TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १९३

ब्रह्मपुराणम् - अध्यायः १९३

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १९३
कुब्जोद्धारवर्णनम्
व्यास उवाच
राजमार्गे ततः कृष्णः सानुलेपनभाजनाम् ।
ददर्श कुब्जामायान्तीं नवयौवनगोचराम् ॥१॥

तामाह ललितं कृष्णं कस्येदमनुलेपनम् ।
भवत्या नीयते सत्यं वदेन्दीवरलोचने ॥२॥

सकामेनैव सा प्रोक्ता सानुरागा हरिं प्रति ।
प्राह सा ललितं कुब्जा ददर्श च बलात्ततः ॥३॥

कुब्जोवाच
कान्त कस्मान्न जानासि कंसेनापि नियोजिता ।
नैकवक्रेति विख्यातामनुलेपनकर्मणि ॥४॥

नान्यपिष्टं हि कंसस्य प्रीतये ह्यनुलेपनम् ।
भवत्यहमतीवास्य प्रसादधनभाजनम् ॥५॥

श्रीकृष्ण उवाच
सुगन्धमेतद्राजार्हं रुचिरं रुचिरानने ।
आवयोर्गात्रसदृशं दीयतामनुलेपनम् ॥६॥

व्यास उवाच
श्रुत्वा तमाह सा कृष्णं गृह्यतामिति सादरम् ।
अनुलेपं च प्रददौ गात्रयोग्यमथोभयोः ॥७॥

भक्तिच्छेदानुलिप्ताङ्गौ ततस्तौ पुरुषर्षभौ ।
सेन्द्रचापौ विराजन्तौ सितकृष्णाविवाम्बुदौ ॥८॥

ततस्तां चिबुके शौरिरुल्लापनविधानवित् ।
उल्लाप्य तोलयामास द्व्यङ्गुलेनाग्रपाणिना ॥९॥

चकर्ष पद्भ्यां च तदा ऋजुत्वं केशवोऽनयत् ।
ततः सा ऋजुतां प्राप्ता योषितामभवद्वरा ॥१०॥

विलासललितं प्राह प्रेमगर्भभरालसम् ।
वस्त्रे प्रगृह्य गोविन्दं व्रज गेहं ममेति वै ॥११॥

आयास्ये भवतीगेहमिति तां प्राह केशवः ।
विससर्ज जहासोच्चै रामस्याऽऽलोक्य चाऽऽननम् ॥१२॥

भक्तिच्छेदानुलिप्ताङ्गौ नीलपीताम्बरावुभौ ।
धनुःशालं ततो यातौ चित्रमाल्योपसोभितौ ॥१३॥

अध्यास्य च धनूरत्नं ताभ्यां पृष्टैस्तु रक्षिभिः ।
आख्यातं सहसा कृष्णो गृहीत्वाऽपूरयद्धनुः ॥१४॥

ततः पूरयता तेन भज्यमानं बलाद्धनुः ।
चकारातिमहाशब्दं मथुरा तेन पूरिता ॥१५॥

अनुयुक्तौ ततस्तौ च भग्ने धनुषि रक्षिभिः ।
रक्षिसैन्यं निकृत्योभौ निष्क्रान्तौ कार्मुकालयात् ॥१६॥

अक्रूरागमवृत्तान्तमुपलभ्य तथा धनुः ।
भग्नं श्रुत्वाऽथ कंसोऽपि प्राह चाणूरमुष्टिकौ ॥१७॥

कंस उवाच
गोपालदारकौ प्राप्तौ भवद्भ्यां तौ ममाग्रतः ।
मल्लयुद्धेन हन्तव्यौ मम प्राणहरौ हि तौ ॥१८॥

नियुद्धे तद्विनाशेन भवद्‌भ्यां तोषितो ह्यहम् ।
दास्याम्यभिमतान्कामान्नान्यथैतन्महाबलौ ॥१९॥

न्यायतोऽन्यायतो वाऽपि भवद्‌भ्यां तौ ममाहितौ ।
हन्तव्यौ तद्वधाद्राज्यं सामान्यं वो भविष्यति ॥२०॥

व्यास उवाच
इत्यादिस्य स तौ मल्लौ ततश्चाऽहूय हस्तिपम् ।
प्रोवाचोच्चैस्त्वया मत्तः समाजद्वारि कुञ्जरः ॥२१॥

