TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १५८

ब्रह्मपुराणम् - अध्यायः १५८

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १५८
व्यासतीर्थवर्णनम्
ब्रह्मोवाच
व्यासतीर्थमिति ख्यातं प्राचेतसमतः परम् ।
नातः परतरं किंचित्पावनं सर्वसिद्धिदम् ॥१॥

दश मे मानसाः पुत्राः स्रष्टारो जगतामपि ।
अन्तं जिज्ञासवस्ते वै पृथिव्या जग्मुरोजसा ॥२॥

पुनः सृष्टाः पुनस्तेऽपि यातास्तान्समवेक्षितुम् ।
नैव तेऽपि समायाता ये गतास्ते गता गताः ॥३॥

तदोत्पन्ना महाप्राज्ञा दिव्या आङ्गिरसो(सा)मुने ।
वेदवेदाङ्गतत्त्वज्ञाः सर्वशास्त्रविशारदाः ॥४॥

तेऽनुज्ञाता अङ्गिरसा गुरुं नत्वा तपोधनाः ।
तपसे निश्चिताः सर्वे नैव पृष्ट्वा तु मातरम् ॥५॥

सर्वेभ्यो ह्यधिका माता गुरुभ्यो गौरवेण हि ।
तदा नारद कोपेन सा शशाप तदाऽऽत्मजान् ॥६॥

मातोवाच
मामनादृत्य ये पुत्राः प्रवृत्ताश्चरितुं तपः ।
सर्वैरपि प्रकारैस्तन्न तेषां सिद्धिमेष्यति ॥७॥

ब्रह्मोवाच
नानादेशांश्च चिन्वानास्तपः सिद्धिं न यान्ति च ।
विध्नमन्वेति तान्सर्वानितश्चेतश्च धावतः ॥८॥

क्वापि तद्राक्षसैर्विघ्नं क्वापि तन्मानुषैरभूत् ।
प्रमदाभिः क्वचिच्चापि क्वापि तद्देदोषतः ॥९॥

एवं तु भ्रममाणास्ते ययुः सर्वे तपोनिधिम् ।
आगस्त्यं तपतां श्रेष्ठं कुम्भयोनिं जगद्‌गुरुम् ॥१०॥

नमस्कृत्वा ह्याङ्गिरसा ह्यग्निवंशसमुद्‌भवाः ।
दक्षिणाशपतिं शान्तं विनीताः प्रष्टुमुद्यताः ॥११॥

आङ्गिरसा ऊचुः
भगवन्केन दोषेण तपोऽस्माकं न सिध्यति ।
नानाविधैरप्युपायैः कुर्वतां च पुनः पुनः ॥१२॥

किं कुर्मः कः प्रकारोऽत्र तपस्येव भवाम किम् ।
उवायं ब्रूहि विप्रेन्द्र ज्येष्ठोऽसि तपसा घ्रुवम् ॥१३॥

ज्ञाताऽसि ज्ञानिनां ब्रह्मन्वक्ताऽसि वदतां वरः ।
शान्तोऽसि यमिनां नित्यं दयावान्प्रियकृत्तथा ॥१४॥

अक्रोनश्च न द्वेष्टा तस्माद्म्ब्रूहि विवक्षितम् ।
साहंकारा दयाहीना गुरुसेवाविवर्जिताः ॥
असत्यवादिनः क्रूरा न ते तत्त्वं विजानते ॥१५॥

ब्रह्मोवाच
आगस्त्यः प्राह तान्सर्वान्क्षणं ध्यात्वा शनैः शनैः ॥१६॥

अगस्त्य उवाच
शान्तात्मानो भवन्तो वै स्रष्टारो ब्रह्मणा कृताः ।
न पर्याप्तं तपश्चाभूत्स्मरध्वं स्मयकारणम् ॥१७॥

ब्रह्मण निर्मिताः पूर्वं ये गताः सुखमेधते ।
ये गताः पुनरन्वेष्टुं च त्वाङ्गिरसोऽभवन् ॥१८॥

ते युयं च पुनः काले याता याताः शनैः शनैः ।
प्रजापतेरप्यधिका भवितारो न संशयः ॥१९॥

इतो यान्तु तपस्तप्तुं गङ्गां त्रैलोक्यपावनीम् ।
नोपायोऽन्योऽस्ति संसारे विना गङ्गां शिवप्रियाम् ॥२०॥

तत्राऽऽश्रमे पुण्यदेशे ज्ञानदं पूजयिष्यथ ।
स च्छेदयिष्यत्यखिलं संशयं वो महामतिः ॥
न सिद्धिः क्वापि केषांचिद्विना सद्‌गुरुणा यतः ॥२१॥

