TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २१०

ब्रह्मपुराणम् - अध्यायः २१०

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः २१०
भूमिभारावतरणकथनम्
व्यास उवाच
एवं दैत्यवधं कृष्णो बलदेवसहायवान् ।
चक्रे दुष्टचक्षितिशानां तथैव जगतः कृते ॥१॥

क्षितेश्च भारं भगवान्फाल्गुनेन समं विभुः ।
अवतारयामास हरिः समस्ताक्षौहिणीवधात् ॥२॥

कृत्वा भारावतरणं भुवो हत्वाऽखिलान्नृपान् ।
शापव्यजेन विप्राणामुपसंहृतवान्कुलम् ॥३॥

उत्सृज्य द्वारकां कृष्णस्त्यक्त्वा मानुष्यमात्मभूः ।
स्वांशो विष्णुमयं स्थानं प्रविवेश पुनर्निजम् ॥४॥

मुनय ऊचुः
स विप्रशापव्याजेन संजह्ने स्वकुलं कथम् ।
कथं च मानुषं देहमुत्ससर्ज जनार्दनः ॥५॥

व्यास उवाच
विश्वामित्रस्तथा कण्वो नारदश्च महामुनिः ।
पिण्डारके महातीर्थे दृष्टा यदुकुमारकैः ॥६॥

ततस्ते यौवनोन्मत्ता भाविकार्यप्रचोदिताः ।
साम्बं जाम्बवतीपुत्रं भूषयित्वा स्त्रियं यथा ॥
प्रसृतास्तान्मुनीनूचुः प्रणिपातपुरः सरम् ॥७॥

कुमारा ऊचुः
इयं स्त्री पुत्रकामा तु प्रभो किं जनयिष्यति ॥८॥

व्यास उवाच
दिव्यज्ञानोपपन्नास्ते विप्रलब्धा कुमारकैः ।
शापं ददुस्तदा विप्रास्तेषां नाशाय सुव्रताः ॥९॥

मुनयः कुपिताः प्रोचुर्मुशलं जनयिष्यति ।
येनाखिलकुलोत्सादो यादवानां भविष्यति ॥१०॥

इत्युक्तास्तैः कुमारास्त आचचक्षुर्यथातथम् ।
उग्रसेनाय मुशलं जज्ञे साम्बस्य चोदरात् ॥११॥

तदुग्रसेनो मुशलमयश्चूर्णमकारयत् ।
जज्ञे तच्चैरका चूर्णं प्रक्षिप्तं वै महोदधौ ॥१२॥

मुसलस्याथ लौहस्य चूर्णितस्यान्धकैर्द्विजाः ।
खण्डं चूर्णयितुं शेकुर्नैव ते तोमराकृति ॥१३॥

तदप्यम्बुनिधौ क्षिप्तं मत्स्यो जग्राह जालिभिः ।
घातितस्योदरात्तस्य लुब्धो जग्राह तज्जरा ॥१४॥

विज्ञातपरमार्थोऽपि भगवान्मधुसूदनः ।
नैच्छत्तदन्यथा कर्तुं विधिना यत्समाहृतम् ॥१५॥

देवैश्च प्रहितो दूतः प्रणिपत्याऽऽह केशवम् ।
रहस्येवमहं दूतः प्रहितो भगवन्सुरैः ॥१६॥

वस्वश्विमरूदादित्यरुद्रसाध्यादिभिः सह ।
विज्ञापयति वः शक्रस्तदिदं श्रूयतां प्रभो ॥१७॥

देवा ऊचुः
भारावतरणार्थाय वर्षाणामधिकं शतम् ।
भगवानवतीर्णोऽत्र त्रिदशैः संप्रसादितः ॥१८॥

दुर्वृत्ता निहता दैत्या भुवो भारोऽवतारितः ।
त्वया सनाथास्त्रिदशा व्रजन्तु त्रिदिवेशताम् ॥१९॥

