TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १३१

ब्रह्मपुराणम् - अध्यायः १३१

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १३१
यमतीर्थवर्णनम्
ब्रह्मोवाच
यमतीर्थमिति ख्यातं पितॄणां प्रीतिवर्धनम् ।
अशेषपापशमनं तत्र वृत्तमिदं श्रृणु ॥१॥

तत्राऽऽख्यानमिदं त्वासीदितिहासं पुरातनम् ।
सरमेति प्रसिद्धाऽस्ति नाम्ना देवशुनी मुने ॥२॥

तस्याः पुत्रौ महाश्रेष्ठौ श्वानौ नित्यं जनाननु ।
गामिनौ पवनाहारौ चतुरक्षौ यमप्रियौ ॥३॥

गा रक्षति स्म देवानां यज्ञार्थं कल्पितान्पशून् ।
रक्षन्तीमनुजग्मुस्ते राक्षसा दैत्यदानवाः ॥४॥

रक्षन्तीं तां महाप्राज्ञाः श्वानयोर्मातरं शुनीम् ।
प्रलोभयित्वा विविधैर्वाक्यैर्दानैश्च यत्नतः ॥५॥

हृता गा राक्षसैः पापैः पश्वर्थे कल्पिताः शुभाः ।
तत आगत्य सा देवानिदमाह क्रमाच्छुनी ॥६॥

सरमोवाच
मां बद्‌ध्वा राक्षसैः पाशैस्ताडयित्वा प्रहारकैः ।
नीता गा यज्ञसिद्ध्यर्थं कल्पिताः पश्वः सुराः ॥७॥

ब्रह्मोवाच
तस्या वाचं निशम्याऽऽशु सुरान्प्राह बृहस्पतिः । १३१.८॥

बृहस्पतिरुवाच
इयं विकृतरूपाऽऽस्ते अस्याः पापं च लक्ष्ये ।
अस्या मतेन ता गावो नीता नान्येन हेतुना ॥
पापेयं सुकृतीवेति लक्ष्यते देहचेष्टितैः ॥९॥

ब्रह्मोवाच
तद्‌गुरोर्वचनाच्छक्रः पदा तां प्राहरच्छुनीम् ।
पदाघातात्तदा तस्या मुखात्क्षीरं प्रसुस्रुवे ॥१०॥

पुनः प्राह शचीभर्ता क्षीरं पीतं त्वया शुनि ।
राक्षसैश्च तदा दत्तं तस्मान्नीतास्तु गा मम ॥११॥

सरमोवाच
नापराधोऽस्ति मे नाथ न चान्यस्यापि कस्यचित् ।
नापराधो न चोपेक्षा ममास्ति त्रिदशेश्वर ॥
तस्माद्रुष्टोऽसि किं नाथ रिपवो बलिनस्तु ते ॥१२॥

ब्रह्मोवाच
ततो ध्यात्वा देवगुरुर्ज्ञात्वा तस्या विचेष्टितम् ।
सत्यं शक्रं त्वियं दुष्टा रिपूणां पक्षकारिणी ॥१३॥

ततः शशाप तां शक्रः पापिष्ठे त्वं शुनी भव ।
मर्त्यलोके पापभूता अज्ञानात्पापकारिणी ॥१४॥

तदेन्द्रस्य तु शापेन मानुषे सा यजायत ।
यथा शप्ता मघवता पापात्सा ह्यतिभीषणा ॥१५॥

गावो या राक्षसैर्नीतास्तामामानयनाय च ।
यत्नं कुर्वन्सुरपतिर्विष्णवे तन्न्‌यवेदयत् ॥१६॥

विष्णुदैत्यांश्च दनुजान्गोहर्तंश्चैव राक्षसान् ।
हन्तुं प्रयत्नमकरोज्जगृहे च हद्धनुः ॥१७॥

शार्ङ्ग यल्लोकविख्यातं दैत्यनाशनमेव च ।
जितारिः पूजितो देवैः स्वयं स्थित्वा जनार्दनः ॥१८॥

यत्र वै दण्डकारण्ये शार्ङ्गपाणिर्जगत्प्रभुः ।
तत्रस्थान्दैत्यदनुजान्राक्षसांश्च बलीयसः ॥१९॥

पुनर्जघ्ने स वै विष्णुर्गा यैर्नाताश्च राक्षसैः ।
तत्र वै दण्डकारण्ये शार्ङ्गपाणिरिति श्रुतः ॥२०॥

