश्रयाः ॥१७॥

क्वचिद्विद्युन्निपातेन दीर्यमाणा व्रजन्ति ते ।
महता बाणवर्षेण भिद्यमानाश्च सर्वशः ॥१८॥

पतद्‌भिर्वज्रनिर्घातैरुल्कापातैः सुदारुणैः ।
प्रदीप्ताङ्गारवर्षेण दह्यमाना विशन्ति च ॥१९॥

महता पांशुव्रषेण पूर्यमाणा रुदन्ति च ।
मेघारवैः वित्रास्यन्ते मुहुर्मुहुः । २१५.२०॥

निःशेषाः शरवर्षेण चूर्ण्यमानास्च सर्वतः ।
महाक्षाराम्बुधाराभिः सिच्यमाना व्रजन्ति च ॥२१॥

महाशीतेन मरुता रुक्षेण परुषेण च ।
समन्ताद्दीर्यमाणाश्च शुष्यन्ते संकुचन्ति च ॥२२॥

इत्थं मार्गेण पुरुषाः पाथेयरहितेन च ।
निरालम्बेन दुर्गेण निर्जलेन समन्ततः ॥२३॥

अतिश्रमेण महात निर्गतेनाऽऽश्रमाय वै ।
नीयन्ते देहिनः सर्वे ये मूढाः पापकर्मिणः ॥२४॥

यमदूतैर्महाघोरैस्तदाज्ञाकारिभिर्बलात् ।
एकाकिनः पराधीना मित्रबन्धुविवर्जिताः ॥२५॥

शोचन्तः स्वानि कर्माणि रुदन्ति च मुहुर्मुहुः ।
प्रेतीभूता निषिद्धास्ते शुष्ककण्ठौष्ठतालुकाः ॥२६॥

कृशाङ्गा भीतभीताश्च दह्यमानाः क्षुधाग्निना ।
बद्धाः श्रृङ्कलया केचित्केचिदुत्तानपादयोः ॥२७॥

आकृष्यन्ते शुष्यमाणा यमदूतैर्बलोत्कटैः ।
नरा अधोमुखाश्चान्ये कृष्यमाणाः सुदुःखिताः ॥२८॥

अन्नपानीयरहिता याचमानाः पुनः पुनः ।
देहि अधीमुखाश्चान्ये कृष्यमाणाः सुदुःखिताः ॥२९॥

कृताञ्जलिपुटा दीनाः क्षुत्तृष्णापरिपीडिताः ।
भक्ष्यानुच्चावचान्दृष्ट्वा भोज्यान्पेयांश्च पुष्कलान् ॥३०॥

सुगन्धद्रव्यसंयुक्तान्याचमानाः पुनः पुनः ।
दधिक्षीरघृतोन्मिश्रं दष्ट्वा शाल्योदनं तथा ॥३१॥

पानानि च सुगन्धीनि शीतलान्युदकानि च ।
तान्याचमानांश्ते याम्या भर्त्सयन्तस्तदाऽब्रुवन् ॥
वचोभिः परुषैर्भीमाः क्रोधरक्तान्तलोचनाः ॥३२॥

यम्या ऊचुः
न भवद्भिर्हुतं काले न दत्तं ब्रह्मणेषु च ।
प्रसभं दीयमानं च वारितं च द्विजातिषु ॥३३॥

तस्य पापस्य च फलं भवतां समुपागतम् ।
नाग्नौ दग्धं जले नष्टं न हृतं नृपतस्करैः ॥३४॥

कुतो वा सांप्रतं विप्रे यन्न दत्तं पुराऽधमाः ।
यैर्दत्तानि तु दानानि साधुभिः सात्त्विकानि तु ॥३५॥

तेषामेते प्रदृश्यन्ते कल्पिता ह्यन्नपर्वताः ।
भक्ष्यभोज्याश्च पेयाश्च लेह्याश्चोष्याश्च संवृताः ॥३६॥

न यूयमभिलप्स्यध्वे न दत्तं च कथंचन ।
यैस्तु दत्तं हुतं चेष्टं ब्राह्मणाश्चैव पूजिताः ॥३७॥