स्थाप्यः कुवलयापीडस्तेन तौ गोपदारकौ ।
घातनीयौ नियुद्धाय रङ्गद्वारमुपागतौ ॥२२॥

तमाज्ञाप्याथ दृष्ट्वा च मञ्चान्सर्वानुपाहृतान् ।
आसन्नमरणः कंसः सूर्योदयमुदैक्षत ॥२३॥

ततः समस्तमञ्चेषु नागरः स तदा जनः ।
राजमञ्चेषु चाऽऽरूढाः सह भृत्यैर्महीभृतः ॥२४॥

मल्लप्राश्निकवर्गश्च रङ्गमध्ये समीपगः ।
कृतः कंसेन कंसोऽपि तुङगमञ्चे व्यवस्तितः ॥२५॥

अन्तःपुराणां मञ्चाश्च यथाऽन्ये परिकल्पिताः ।
अन्ये च वारमुख्यानामन्ये नगरयोषिताम् ॥२६॥

नन्दगोपादयो गोपा मञ्चेष्वन्येष्ववस्तिताः ।
अक्रूरवसुदेवौ च मञ्चप्रान्ते व्यवस्थितौ ॥२७॥

नगरीयोषितां मध्ये देवकी पुत्रगर्धिनी ।
अन्तकालेऽपि पुत्रस्य द्रक्ष्यामीति मुखं स्थिता ॥२८॥

वाद्यमानेषु तूर्येषु चाणूरे चातिवल्गति ।
हाहाकारपरे लोक आस्फोटयति मुष्टिके ॥२९॥

हत्वा कुवलयापीडं हस्त्यारोहप्रचोदितम् ।
मदासृगनुलिप्ताङ्गौ गजदन्तवरायुधौ ॥३०॥

मृगमध्ये यथा सिंहौ गर्वलीलावलोकिनौ ।
प्रविष्टौ सुमहारङ्गं बलदेवजनार्दनौ ॥३१॥

हाहाकारो महाञ्जज्ञे सर्वरङ्गेष्वनन्तरम् ।
कृष्णोऽयं बलभद्रोऽयमति लोकस्य विस्मयात् ॥३२॥

सोऽयं येन हता घोरा पूतना सा निशाचरी ।
प्रक्षिप्तं शकटं येन भग्नौ च यमलार्जुनौ ॥३३॥

सोऽयं यः कालियं नागं ननर्ताऽऽरुह्य बालकः ।
धृतो गोवर्धनो येन सप्तरात्रं महागिरिः ॥३४॥

अरिष्टो धेनुकः केशी लीलयैव महात्मना ।
हतो येन च दुर्वृत्तो दृश्यते सोऽयमच्युतः ॥३५॥

अयं चास्य महाबाहुर्बलदेवोऽग्रजोऽग्रतः ।
प्रयाति लीलया योषिन्मनोनयननन्दनः ॥३६॥

अयं स कथ्यते प्राज्ञैः पुराणार्थावलोकिभिः ।
गोपालो यादवं वंशं मग्नमभ्युद्धरिष्यति ॥३७॥

अयं स सर्वभूतस्य विष्णोरखिलजन्मनः ।
अवतीर्णो महीमंशो नुनं भारहरो भुवः ॥३८॥

इत्येवं वर्णिते पौरे रामे कृष्णे च तत्क्षणात् ।
उरस्तताप देवक्याः स्नेहस्नुतपयोधरम् ॥३९॥

महोत्सवमिवालोक्य पुत्रावेव विलोकयन् ।
युवेव वसुदेवोऽभूद्विहायाभ्यागतां जराम् ॥४०॥

विस्तारिताक्षियुगला राजान्तःपुरयोषितः ।
नागरस्त्रीसमूहश्च द्रष्टुं न विरराम तौ ॥४१॥

स्त्रिय ऊचुः
सख्यः पश्यत कृष्णस्य मुकमप्यम्बुजेक्षणम् ।
गजयुद्धकृतायासस्वेदाम्बुकणिकाञ्चितम् ॥४२॥

विकासीव सरोम्भोजमवश्यायजलोक्षितम् ।
परिभूताक्षरं जन्म सफलं क्रियतां दृशः ॥४३॥

श्रीवत्साङ्कं जगद्वाम बालस्यैतद्विलोक्यताम् ।
विपक्षक्षपणं वक्षो भुजयुग्मं च भामिनि ॥४४॥

बल्गता मुष्टिकेनैव चाणूरेण तथा परैः ।
क्रियते बलभद्रस्य हास्यमीषद्विलोक्यताम् ॥४५॥

सख्यः पश्यत चाणूरं नियुद्धार्थमयं हरिः ।
समुपैति न सन्त्यत्र किं वृद्धा युक्तकारिणः ॥४६॥