ब्रह्मोवाच
ते तमूचुर्मुनिवरं ज्ञानदः कोऽभिधीयते ।
ब्रह्मा विष्णुर्महेशो वा आदित्यो वाऽपि चन्द्रमाः ॥२२॥

अग्निश्च वरुणः कः स्याज्ज्ञानदो मुनिसत्तम ।
अगस्त्यः पुनरप्याह ज्ञानदः श्रुयतामयम् ॥२३॥

या आपः सोऽग्निरित्युक्तो योऽग्निः सूर्यः स उच्यते ।
यश्च सूर्यः स वै विष्णुर्यश्च विष्णुः स भास्करः ॥२४॥

यश्च ब्रह्मा स वै रुद्रो यो रुद्रः सर्वंमेव तत् ।
यस्य सर्वं तु तज्ज्ञानं ज्ञानदः सोऽत्र कीर्त्यते ॥२५॥

देशिकप्रेरकव्याख्याकृदुपाध्यायदेहदाः ।
गुरवः सन्ति बहवस्तेषां ज्ञानप्रदो महान् ॥२६॥

तदेव ज्ञानमत्रोक्तं येन भेदो विहन्यते ।
एक एवाद्वयः शंभुरिन्द्रमित्राग्निनामभिः ॥
वदन्ति बहुधा विप्रा भ्रान्तोपकृतिहेतवे ॥२७॥

ब्रह्मोवाच
एतच्छ्रुत्वा मुनेर्वाक्यं गाथा गायन्त एव ते ।
जग्मुः पञ्चोत्तरां गङ्गां पञ्च जग्मुश्च दक्षिणाम् ॥२८॥

अगस्त्येनोदितान्देवान्पूजयन्तो यथाविधि ।
आसनेषु विशेषेण ह्यासीनास्तत्त्वचिन्तकाः ॥२९॥

तेषां सर्वे सुरगणाः प्रीतिमन्तोऽभवन्मुने ।
स्रष्टृत्वं तु युगादौ यत्कल्पितं विश्वयोनिना ॥३०॥

अधर्माणां निवृत्त्यर्थं वेदानां स्थापनाय च ।
लोकानामुपकारार्थं धर्मकामार्थसिद्धये ॥३१॥

पुराणस्मृतिवेदार्थधर्मशास्त्रार्थनिश्चये ।
स्रष्टृत्वं जगतामिष्टं तादृग्रूपा भविष्यथ ॥३२॥

प्रजापतित्वं तेषां वै भविष्यति शनैः क्रमात् ।
यदा ह्यधर्मो भविता वेदानां च पराभवः ॥३३॥

वेदानां व्यसनं तेभ्यो भाविव्यासास्ततस्तु ते ।
यदा यदा तु धर्मस्य ग्लानिर्वेदस्य दृश्यते ॥३४॥

तदा तदा तु ते व्यासा भविष्यन्त्युपकारिणः ।
तेषां यत्तपसः स्थानं गङ्गायास्तीरमुत्तमम् ॥३५॥

तत्र तत्र शिवो विष्णुरहमादित्य एव च ।
अग्निरापः सर्वमिति तत्र संनिहितं सदा ॥३६॥

नैतेभ्यः पावनं किंचिन्नैतेभ्यस्त्वधिकं क्वचित् ।
तत्तदाकारतां प्राप्तं परं ब्रह्मैव केवलम् ॥३७॥

सर्वात्मकः शिवो व्यापि सर्वभावस्वरूपधृक् ।
विशेषतस्तत्र तीर्थे सर्वप्राण्यनुकम्पया ॥३८॥

सर्वैर्देवैरनुवृतस्तदनुग्रहकारकः ।
धर्मव्यासास्तु ते ज्ञेया वेदव्यासास्तथैव च ॥३९॥

तेषां तीर्थं तेन नाम्ना व्यपदिष्टं जगत्त्रये ।
पापपङ्कक्षालनाम्भो मोहध्वन्तमदापहम् ॥
सर्वसिद्धिप्रदं पुंसां व्यासतीर्थमनुत्तमम् ॥४०॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये व्यासतीर्थवर्णनं नामाष्टपञ्चाशदधिकशततमोऽध्यायः ॥१५८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:42.2870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ankyloglossia

  • स्त्री. बद्धजिवा 
RANDOM WORD

Did you know?

सोळा मासिक श्राद्धें कोणती ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site