तेषामन्नं समानीय इह निक्षिप्यते सदा ।
परस्वं कथमास्माभिर्दातुं शक्येत नारकाः ॥३८॥

व्यास उवाच
किंकाराणां वचः श्रुत्वा निःस्पृहाः क्षुत्तृषार्दिताः ।
ततस्ते दारुणैश्चास्त्रैः पीड्यन्ते यमकिंकरैः ॥३९॥

मुद्‌गरैर्लोहदण्डैश्च शक्तितोमरपट्टिशैः ।
परिधैर्भिन्दिपालैश्च गदापरशुभिः शरैः ॥४०॥

पृष्ठतो हन्यमानाश्च यमदूतैः सुनिर्दयैः ।
अग्रतः सिंहव्याघ्राद्यैर्भक्ष्यन्ते पापकारिणः ॥४१॥

न प्रवेष्टुं न निर्गन्तुं लभन्ते दुःखिता भृशम् ।
स्वकर्मोपहताः पापाः क्रन्दमानाः सुदारुणाः ॥४२॥

तत्र संपीड्य सुभृशं प्रवेशं यमकिंकरैः ।
नीयन्ते पापिनस्तत्र यत्र तिष्ठेत्स्वयं यमः ॥४३  ।
धर्मात्मा धर्मकृद्देवः सर्वसंयमनो यमः ।
एवं पथाऽतिकष्टेन प्राप्तः प्रेतपुरं नराः ॥४४॥

प्रज्ञापितास्तदा दूतैर्निवेश्यन्ते यमाग्रतः ।
ततस्ते पापकर्माणस्तं पश्यन्ति भयानकम् ॥४५॥

पापापविद्धनयना विपरीतात्मबुद्धयः ।
दंष्ट्राकरालवदनं भ्रुकूटीकुटिलेतक्षणम् ॥४६॥

ऊर्ध्वकेशं महाश्मश्रुं प्रस्फुरदधरोत्तरम् ।
अष्टादशभुजं क्रुद्धं नीलाञ्जनचयोपमम् ॥४७॥

सर्वायुधोद्यतकरं तीव्रदण्डेन संयुतम् ।
महामहिषमारूढं दीप्ताग्निसमलोचनम् ॥४८॥

रक्तमाल्याम्बरधरं महामेघमिवोच्छ्रितम् ।
प्रलयाम्बुदनिर्घोषं पिबन्निव महोदधिम् ॥४९॥

ग्रसन्तमिव त्रलोक्यमुद्‌गिरन्तमिवानलम् ।
मृत्युं च तत्समीपस्थं कालानलसमप्रभम् ॥५०॥

प्रलयानलसंकाशं कृतन्तं च भयानकम् ।
मारीचोग्रा महामारी कालरात्री च दारुणा ॥५१॥

विविधा व्याधयः कष्टा नानारूपा भयावहाः ।
शक्तिशूलाङ्कुशधराः पाशचक्रासिधारिणः ॥५२॥

वज्रदण्डधरा रौद्राः क्षुरतूणधनुर्धराः ।
असंख्याता महावीर्याः क्रूराश्चाऽजनसप्रभाः ॥५३॥

सर्वायुधोद्यतकरा यमदूता भयानकाः ।
अनेन परिवारेण महाघोरेण संवृतम् ॥५४॥

यमं पश्यन्ति पापिष्ठाश्चित्रगुप्तं विभीषणम् ।
निर्भर्त्सयति चाऽत्यर्थं यमास्तन्पापकारिणः ॥५५॥

चित्रगुप्तस्तु भगवान्धर्मवाक्यैः प्रबोधयन् ॥५६॥

चित्रगुप्त उवाच
भो भो दुष्कृतकर्माणः परद्रव्यापहारिणः ।
गर्विता रूपवीर्येण परदारविमर्दकाः ॥५७॥

यत्स्वयं क्रियते कर्म तत्स्वयं भुज्यते पुनः ।
तत्किमात्मोपघातार्थं भवद्भिर्दुष्कृतं कृतम् ॥५८॥

इदानीं किं नु शोचध्वं पीड्यमानाः स्वकर्मभिः ।
भुञ्जध्वं स्वानि दुःखानि न हि दोषोऽस्ति कस्यचित् ॥५९॥