क्व यौवनोन्मुखीभूतः सुकुमारतनुर्हरिः ।
क्व वज्रकठिनाभोगशरीरोऽयं महासुरः ॥४७॥

इमौ सुललितौ रङ्गे वर्तेते नवयौवनौ ।
दैतेयमल्लाश्चाणूरप्रमुखास्त्वतिदारुणाः ॥४८॥

नियुद्धप्राशिनकानां तु महानेष व्यतिक्रमः ।
यद्‌बालबलिनोर्युद्धं मध्यस्थैः समुपेक्ष्यते ॥४९॥

व्यास उवाच
इत्थं पुरस्त्रीलोकस्य वदतश्चायन्भुवम् ।
ववर्ष हर्षोत्कर्षं च जनस्य भगवान्हरिः ॥५०॥

बलभद्रोऽपि चाऽऽस्फोट्य ववल्ग ललितं यदा ।
पदे पदे तदा भूमिर्न शीर्णा यत्त दद्भनुतम् ॥५१॥

चाणूरेण ततः कृष्णो युयुधेऽमितविक्रमः ।
नियुद्धकुशलो दैत्यों बलदेवेन मुषिटकः ॥५२॥

संनिपातावधूतैश्च चाणूरेण समं हरिः ।
क्षेपणैर्मुष्टिभिश्चैव कीलीवज्रनिपातनैः ॥५३॥

पादौद्धूतैः प्रमृष्टाभिस्तयोर्युद्धमभून्महत् ।
अशस्त्रमतिघोरं तत्तयोर्युद्धं सुदारुणम् ॥५४॥

स्वबलप्राणनिष्पाद्यं समाजोत्सवसंनिधौ ।
यावद्यावच्च चाणूरो युयुधे हरिणा सह ॥५५॥

प्राणहानिमवापाग्य्रां तावत्तावन्न बान्धवम् ।
कृष्णोऽपि युयुधे तेन लीलयैव जगन्मयः ॥५६॥

खेदाच्चालयता कोपान्निजशेषकरे करम् ।
बलक्षयं विवृद्धिं च दृष्ट्वा चाणूरकृष्णयोः ॥५७॥

वारयामास तूर्याणि कंसः कोपपरायणः ।
मृदङ्गदिषु वाद्येषु प्रतिषिद्धेषु तत्क्षणात् ॥५८॥

खसंगतान्यवाद्यन्त दैवतूर्याण्यनेकशः ।
जय गोविन्द चाणूरं जहि केशव दानवम् ॥५९॥

इत्यन्तर्धिगता देवास्तुष्टुवुस्ते प्रहर्षिताः ।
चाणूरेण चिरं कालं क्रीडित्वा मधुसूदनः ॥६०॥

उत्पाट्य भ्रामयामास तद्वधाय कृतोद्यमः ।
भ्रामयित्वा शतगुणं दैत्यमल्लममित्रजित् ॥६१॥

भूमावास्फोटयामास गगने गतजीवितम् ।
भूमावास्फोटितस्तेन चाणूरः शतधा भवन् ॥६२॥

रक्तस्रावमहापङ्कां चकार स तदा भुवम् ।
बलदेवस्तु तत्कालं मुष्टिकेन महाबलः ॥६३॥

युयुधे दैत्यमल्लेन चाणूरेण यथा हरिः ।
सोऽप्येनं मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना ॥६४॥

पातयित्वा धरापृष्ठे निष्पिपेष गतायुषम् ।
कष्णस्तोशलकं भूयो मल्लराजं महाबलम् ॥६५॥

वाममुष्टिप्रहारेण पातयामास भूतले ।
चाणूरे निहते मल्ले मुष्टिके च निपातिते ॥६६॥

नीते क्षयं तोशलके सर्वे मल्लाः प्रदुद्रुवुः ।
ववल्गतुस्तदा रङ्गे कृष्णसंकर्षणावुभौ ॥६७॥

समानवयसो गोपान्बलादाकृष्य हर्षितौ ।
कंसोऽपि कोपरक्ताक्षः प्राहोच्चैर्व्यायतान्नरान् ॥६८॥

गोपावेतौ समाजौघान्निष्क्रम्येतां बलादितः ।
नन्दोऽपि गृह्यतां पापो निगडैराशु बध्यताम् ॥६९॥

अवृद्धार्हेण दण्डेन वसुदेवोऽपि वध्यताम् ।
वल्गन्ति गोपाः कृष्णेन ये चेमे सहिताः पुनः ॥७०॥