युध्यमानस्ततो विष्णुर्दितिजै राक्षसैः सह ।
ते जग्मुर्दक्षिणामाशां विष्णोस्त्रासान्महामुने ॥२१॥

अन्वगच्छत्ततो विष्णुस्तानेव परमेश्वरः ।
गरुत्मता तानवाप्य शार्ङ्गमुक्तैर्मनोजवैः ॥२२॥

बाणैस्तान्व्याहनद्विष्णुर्गङ्गाया उत्तरे तटे ।
देवारयः क्षयं नीता विष्णुना प्रभविष्णुना ॥२३॥

शार्ङ्गमुक्तैर्महावेगैः सुस्वनैश्च सुमन्त्रितः ।
क्षयं प्राप्ता विष्णुबाणैस्ततस्ते देवशत्रवः ॥२४॥

गावो लब्धा यत्र देवैर्बाणतीर्थं तदुच्यते ।
वैष्णवं लोकविदितं गोतीर्थं चेति विश्रुतम् ॥२५॥

पश्वर्थे कल्पिता गावो गङ्गाया दक्षिणे तटे ।
प्रद्रुतास्ते सुराः सर्वे गङ्गायां संन्यवेशयन् ॥२६॥

तन्मध्ये कारयामासुर्द्धीपं चैवाऽऽश्रयं गवाम् ।
तैर्गोभिस्तत्र गङ्गायां सुरयज्ञो व्यजायत ॥२७॥

यज्ञतीर्थं तु तत्प्रोक्तं गोद्वीपं गाङ्गमध्यतः ।
देवानां यजनं तच्च सर्वकामप्रदं शुभम् ॥२८॥

स्वयं मूर्तिमती भूत्वा गङ्गाशक्तिर्महाद्युते ।
असारापारसंसारसागरोत्तरणे तरिः ॥२९॥

विश्वेश्वरी योगमाया सद्‌भक्ताभयदायिनि ।
गोरक्षं तु ततस्तीर्थं गङ्गाया दक्षिणे तटे ॥३०॥

तौ श्वानौ सरमापुत्रौ चतुरक्षो यमप्रियौ ।
मातुः शापं चापराधं सर्वं चापि सविस्तरम् ॥३१॥

निवेद्य तु यथान्यायं कार्यं चापि सुखप्रदम् ।
विशापकरणं चापि पप्रच्छतुरुभौ यमम् ॥३२॥

स ताभ्यां सहितः सौरिः पित्रे सूर्याय चाब्रवीत् ।
श्रुत्वा सूर्यः सुतं प्राह गङ्गायां सुरसत्तम ॥३३॥

लोकत्रयैकपावन्यां गौतम्यां दण्डके वने ।
श्रद्धया परया वत्स सुस्नातः सुसमाहितः ॥३४॥

ब्रह्माणं चैव विष्णुं च मामीशं च यथाक्रमम् ।
स्तुहि त्वं सर्वभावेन भृत्यौ प्रीतिमवाप्स्यतः ॥३५॥

तत्पितुर्वचनं श्रुत्वा यमः प्रीतमनास्तदा ।
तयोश्च प्रीयते प्रायाद्देवतर्पणयोर्यमः ॥३६॥

गोतम्वामघहारिण्यां सुसमाहितमानसः ।
तथैव तोषयामास गङ्गायां सुरसत्तमान् ॥३७॥

श्वभ्यां च सहितः श्रीमान्दक्षिणाशापतिः प्रभुः ।
ब्रह्माणं तोषयामास भानुं वै दक्षिणे तटे ॥३८॥

ईशानमुत्तरे विष्णुं स्वयं धर्मः प्रतापवान् ।
दत्तवन्तो वरं श्रेष्ठं सरमाया विशापकम् ॥
वरानयाचत बहूंल्लोकानामुपकारकान् ॥३९॥

यम उवाच
एषु स्नानं तु ये कुर्युर्ब्रह्मविष्णुमहेश्वराः ।
आत्मार्थं च परार्थं च ते कामानाप्नुयुः शुभान् ॥४०॥

 तु ये स्नात्वा शाङ्गेपणिं स्मरन्ति वै ।
तेभ्यो दारिद्र्‌यदुःखानि न भवेयुर्युगे युगे ॥४१॥