य एते पृथिवीपालाः संप्राप्ता मत्समीपतः ।
स्वकीयैः कर्मभिर्घोरैर्दुष्प्रज्ञा बलगर्विताः ॥६०॥

भो भो नृपा दुराचाराः प्रजाविध्वंसकारिणः ।
अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम् ॥६१॥

राज्यलोभेन मोहेन बलादन्यायतः प्रजाः ।
यद्‌दण्डिताः फलं तस्य भुञ्जध्वमधुना नृपाः ॥६२॥

कुतो राज्यं कलत्रं च यदर्थमशुभं कृतम् ।
तत्सर्वं संपरित्यज्य यूयमेकाकिनः स्थिताः ॥६३॥

पश्यामो न बलं सर्वं येन विध्वंसिताः प्रजाः ।
यमदूतैः पाट्यमाना अधुना कीदृशं फलम् ॥६४॥

व्यास उवाच
एवं बहुविधैर्वाक्यैरुपालब्धा यमेन ते ।
शोचन्तः स्वानि कर्माणि तूष्णीं तिष्ठन्ति पार्थिवाः ॥६५॥

इति कर्म समादिश्य नृपाणां धर्मराट्स्वयम् ।
तत्पातकविशुद्धयर्थमिदं वचनब्रवीत् ॥६६॥

यम उवाच
भो भोश्चण्ड महाचण्ड गृहीत्वा नृपतीनिमान् ।
विशोधयध्वं पापेभ्यः क्रमेण नरकाग्निषु ॥६७॥

व्यास उवाच
ततः शीघ्रं समुत्थाय नृपान्संगृह्य पादयोः ।
भ्रमयित्वा तु वेगेन क्षिप्त्वा चोर्ध्वं प्रगृह्य च ॥६८॥

तत्तत्पापप्माणेन यमदूताः शिलातले ।
आस्फोटयन्ति तरसा वज्रेणेव महाद्रुमम् ॥६९॥

ततस्तु रक्तं स्रोतोभिः स्रवते जर्जरीकृतः ।
निःसंज्ञः स तदा निश्चेष्टश्च प्रजायते ॥७०॥

ततः स वायुना स्पृष्टः शनैरुज्जीवते पुनः ।
ततः पापविशुद्ध्यर्थं क्षिपन्ति नरकार्णवे ॥७१॥

अनयांश्च ते तदा दूताः पापकर्मरतान्नरान् ।
निवेदयन्ति विप्रेन्द्रा यमाय भृशदुःखितान् ॥७२॥

यमदूता ऊचुः
एष देव तवाऽऽदेशादस्माभिर्मोहितो भृशम् ।
आनीतो धर्मविमुखः सदा पापरतः परः ॥७३॥

एष लुब्धो दुराचारो महापातकसंयुतः ।
उपपातककर्ता च सदा हिंसारतः शुचिः ॥७४॥

अगम्यागामी दुष्टात्मा परद्रव्यापहारकः ।
कन्याक्रयी कूटसाक्षी कृतध्नो मित्रवञ्चकः ॥७५॥

अनेन मदमत्तेन सदा धर्मो विनिन्दितः ।
पापमाचरितं कर्म मर्त्यलोके दुरात्मना ॥७६॥

इदानीमस्य देवेश निग्रहानुग्रहौ वद ।
प्रभुरस्य क्रियायोगे वयं वा परिपन्थिनः ॥७७॥

व्यास उवाच
इति विज्ञाप्य देवेशं न्यस्याग्रे पापकारिणम् ।
नरकाणां सहस्रेषु लक्षकोटिशतेषु च ॥७८॥

किंकरास्ते ततो यान्ति ग्रहीतुमपरान्नरान् ।
प्रतिपन्ने कृते दोषे यमो वै पापकरिणाम् ॥७९॥

समादिशति तान्धोरान्निग्रहाय स्वकिंकरान् ।
यथा यस्य विनिर्दिष्टो वसिष्ठाद्यैर्विनिग्रहः ॥८०॥

पापस्य तद्भृ(तं भृ)शं क्रुद्धाः कुर्वन्ति यमकिंकराः ।
अङ्कुशैर्मुद्‌गरैर्दण्डैः क्रमचैः शक्तितोमरैः ॥८१॥