गावो ह्रियन्तामेषां च यच्चास्ति वसु किंचन ।
एवामाज्ञापयन्तं तं प्रहस्य मधुसूदनः ॥७१॥

उत्पत्याऽऽरुह्य तन्मञ्चं कंसं जग्राह वेगितः ।
केशेष्वाकृष्य विगलत्किरीटमवनीतले ॥७२॥

स कंसं पातयामास तस्योपरि पपात च ।
निःशेषजगदाधारगुरुणा पततोपति ॥७३॥

कृष्णेन त्याजितः प्राणान्नुग्रसेनात्मजो नृपः ।
मृतस्य केशेषु तदा गृहीत्वा मधुसूदनः ॥७४॥

चकर्ष देहं कंसस्य रङ्गमध्ये महाबलः ।
गौरवेणातमहता परिपातेन कृष्यता ॥७५॥

कृता कंसस्य देहेन वेगितेन महात्मना ।
कंसे गृहीते कृष्णेन तद्‌भ्राताऽभ्यागतो रुषा ॥७६॥

सुनामा बलभद्रेण लीलयेव निपातितः ।
ततो हाहाकृतं सर्वमासीत्तद्रङ्गमण्डलम् ॥७७॥

अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम् ।
कृष्णोऽपि वसुदेवस्य पादौ जग्राह सत्वरम् ॥७८॥

देवक्याश्च महाबाहुर्बलदेवसहायवान् ।
उत्थाप्य वसुदेवस्तु देवकी च जनार्दनम् ॥
स्मृतजन्मोक्तवचनौ तावेव प्रणतौ स्थितौ ॥७९॥

वसुदेव उवाच
प्रसीद देवदेवेश देवानां प्रवर प्रभो ।
तथाऽऽवयोः प्रसादेन कृताभ्युद्धार केशव ॥८०॥

आराधितो यद्‌भगवानवतीर्णो गृहे मम ।
दुर्वृत्तनिधनार्थाय तेन नः पावितं कुलम् ॥८१॥

त्वमन्तः सर्वभूतानां सर्वभूतेष्वस्थितः ।
वर्तते च समस्तात्मंसत्वत्तो भूतभविष्यती ॥८२॥

यज्ञे त्वमिज्यसेऽचिन्त्य सर्वदेवमयाच्युते ।
त्वमेव यज्ञो यज्वा च यज्ञानां परमेश्वर ॥८३॥

सापह्नवं मम मनो यदेतत्तवयि जायते ।
देवक्याश्चाऽऽत्मजप्रीत्या तदत्यन्तविडम्बना ॥८४॥

त्वं कर्ता सर्वभूतानामनादिनिधनो भवान् ।
क्व च मे मानुषस्यैषा जिह्वा पुत्रेति वक्ष्यति ॥८५॥

जगदेतज्जगन्नाथ संभूतमखिलं यतः ।
कया युक्ताय विना मायां सोऽस्मत्तः संभविष्यति ॥८६॥

यस्मिन्प्रतिष्ठितं सर्वं जगत्स्थावरजङ्गमम् ।
स कोष्ठोत्सङ्गशयने मनुष्याज्जायते कथम् ॥८७॥

स त्वं प्रसीद परमेश्वर पाहि विश्वमंशावतारकरणैर्न ममासि पुत्रः ।
आब्रह्मपादपमयं जगदीश सर्वं, चित्ते विमोहयसि किं परमेश्वरात्मन् ॥८८॥

मायाविमोहितदृशा तनयो ममेति, कंसाद्भयं कृतवता तु मयाऽतितीव्रम् ।
नीतोऽसि गोकुलमरातिभयाकुलस्य, वृद्धिं गतोऽसि मम चैव गवामधीश ॥८९॥

कर्माणि रुद्रमरुदश्विशतक्रतूनां, साध्यानि यानि न भवन्ति निरीक्षितानि ।
त्वं विष्णुरीशजगतामुपकार्हेतोः प्राप्तोऽसि नः परिगतः परमो विमोहः ॥९०॥

इति श्रीमहापुराणे आदिब्राह्मे बालचरितेकंसवधकथनं नाम त्रिनवत्यधिकशततमोऽध्यायः ॥१९३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:44.3970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

advance bill

  • लदान पूर्व बिल 
  • न. अग्रिम बिल 
RANDOM WORD

Did you know?

कांही धर्मात प्रेताचे दहन तर कांहीत दफन कां करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.