गोतीर्थे ब्रह्मतीर्थे वा यस्तु स्नात्वा यतव्रतः ।
ब्रह्माणं तं नमस्याथ द्वीपस्यापि प्रदक्षिणम् ॥४२॥

यः कुर्यात्तेन पृथिवी सप्तद्वीपा वसुंधरा ।
प्रदक्षिणीकृता तत्र किंचिद्दत्त्वा वसु द्विजम् ॥४३॥

तद्देवयजनं प्राप्य किंचिद्‌धुत्वा हुताशने ।
अश्वमेधादियज्ञानां फलं प्राप्नोति पुष्कलम् ॥४४॥

यः सकृत्तत्र पठति गायत्रीं वेदमातरम् ।
अधीतास्तेन वेदा वै निष्कामो प्राप्नोति पुष्कलम् ॥४५॥

स्नात्वा तु दक्षिणे कूले शक्तिं देवीं तु भक्तितः ।
पूजयित्वा यथान्यायं सर्वान्कामानवाप्नुयात् ॥४६॥

ब्रह्मविष्णुमहेशानां शक्तिर्माता त्रयीमयी ।
सर्वान्कामानवाप्नोति(स्नात्वाऽत्र पूजयेद्यस्तां) ॥
पुत्रवान्धनवान्भवेत् ॥४७॥

आदित्यं भक्तितो यस्तु दक्षिणे नियतो नरः ।
स्नात्वा पश्येत तेनेष्टा यज्ञा विविधदक्षिणाः ॥४८॥

कूले यश्चोतरे चैव गङ्गाया दैत्यसूदनम् ।
स्नात्वा पश्येत तं नत्वा तस्य विष्णोः परं पदम् ॥४९॥

यमेश्वरं ततो यस्तु यमतीर्थे तु पूजितम् ।
स्नातः पश्यति युक्तात्मा स करोत्यचिरेण हि ॥५०॥

पितृणामक्षयं पुण्यं फलदं कीर्तिवर्धनम् ।
तत्र स्नानेन दानेन जपेन स्तवनेन च ॥
अपि दुष्कृतकर्माणः पितरो मोक्षमाप्नुयुः ॥५१॥

ब्रह्मोवाच
इत्याद्यष्ट सहस्राणी तीर्थानि त्रीणि नारद ।
तेषु स्नानं च दानं च सर्वमक्षयपुण्यदम् ॥५२॥

एतेषां स्मरणं पुण्यं नानाजन्माघनाशनम् ।
श्रवणात्पितृभिः सार्धं पठनात्स्वकुलैः सह ॥५३॥

तेषामप्यतिपापानि नाशं यान्ति ममाऽऽज्ञया ।
तत्र स्नानादि यः कृत्वा किंचिद्दत्वा यतात्मवान् ॥५४॥

पितॄणां पिण्डनानादि कृत्वा नत्वा सुरानिमान् ।
धनं धान्यं यशो वीर्यमायुरारोग्यसंपदः ॥५५॥

पुत्रान्पौत्रान्प्रियां भार्यां लब्ध्वा चान्यन्मनीषितम् ।
अवियुक्तः प्रीतमना बन्धुभिश्चातिमानितः ॥५६॥

नरकस्थानपि पितॄंस्तारयित्वा कुलानि च ।
पावयित्वा प्रियैर्युक्तो ह्यन्ते विष्णुं शिवं स्मरेत् ॥
ततो मुक्तिपदं गच्छेद्‌देवानां वचनं यथा ॥५७॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये बाणतीर्थशार्ङगपाणीयगोद्वीपदेवयजनब्रह्मतीर्थशक्तियमादित्यसुपर्णदैत्यसूदनयमेश्वरपितृतीर्थादि त्र्यधिकाष्टसहस्रतीर्थवर्णनं नामैकत्रिंशदधिकशततमोऽध्यायः ॥१३१॥

गौतमीमाहात्म्ये द्विषष्टितमोऽध्यायः ॥६२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:40.8170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

इंझाळ

  • पु. ( व . ) 
  • पाटाच्या खालच्या बाजूस लावलेला आडवा दांडा ; पाय ; अडात पहा . 
  • कवाडाला लावलेला आडवा दांडा . इंडाळें पहा . 
RANDOM WORD

Did you know?

गांवे, नद्या, समुद्र, देवदेवता किंवा अन्य नांवांची उत्पत्ती काय असेल? नांवे कशी पडली असतील?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site