खङ्गशीलनिपातैश्च भिद्यन्ते पापकारिणः ।
नरकाणां सहस्रेषु लक्षकोटिशतेषु च ॥८२॥

स्वकर्मोपार्जितैर्दोषैः पीड्यन्ते यमकिंकरैः ।
श्रृणुध्वं नरकाणां च स्वरूपं च भयंकरम् ॥८३॥

नामानि च प्रमाणं च येन यान्ति नराश्च तान् ।
महावाचीति विख्यातं नरकं शोणितप्लुतम् ॥८४॥

वज्रकण्डकसंमिश्रं योजनायुतविस्तृतम् ।
तत्र संपीड्यते मग्नो भिद्यते वज्रकण्टके ॥८५॥

वर्षलक्षं महाघोरं गोघाती नरके नरः ।
योजनानां शतं लक्षं कुम्भीपाकं सुदारुणम् ॥८६॥

ताम्रकुम्भवती दीप्ता वालुकाङ्गारसंवृता ।
ब्रह्महा भूमिहर्ता च निक्षेपस्यापहारकः ॥८७॥

दह्यन्ते तत्र संक्षिप्ता यावदाभूतसंप्लवम् ।
रौरवो वज्रनाराचैः प्रज्वलद्भिः समावृतः ॥८८॥

योजनानां सहस्राणि षष्टिरायामविस्तरैः ।
भिद्यन्ते तत्र नाराचैः सज्वालैर्नरके नराः ॥८९॥

इक्षुवत्तत्र पीड्यन्ते ये नराः कूटसाक्षिमः ।
अयोमयं प्रज्वलितं मञ्जूषं नरकं स्मृतम् ॥९०॥

निक्षिप्तास्तत्र दह्यन्ते वन्दिग्राहकृताश्च ये ।
अप्रतिष्ठेति नरकं पूयमूत्रपुरोषकम् ॥९१॥

अधोमुखः पतेत्तत्र ब्राह्मणस्योपपीडकः ।
लाक्षाप्रज्वलितं घोरं नरकं तु विलेपकम् ॥९२॥

निमग्नास्तत्र दह्यन्ते मद्यपाने द्विजोत्तमाः ।
महाप्रभेति नरकं दीप्तशूलमहोच्छ्रयम् ॥९३॥

तत्र शूलेन भिद्यन्ते पतिभार्योपभेदिनः ।
नरकं च महाघोरं जयन्ती चाऽऽयसी शिला ॥९४॥

तया चाऽऽक्रम्यते पापः परदारोपसेवकः ।
नरकं शात्मलाख्यं तु प्रदीप्तदृढकण्टकम् ॥९५॥

तया(दा)लिङ्गि दुःखार्ता नारी बहुनरंगमा ।
ये वदन्ति सदाऽसत्यं परमर्मावकर्तनम् ॥९६॥

जिह्वाचोच्छ्रिय(च्छिद्य)ते तेषां सदस्यैर्यमकिंकरैः ।
ये तु रागैः कटाक्षैश्च वीक्षन्ते परयोषितम् ॥९७॥

तेषां चक्षूंषि नाराचैर्विध्यन्ते यमकिंकरैः ।
मातरं येऽपि गच्छन्ति भगिनीं दुहितरं स्नुषाम् ॥९८॥

स्त्रीबालवृद्धहन्तारो यावदिन्द्राश्चतुर्दश ।
ज्वालामालकुलं रौद्रं महारौरवसंज्ञितम् ॥९९॥

नरकं योजनानां च सहस्राणि चतुर्दश ।
पुरं क्षेत्रं गृहं ग्रामं यो दीपयति वह्निना ॥१००॥

स तत्र दह्यते मूढो यावत्कल्पस्थितिर्नरः ।
तामिस्रमिति विख्यातं लक्षयोजनविस्तृतम् ॥१०१॥

निपतद्‌भिः सदा रौद्रः खड्गपशट्टिशमुद्‌गरैः ।
तत्र चौरा नराः क्षिप्तास्ताड्यन्ते यमकिंकरैः ॥१०२॥