तदतीतं जगन्नाथ वर्षाणामधिकं शतम् ।
इदानीं गम्यतां स्वर्गो भवते यदि रोचते ॥२०॥

देवैर्विज्ञापितो देवोऽप्यथात्रैव रतिस्तव ।
तत्स्थीयतां यथाकालमाख्येयमनुजीविभिः ॥२१॥

श्रीभगवानुवाच
यत्त्वमात्थाखिलं दूत वेद्‌मि चैतदहं पुनः ।
प्रारब्ध एव हि मया यादवानामपि क्षयः ॥२२॥

भुवो नामातिभारोऽयं यादवैरबर्हितैः ।
अवतारं करोम्यस्य सप्तरात्रेण सत्वरः ॥२३॥

यथागृहीतं चाम्भोधौ हृत्वाऽहं द्वारकां पुनः ।
यादवानुपसंहृत्य यास्यामि त्रिदशालयम् ॥२४॥

मनुष्यदेहमुत्सृज्य संकर्षणसहायवान् ।
प्राप्त एवास्मि मन्तव्यो देवेन्द्रेण तथा सुरैः ॥२५॥

जरासंधादयो येऽन्ये निहता भारहेतवः ।
क्षितेस्तेंभ्यः स भारो हि यदूनां समधीयत ॥२६॥

तदेतत्सुमहाभारमवतार्य क्षितेरहम् ।
यास्याम्यमरलोकस्य पालनाय ब्रवीहि तान् ॥२७॥

व्यास उवाच
इत्युक्तो वासुदेवेन देवदूतः प्रणम्य तम् ।
द्विजाः स दिव्यया गत्या देवराजान्तिकं ययौ ॥२८॥

भगवानप्यथोत्पातान्दिव्यान्भौमान्तरिक्षगान् ।
ददर्श द्वारकापुर्यां विनाशाय दिवानिशम् ॥२९॥

तान्दृष्ट्वा यादवानाह पश्यध्वमतिदारुणान् ।
महोत्पाताञ्शमयैषां प्रभासं याम मा चिरम् ॥३०॥

व्यास उवाच
महाभागवतः प्राह प्रणिपत्योद्धवो हरिम् ॥३१॥

उद्धव उवाच
भगवन्यन्मया कार्यं तदाज्ञापय सांप्रतम् ।
मन्ये कुलमिदं सर्वं भगवान्संहरिष्यति ॥
नाशायास्य निमित्तनि कुलस्याच्युत लक्षये ॥३२॥

श्रीभगवानुवाच
गच्छ त्वं दिव्यया गत्या मत्प्रसादसमुत्थया ।
बदरीमाश्रमं पुण्यं गन्धमादनपर्वते ॥३३॥

नरनारायणस्थाने पवित्रितमहीतले ।
मन्मना मत्प्रसादेन तत्र सिद्धिमवाप्स्यसि ॥३४॥

अहं स्वर्गं गमिष्यामि उपसंहृत्य वै कुलम् ।
द्वारकां च मया त्यक्तां समुद्रः प्लावयिष्यति ॥३५॥

व्यास उवाच
इत्युक्तः प्रणिपत्यैनं जगाम स तदोद्धवः ।
नरनारायणस्थानं केशवेनानुमोदितः ॥३६॥

ततस्ते यादवाः सर्वे रथनारुह्य शीघ्रगान् ।
प्रभासं प्रययुः सार्धं कृष्णरामादिभिर्द्विजाः ॥३७॥

प्राप्य प्रभासं प्रयता प्रीतास्ते कुक्कुरान्धकाः ।
चक्रुस्तत्र सुरापानं वासुदेवानुमोदिताः ॥३८॥

पिबतां तत्र वै तेषां संघर्षेण परस्परम् ।
यादवानां ततो जज्ञे कलहाग्निः क्षयावहः ॥३९॥

जघ्नुः परस्परं ते तु शस्त्रैर्दैवबलात्कृताः ।
क्षीणशस्त्रास्तु जगृहुः प्रत्यासन्नामथैरकाम् ॥४०॥

एरका तु गृहीता तैर्वज्रभूतेव लक्ष्यते ।
तया परस्परं जघ्नुः संप्रहारैः सुदारुणैः ॥४१॥

