संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय २८१

प्रभासक्षेत्र माहात्म्यम् - अध्याय २८१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
कस्यचित्त्वथ कालस्य त्रिदशावश्विनौ प्रिये ॥
कृताभिषेकां विवृतां सुकन्यां तामपश्यताम् ॥१॥
तां दृष्ट्वा दर्शनीयांगीं देवराजसुतामिव ॥
ऊचतुः समभिद्रुत्य नासत्यावश्विनावथ ॥२॥
कस्य त्वमसि वामोरु किं वनेऽस्मिंश्चिकीर्षसि॥
इच्छावस्त्वां च विज्ञातुं तत्त्वमाख्याहि शोभने ॥३॥
ततः सुकन्या संवीता तावुवाच सुरोत्तमौ ॥
शर्यातितनयां वित्तं भार्यां च च्यवनस्य माम् ॥४॥
ततोऽश्विनौ प्रहस्यैनामब्रूतां पुनरेव तु ॥
कथं त्वं च विदित्वा तु पित्रा दत्ताऽऽगता वने ॥५॥
भ्राजसे गगनोद्देशे विद्युत्सौदामनी यथा ॥
न देवेष्वपि तुल्यां हि तव पश्याव भामिनि ॥६॥
सर्वाभरणसंपन्ना परमांबरधारिणी ॥
मामैवमनवद्यांगि त्यजैनमविवेकिनम् ॥७॥
कस्मादेवंविधा भूत्वा जराजर्जरितं भुवि ॥
त्वमुपास्ये हि कल्याणि कामभावबहिष्कृतम् ॥८॥
असमर्थं परित्राणे पोषणे वा शुचिस्मिते ॥
सा त्वं च्यवनमुत्सृज्य वरयस्वैकमावयोः ॥९॥
पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः ॥
एवमुक्ता सुकन्या सा सुरौ ताविदमब्रवीत् ॥१०॥
रताऽहं च्यवने पत्यौ न चैवं परिशंकतम् ॥
तावब्रूतां पुनश्चैतामावां देवभिषग्वरौ ॥११॥
युवानं रूपसंपन्नं करिष्यावः पतिं तव ॥
ततस्तस्यावयोश्चैव पतिमेकतमं वृणु ॥१२॥
एतेन समयेनावां शमं नय सुमध्यमे ॥
सा तयोर्वचनाद्देवि उपसंगम्य भार्गवम् ॥
उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति ॥१३॥
तद्वाक्यं च्यवनो भार्यामुवाचाद्रियतामिति ॥
इत्युक्ता च्यवनेनाथ सुकन्या तावुवाच वै ॥१४॥
एवं देवौ भवद्भ्यां यत्प्रोक्तं तत्कियतां लघु ॥
इत्युक्तौ भिषजौ तत्र तया चैव सुकन्यया ॥
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ॥१५॥
ततोऽपश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह ॥
अश्विनावपि तद्देवि ततः प्राविशतां जलम् ॥१६॥
ततो मुहूर्त्तादुत्तीर्णाः सर्वे ते सरसस्ततः ॥
दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः ॥१७॥
दिव्यवेषधराश्चैव मनसः प्रीतिवर्द्धनाः ॥
तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे ॥१८॥
अस्माकमीप्सितं भद्रे यतस्त्वं वरवर्णिनी ॥
यत्र वाप्यभि कामासि तं वृणीष्व सुशोभने ॥१९॥
सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान् ॥
निश्चित्य मनसा बुद्ध्या देवि वव्रे पतिं स्वकम् ॥२०॥
लब्ध्वा तु च्यवनो भार्यां वयोरूपमवस्थितः ॥
हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ॥२१॥
यदहं रूपसंपन्नो वयसा च समन्वितः ॥
कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवान्निजाम् ॥
तद्ब्रूतं वै विधास्यामि भवतोर्यदभीप्सितम् ॥२२॥
 ॥अश्विनावूचतुः॥
आवां तु देवभिषजौ न च शक्रः करोति नौ ॥
सोमपानार्हतां तस्मात्कुरु नौ सोमपायिनौ ॥२३॥
 ॥च्यवन उवाच॥
अहं वां यज्ञभागार्हौ करिष्ये सोमपायिनौ ॥२४॥
 ॥ईश्वर उवाच॥
ततस्तौ हृष्टमनसौ नासत्यौ दिवि जग्मतुः ॥
च्यवनोऽपि सुकन्या च सुराविव विजह्रतुः ॥२५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये च्यवनेश्वर माहात्म्यवर्णनंनामैकाशीत्युत्तरद्विशततमोऽध्यायः ॥२८१॥

N/A

References : N/A
Last Updated : January 13, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP