TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १५७

ब्रह्मपुराणम् - अध्यायः १५७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १५७
किष्किन्धातीर्थवर्णनम्
ब्रह्मोवाच
किष्किन्धातीर्थमाख्यातं सर्वकामप्रदं नृणाम् ।
सर्वपापप्रशमनं यत्र संनिहितो भवः ॥१॥

तस्य स्वरूपं वक्ष्यामि यत्नेन श्रृणु नारद ।
पुरा दाशरथी रामो रावणं लोकरावणम् ॥२॥

किष्किन्धावासिभिः सार्धः जघान रणमूर्धनि ।
सुपुत्रं सबलं हत्वा सीतामादाय शत्रुहा ॥३॥

भ्रात्रा सौमित्रिणा सार्धं वानरैश्च महाबलैः ।
विभीषणएन बलिना देवैः प्रत्यागतो नृपः ॥४॥

कृतस्वस्त्ययनः श्रीमान्पुष्पकेण विराजितः ।
यदासीद्धनराजस्य कामगेनाऽऽशुगामिना ॥५॥

अयोध्यामगमन्सर्वे गच्छन्गङ्गामपश्यत ।
रामो विरामः शत्रूणां शरण्यः शरणार्थिनाम् ॥६॥

गौतमीं तु जगत्पुण्यां सर्वकामप्रदायिनीम् ।
मनोनयनसंतापनिवारणपरायणाम् ॥७॥

तां दृष्ट्वा नृपतिः श्रीमान्गङ्गातीरमथाऽऽविशत् ।
तां दृष्ट्वा प्राह नृपतिर्हर्षगद्‌गदया गिरा ॥
हरीन्सर्वानथाऽऽमन्त्र्य हनुमत्प्रमुखान्मुने ॥८॥

राम उवाच
अस्याः प्रभावद्धरयो याऽसौ मम पिता प्रभुः ।
सर्वपापविनिर्मुक्तस्ततो यातस्त्रिविष्टपम् ॥९॥

इयं जनित्री सकलस्य जन्तोर्भुक्तिप्रदा मुक्तिमथापि दद्यात् ।
पापानि हन्यादपि दारुणानि, काऽन्याऽनयाऽस्त्यत्र नदी समाना ॥१०॥

हतानि शश्वद्‌दुरितानि चैव, अस्याः प्रभावादरयः सखायः ।
विभीषणो मैत्रमुपैति नित्यं, सीता च लब्धा हनूमांश्च बन्धुः ॥११॥

लङ्का च भग्ना सगणं हि रक्षो, हतं हि यस्याः परिसेवनेन ।
यां गौतमो देववरं प्रपूज्य, शिवं शरण्यं सजटामवाप ॥१२॥

सेयं जनित्री सकलेप्सितानाममङ्गलानामपि संनिहन्त्री ।
जगत्पवित्रीकरणैकदक्षा, दृष्टाऽद्य साक्षात्सरितां सवित्री ॥१३॥

कायेन वाचा मनसा सदैनां, व्रजामि गङ्गां शरणं शरण्याम् ॥१४॥

ब्रह्मोवाच
एतत्समाकर्ण्य वचो नृपस्य, तत्राऽऽप्लवन्हरयः सर्व एव ।
पूजां चक्रुर्विधिवत्ते पृथक्च, पुष्पैरनेकैः सर्वलोकोपहारैः ॥१५॥

संपूज्य सर्वं नृपतिर्यथावत्स्तुत्वा वाक्यैः सर्वभावोपयुक्तैः ।
ते वानरा मुदिताः सर्व एव, नृत्यं च गीतं च तथैव चक्रुः ॥१६॥

सखोषितस्तां रजनीं महात्मा, प्रियानुयुक्तः संवृतः प्रेमवद्‌भिः ।
दुःखं जहौ सर्वममित्रसभवं, किं नाऽऽप्यते गौतमीसेवनेन ॥१७॥

सविस्मयः पश्यति भृत्यवर्गं, गोदावरीं स्तौति च संप्रहृष्टः ।
संमानयन्भृत्यगणं समग्रमवाप रामः कमपि प्रमोदम् ॥
पुनः प्रभाते विमले तु सूर्ये, विभीषणो दाशरथिं बभाषे ॥१८॥

विभीषण उवाच
नाद्यापि तृप्तास्तु भवाम तीर्थे, कंचिच्च कालं निवसाम चात्र ।
वत्स्य(सा)म चात्रैव पराश्चतस्रो, रात्रीरथो याम वृतास्त्वयोध्याम ॥१९॥

ब्रह्मोवाच
तस्याथ वाक्यं हरयोऽनुमेनिरे, तथैव रात्रीरपराश्चतस्रः ।
संपूज्य देवं सकलेश्वरं तं, भ्रातृप्रियं तीर्थमथो जगाम ॥२०॥

सिद्धेश्वरं नाम जगत्प्रसिद्धं, यस्य प्रभावात्प्रबलो दशास्यः ।
एवं तु पञ्चाहमथोषिरे ते, स्वं स्वं प्रतिष्ठापितलिङ्गामर्च्य ॥२१॥

शुश्रुषणं तत्र करोति वायोः, सुतोऽनुगामी हनुमान्नृपस्य ।
गच्छन्नृपेन्द्रो हनुमन्तमाह, लिङ्गानि सर्वाणि विसर्जयस्व ॥२२॥

मत्स्थापितान्युत्तममन्त्रविद्‌भिस्तथेतरैः शंकरकिंकरैश्च ।
नोद्वास्य पूजां परशंकरेण, बाह्यं समायोज्यमहो भवस्य(?) ॥२३॥

तिष्ठन्ति सुस्थास्तदनादरेण, ते खड्गपत्रादिषु संभवन्ति ।
येऽश्रद्दधानाः शिवलिङ्गपूजां, विधाय कृत्यं न समाचरन्ति ॥२४॥

यथोचितं ते यमकिंकरैर्हि, पच्यन्त एवाखिलदुर्गतीषु ।
रामाज्ञया वायुसुतो जगाम, दोर्भ्यां न चोत्पाटयितुं शशाक ॥२५॥

ततः स्वपुच्छेन ग्रहीतुकामः, संवेष्ट्य लिङ्गं तु विसृष्टकामः ।
नैवाशकत्तन्महदद्भुतं स्यात्कपीश्वराणां नृपतेस्तथैव ॥२६॥

कश्चालयेल्लब्धमहानुभावं, महेशलिङ्गं पुरुषो मनस्वी ।
तन्निश्चलं प्रेक्ष्य महानुभावो, नृपप्रवीरः सहसा जगाम ॥२७॥

विप्रानथाऽऽमन्त्र्य विधाय पूजां, प्रदक्षिणीकत्य च रामचन्द्रः ।
शुद्धतिशुद्धेन हृदाऽखिलैस्तैर्लिङ्गानि सर्वाणि ननाम रामः ॥२८॥

किष्किन्धवासिप्रवरैरशेषैः, संसेवितं तीर्थमतो बभव ।
अत्राऽऽप्लवादेव महानति पापान्यपि क्षयं यान्ति न संशयाऽत्र ॥२९॥

पुनश्च गङ्गां प्रणनाम भक्त्या, प्रसीद मातर्मम गौतमीति ।
जल्पन्मुहुर्विस्मितचित्तवृत्तिर्विलोक्यन्प्रणमन्गौतमीं तात् ॥३०॥

ततः प्रभृत्येतदतीव पुण्यं, किष्किन्धतीर्थं विबुधा वदन्ति ।
पठेत्स्मरेद्वाऽपि शृणोति भक्त्या, पापापहं किं पुनः स्नानदानैः ॥३१॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये किष्किन्धातीर्थवर्णनं नाम सप्तपञ्चाशदधिकशततमोऽध्यायः ॥१५७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:42.2230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

संपत्-त्ति

  • f  Wealth; attainment; prosperity. 
RANDOM WORD

Did you know?

अतिथी व अतिथिसत्कार याचे विशेष महत्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site