प्रद्युम्नसाम्बप्रमुखाः कृतवर्माऽथ सात्यकिः ।
अनिरुद्धादयश्चन्ये पृथुर्विपृथुरेव च ॥४२॥

चारुवर्मा सुचारुश्च तथाऽक्रूरादयो द्विजाः ।
एरकारूपिभिर्वज्रैस्ते निजघ्नुः परस्परम् ॥४३॥

निवारयामास हरिर्यादवास्ते च केशवम् ।
सहायं मेनिरे प्राप्तं ते निजध्नुः परस्परम् ॥४४॥

कृष्णोऽपि कुपितस्तेषामेरकामुष्टिमाददे ।
वधाय तेषां मुशलं मुष्टिलोहमभूत्तदा ॥४५॥

जघान तेन निःशेषानातततायी स यादवान् ।
जघ्नुश्च सहसाऽभ्येत्य तथाऽन्ये तु परस्परम् ॥४६॥

ततश्चार्णवमध्येन जैत्रोऽसौ चक्रिणो रथः ।
पश्यतो दारुकस्याऽऽसु हृतोऽश्वैर्द्विजसत्तमाः ॥४७॥

चक्रं गदा तथा शार्ङ्गं तूणौ शङ्खोऽसिरेव च ।
पश्यतो दारुकस्याऽऽशु हृतोऽश्वैर्द्विजसत्तमाः ॥४८॥

क्षणमात्रेण वै तत्र यादवानामभूत्क्षयः ।
ऋते कृष्णं महाबाहुं दारुकं च द्विजोत्तमाः ॥४९॥

चङ्क्रम्यमाणौ तौ रामं वृक्षमूलकृतासनम् ।
ददृशाते मुखाच्चास्य निष्क्रामन्तं महोरगम् ॥५०॥

निष्क्रम्य स मुखात्तस्य महाभोगो भुजंगमः ।
प्रयातश्चार्णवं सिद्धैः पूज्यमानस्तथोरगैः ॥५१॥

तभेर्घ्यमादाय तदा जलधिः संमुखं ययौ ।
प्रविवेश च तत्तोयं पूजितः पन्नगोत्तमैः ॥
दृष्ट्वा बलस्य निर्याणं दारुकं प्राह केशवः ॥५२॥

श्रीभगवानुवाच
इदं सर्वं त्वमाचक्ष्व वसुदेवोग्रसेनयोः ।
निर्याणं बलदेवस्य यादवानां तथा क्षयम् ॥५३॥

योगे स्थित्वाऽहमप्येतत्परित्यज्य कलेवरम् ।
वाच्यश्च द्वारकावासी जनः सर्वस्तथाऽऽहुकः ॥५४॥

यथेमां नगरीं सर्वां समुद्रः प्लावयिष्यति ।
तस्माद्रतैः सुसज्जैस्तु प्रतीक्ष्यो ह्यर्जुनागमः ॥५५॥

न स्थेयं द्वारकामध्ये निष्क्रान्ते तत्र पाण्डवे ।
तेनैव सह गन्तव्यं यत्र याति स कौरवः ॥५६॥

गत्वा च ब्रूहि कौन्तेयमर्जुनं वचनं मम ।
पालनीयस्त्वया शक्त्या जनोऽयं मत्परिग्रहः ॥५७॥

इत्यर्जुनेन सहितो द्वारवत्यां भवाञ्जनम् ।
गृहीत्वा यातु वज्रश्च यदुराजो भविष्यति ॥५८॥

इति श्रीमहापुराणे आदिब्राह्मे श्रीकृष्णचरिते श्रीकृष्णनिजधामगमननिरूपणं नाम दशाधिकद्विशततमोऽध्यायः ॥२१०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:45.2870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

background of the case

  • विषयमामले की पृष्ठभूमिका आधार 
  • प्रकरणाचीबाबीचीखटल्याची पार्श्वभूमी 
RANDOM WORD

Did you know?

अशुभ कार्य करून आल्यावर, घरात प्रवेश करण्यापूर्वी पाय कां धुवावेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site