शूलशक्तिगदाखड्गैर्यावत्क्ल्पशतत्रयम् ।
तामिस्राद्‌द्विगुणं प्रोक्तं महातामिस्रसंज्ञितम् ॥१०३॥

जलौकासर्पसंपूर्णा निरालोकं सुदुःखदम् ।
मातृहा पितृहा चैव मित्रविस्रम्भघातकः ॥१०४॥

तिष्ठन्ति तक्ष्यमाणाश्च यावत्तिष्ठति मेदिनी ।
असिपत्रवनं नाम नरकं भूरिदुःखदम् ॥१०५॥

योजनायुतविस्तारं ज्वलत्खड्गैः समाकुलम् ।
पातितस्तत्र तैः खड्गैः शतधा तु समाहतः ॥१०६॥

मित्रघ्नः कृत्यते तावद्यावदाभूतसंप्लवम् ।
करम्भवालुका नाम नरकं योजनायुतम् ॥१०७॥

कूपाकारं वृतं दीप्तैर्वालुकाङ्गारकण्टकैः ।
दह्यते भिद्यते वर्षलक्षायुतशतत्रयम् ॥१०८॥

येन दग्धो जनो नित्यं मिथ्योपायैः सुदारुणैः ।
काकोलं नाम नरकं कृमिपूयपरिप्लुतम् ॥१०९॥

क्षिप्यते तत्र दुष्टात्मा एकाकी मिष्टभुङनरः ।
कुड्मलं नाम नरकं पूर्णं विण्मूत्रशोणितैः ॥११०॥

पञ्चयज्ञक्रियाहीनाः क्षिप्यन्ते तत्र वै नराः ।
सुदुर्गन्धं महाभीमं मांसशोणितसंकुलम् ॥१११॥

अभक्ष्यान्ने रतास्तेऽत्र निपतन्ति नराधमाः ।
क्रिमिकीटसमाकीर्ण शवपूर्णं महावटम् ॥११२॥

अधोमुखः पतेत्तत्र कन्याविक्रयकृन्नरः ।
नाम्ना वै तिलपाकेति नरकं दारुणं स्मृतम् ॥११३॥

तिलवत्तत्र पीड्यन्ते परपीडारताश्च ये ।
नरकं तैलपाकेति ज्वलत्तैलमहीप्लवम् ॥११४॥

पच्यते तत्र मित्रघ्नो हन्ता च शरणागतम् ।
नाम्ना वज्रकपाटेति वज्रश्रृङखलयाऽन्वितम् ॥११५॥

पीड्यन्ते निर्दयं तत्र यैः कृतः क्षीरविक्रयः ।
निरुच्छ्वास इति प्रोक्तं तमोन्धं वातवर्जितम् ॥११६॥

निष्चेटं क्षिप्यते तत्र विप्रदाननिरोधकृत् ।
अङ्गरोपचयं नाम दीप्ताङ्गारसमुज्ज्वलम् ॥११७॥

दह्यते तत्र येनोक्तं दानं विप्राय नार्पितम् ।
महापायीति नरकं लक्षयोजनमायतम् ॥११८॥

पात्यन्तेऽधोमुखास्तत्र ये जल्पन्ति सदाऽनृतम् ।
महाज्वालेति नरकं ज्वालाभास्वरभीषणम् ॥११९॥

दह्यते तत्र सुचिरं यः पापे बुद्धिकृन्नरः ।
नरकं क्रकचाख्यातं पीड्यन्ते तत्र वै नराः ॥१२०॥

क्रकचैर्वज्रधारोग्रैरगम्यागमने रताः ।
नरकं गुडपाकेति ज्वलद्‌गुडह्रदैर्वृतम् ॥१२१॥

निक्षिप्तो दह्यते तस्मिन्वर्णसंकरकृन्नरः ।
क्षुरधारेति नरकं तीक्ष्णक्षुरसमावृतम् ॥१२२॥

छिद्यन्ते तत्र कल्पान्तं विप्रभूमिहरा नराः ।
नरकं चाम्बरीषाख्यं प्रलयानलदीपितम् ॥१२३॥

