TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १५४

ब्रह्मपुराणम् - अध्यायः १५४

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अध्यायः १५४
सहस्रकुण्डाख्यतीर्थवर्णनम्
ब्रह्मोवाच
सहस्रकुण्डमाख्यातं तीर्थं वेदविदो विदुः ।
यस्य स्मरणमात्रेण सुखी संपद्यते नरः ॥१॥

पुरा दाशरथी रामः सेतुं बद्‌ध्वा महार्णवे ।
लङ्कां दग्ध्वा रिपून्हत्वा रावणादीन्रणे शरैः ॥२॥

वैदेहीं च समासाद्य रामो वचनमब्रवीत् ।
पश्यत्सु लोकपालेषु तस्याऽऽचार्ये पुरः स्थिते ॥३॥

अग्नौ शुद्धिगतां सीतां रामो लक्ष्मणसंनिधौ ।
एहि वैदेहि शुद्धऽसि अङ्कमारोढुमर्हसि ॥४॥

नेत्युवाच तदा श्रीमानङ्गदो हनुमांस्तथा ।
अयोध्यायां तु वैदेहि सार्धं यामः सुहृज्जनैः ॥५॥

तत्र शुद्धिमवाप्याथ पुनर्भातृषु मातृषु ।
लौकिकेष्वपि पश्यत्सु ततः शुद्धा नृपात्मजा ॥६॥

अयोध्यायां सुपुण्येऽह्नि अङ्कमारोढुमर्हंसि ।
अस्याश्चरित्रविषये संदेहः कस्य जायते ॥७॥

लोकापवादस्तदपि निरस्यः स्वजनेषु हि ।
तयोर्वाक्यमनादृत्य लक्ष्मणः सविभीषणः ॥८॥

रामश्च जाम्बवांश्चैव तामाह्वयन्नृपात्मजाम् ।
स्वस्तीत्युक्ता देवताभी राज्ञोङ्कं चाऽऽरुरोह सा ॥९॥

मुदतिस्ते ययुः शीघ्रं पुष्पकेण विराजता ।
अयोध्यां नगरीं प्राप्य तथा राज्यं स्वकं तु यत् ॥१०॥

मुदितास्तेऽभवन्सर्वे सदा रामानुवर्तिनः ।
ततः कतिपयाहेषु अनार्येभ्यो विरूपिकाम् ॥११॥

वाचं श्रुत्वा स तत्याज गुर्विणीं तामयोनिजाम् ।
मिथ्यापवादमपि हि न सहन्ते कुलोन्नताः ॥१२॥

वाल्मीकेर्मुनिमुख्यस्य आश्रमस्य समीपतः ।
तत्याज लक्ष्मणः सीतामदुष्टां रुदतीं रुदन् ॥१३॥

नोल्लङ्घ्याऽऽज्ञा गुरूणामित्यसौ तदकरोद्भिया ।
ततः कतिपयाहेतु व्यतीतेषु नृपात्मजः ॥१४॥

रामः सौमित्रिणा सार्धं हयमेधाय दीक्षितः ।
तत्रैवाऽऽजग्मतुरुभौ रामपुत्रौ यशस्विनौ ॥१५॥

लवः कुशश्च विख्यातौ नारदाविव गायकौ ।
रामायणं समग्रं तद्‌गन्धर्वाविव सुस्वरौ ॥१६॥

रामाय चरितं सर्वं गायमानौ समीयतुः ।
यज्ञवाटं राजसुतौ हेतुभिर्लक्षितौ तदा ॥१७॥

रामपुत्रावुभौ शूरौ वैदेह्यास्तनयाविति ।
तावानीय ततः पुत्रावभिषच्य यथाक्रमम् ॥१८॥

अङ्कारूढौ ततः कृत्वा सस्वजे तौ पुनः पुनः ।
संसारदुःखिन्नानामगतीनां शरीरिणाम् ॥१९॥

पुत्रालिङ्गनमेवात्र परं विश्रान्तिकारणम् ।
मुहुरालिङ्ग्य तौ पुत्रौ मुहुः स्वजति चुम्बति ॥२०॥

किमप्यन्तर्ध्याति च निःश्वसत्यपि वै मुहुः ।
एतस्मिन्नन्तरे प्राप्ता राक्षसा लङ्कवासिनः ॥२१॥

सुग्रीवो हनुमांश्चैव अङ्गदो जाम्बवांस्तथा ।
अन्ये च वानराः सर्वे विभीषणपुरः सराः ॥२२॥

ते चाऽऽगत्य नृपं प्राप्ताः सिंहासनमुपस्थितम् ।
सीतामदृष्ट्वा हनुमानङ्गदः कनकाङ्गदः ॥२३॥

क्व गताऽयोनिजा माता एको रामोऽत्र दृश्यते ।
रामेण सा परित्यक्ता इत्यूचुर्द्वारपालकाः ॥२४॥

पश्यत्सु लोकपालेषु आर्ये तत्र प्रवादिनि ।
अग्नौ शुद्धिगतां(ता)सीतां(ता)किंतु राजा निरंकुशः ॥२५॥

उत्पन्नैर्लौकिकैर्वाक्यै रामस्त्यजति तां प्रियाम् ।
मरिष्याव इति ह्युक्त्वा गौतमीं पुनरीयतुः ॥२६॥

रामस्तौ पृष्ठतोऽभ्येत्य(?)अयोध्यावासिभिः सह ।
आगत्य गौतमीं तत्राकुर्वंस्त परमं तपः ॥२७॥

स्मारं स्मारं निश्वसन्तस्तां सीतां लोकमातरम् ।
संसारास्थाविरहिता गौतमीसेवनोत्सुकाः ॥२८॥

लोकत्रयपतिः साक्षाद्रामोऽनुजसमन्वितः ।
प्राप्तं स्नात्वा च गौतम्यां शिवाराधनतत्परः ॥२९॥

परितापं हजौ सर्वं सहस्रपरिवारितः ।
यत्र चाऽऽसीत्स वृत्तान्तः सहस्रकुण्डमुच्यते ॥३०॥

दशापराणि तीर्थानि तत्र सर्वार्थदानि च ।
तत्र स्नानं च दानं च सहस्रफलदायकम् ॥३१॥

यत्र श्रीगौतमीतीरे वसिष्ठादिमुनीश्वरैः ।
सर्वापत्तारकं होममकारयदघान्तकम् ॥३२॥

सहस्रसंख्यायुक्तेषु कुण्डेषु वसुधारया ।
सर्वानपेक्षितान्कामानवापासौ महातपाः ॥३३॥

गौतम्याः सरिदम्बायाः प्रसादाद्राक्षसान्तकः ।
सहस्रकुण्डाभिधं तदभूत्तीर्थं महाफलम् ॥३४॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये सहस्रकुण्डादिदशतीर्थवर्णनं नाम चतुष्पञ्चाशदधिकशततमोऽध्यायः ॥१५४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:42.0670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

माहोरा

  • पु. ( व . ) संवय ; अभ्यास ; माहुरा पहा . 
RANDOM WORD

Did you know?

सोळा मासिक श्राद्धें कोणती ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site