कल्पकोटिशतं तत्र दह्यते स्वर्णहारकः ।
नाम्ना वज्रकुठारेति नरकं वज्रसंकुलम् ॥१२४॥

छिद्यन्ते तत्र छेत्तारो द्रुमाणां पापकारिणः ।
नरकं परितापाख्यं प्रलयानलदीपितम् ॥१२५॥

गरदो मधुहर्ता च पच्यते तत्र पापकृत् ।
नरकं कालसूत्रं च वज्रसूत्रविनिर्मितम् ॥१२६॥

भ्रमन्तस्तत्र च्छिद्यन्ते परसस्योपलुण्ठकाः ।
नरकं कश्मकं नाम श्लेष्मशिङ्घाणकावृतम् ॥१२७॥

तत्र संक्षिप्यते कल्पं सदा मांसरुचिर्नर ।
नरकं चोग्रगन्धेति लालामुत्रपुरीषवत् ॥१२८॥

क्षिप्यन्ते तत्र नरके पितृपिण्डाप्रयच्छकाः ।
नरकं दुर्धरं नाम जलौकावृश्चिकाकुलम् ॥१२९॥

उत्कोचभक्षकस्तत्र तिष्ठते वर्षकायुतम् ।
यच्च वज्रमहापीडा नरकं वज्रनिर्मितम् ॥१३०॥

तत्र प्रक्षिप्य दह्यन्ते पीड्यन्ते यमकिंकरैः ।
धनं धानयं हिरण्यं वा परकीयं हरन्ति ये ॥१३१॥

यमदुतैश्च चौरास्ते छिद्यन्ते लवशः क्षुरैः ।
ये हत्वा प्राणिनं मूढाः खादन्ते काकगृध्रवत्‌ ॥१३२॥

भोज्यन्ते च स्वमांसं ते कल्पान्तं यमकिंकरैः ।
आसनं शयनं वस्त्रं परकीयं हरन्ति ये ॥१३३॥

यमदूतैश्च ते मूढा भिद्यन्ते शक्तितोमरैः ।
फलं पत्रं नृणां वाऽपि हृतं यैस्तु कुबुद्धिभिः ॥१३४॥

यमदूतैश्च ते क्रुद्धैर्दह्यन्ते तृणवह्निभिः ।
परद्रव्ये कलत्रे च यः सदा दुष्टधीर्नरः ॥१३५॥

यमदुतैर्ज्वलत्तस्य हृदि शूलं निखन्यते ।
कर्मणा मनसा वाचा ये धर्मविमुखा नराः ॥१३६॥

यमलोके तु ते घोरा लभन्ते परियातनाः ।
एवं शतसहस्राणि लक्षरोटिशतानि च ॥१३७॥

नरकाणि नरैस्तत्र भुज्यन्ते पापकारिभिः ।
इह कृत्वा स्वल्पमपि नरः कर्माशुभात्मकम् ॥१३८॥

प्राप्नोति नरके घेरे यमलोकेषु यातनाम् ।
न श्रृण्वन्ति नरा मूढा धर्मोक्तं साधु भाषितम् ॥१३९॥

दृष्टं केनेति प्रत्यक्षं प्रत्युक्त्यैवं वदन्ति ते ।
दिवा रात्रो प्रयत्नेन पापं कुर्वन्ति ये नराः ॥१४०॥

नाऽऽचरन्ति हि ते धर्मं प्रमादेनापि मोहिताः ।
इहैव फलभोक्तारः परत्र विमुखाश्च ये ॥१४१॥

ते पतन्ति सुघोरेषु नरकेषु नराधमाः ।
दारुणो नरके वासः स्वर्गवासः सुखप्रदः ॥
नरैः संप्राप्यते तत्र कर्म कृत्वा शुभाशुभम् ॥१४२॥

इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे नरकगतपृथग्यातनाकीर्तनं नाम पञ्चदशाधिकद्विशततमोऽध्यायः ॥२१५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:45.5530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

रुपास येणें

  • आकार येणें 
  • उत्पन्न होणें 
  • नांवारुपास येणें 
  • चांगल्या स्थितीप्रत येणें 
More meanings
RANDOM WORD

Did you know?

गणेशोत्सवाच्या काळात सत्यनारायण पूजा करावी काय? मग कोणती पूजा करावी?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site