संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १४

प्रभासक्षेत्र माहात्म्यम् - अध्याय १४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥देव्युवाच॥
यदेतद्भवता प्रोक्तं माहात्म्यं सूर्यदैवतम्॥
तन्मे विस्तरतो ब्रूहि देवदेव जगत्पते ॥१॥
कथमर्कस्थलो भूतः प्रभासक्षेत्रभूषणः ॥
पूजनीयो महादेवः सम्यग्यात्राफलेप्सुभिः ॥२॥
के मंत्राः किं विधानं तु केषु पर्वसु पूजयेत्॥
जैगीषव्येश्वरो भूत्वा ह्यभूत्सिद्धेश्वरः कथम् ॥
तन्मे कथय देवेश विस्तरात्सर्वमेव हि ॥३॥
पाताले विवरं तत्र योगिन्यस्तत्र किं पुरा ॥
तथा मातृगणश्चैव कथमेतदभूत्पुरा ॥४॥
एतत्सर्वमशेषेण दयां कृत्वा जगत्पते ॥
ममाचक्ष्व विरूपाक्ष यद्यहं ते प्रिया हर ॥५॥
 ॥ईश्वर उवाच॥
साधु पृष्टं त्वया देवि कथयामि समासतः ॥
सिद्धेश्वरो ह्यभूद्येन जैगीषव्येश्वरो हरः ॥६॥
पूजाविधानं विस्तीर्य तन्मे निगदतः शृणु ॥
आसीदस्मिन्कृते देवि सर्व ज्ञानविशारदः ॥७॥
पुत्रः शतकलाकस्य जैगीषव्य इति श्रुतः ॥
प्रभासक्षेत्रमासाद्य स चक्रे दुश्चरं तपः ॥८॥
अतिष्ठद्वायुभक्षश्च वर्षाणां शतकं किल ॥
अम्बुभक्षः सहस्रं तु शाकाहारोऽयुतं तथा ॥९॥
चांद्रायणसहस्रं च कृतं सांतपनं पुनः ॥
शोषयित्वा मिताहारो दिग्वासाः समपद्यत ॥१०॥
पूर्वे कल्पे स्वयं भूतं महोदयमिति श्रुतम् ॥
स लिंगं देवदेवस्य प्रतिष्ठाप्यार्चयन्नपि ॥११॥
भस्मशायी भस्मदिग्धो नृत्त गीतैरतोषयत् ॥
जपेन वृषनादैश्च तपसा भावितः शुचिः ॥१२॥
तमेवं तोषयाणं तु भक्त्या परमया युतम् ॥
भगवांश्च तमभ्येत्य इदं वचनमब्रवीत् ॥१३॥
जैगीषव्य महाबुद्धे पश्य मां दिव्यचक्षुषा ॥
तुष्टोऽस्मि वरदश्चाहं ब्रूहि यत्ते मनोगतम् ॥१४॥
स एवमुक्तो देवेन देवं दृष्ट्वा त्रिलोचनम्॥
प्रणम्य शिरसा पादाविदं वचनमब्रवीत् ॥१५॥
 ॥जैगीषव्य उवाच॥
भगवन्देवदेवेश मम तुष्टो यदि प्रभो ॥
ज्ञानयोगं हि मे देहि यः संसारनिकृन्तनम् ॥१६॥
भगवन्नान्यदिच्छामि योगात्परतरं हितम् ॥
त्वयि भक्तिश्च नित्यं मे देव्यां स्कन्दे गणेश्वरे ॥ ॥१७॥
न च व्याधिभयं भूयान्न च तेजोऽपमानता ॥
अनुत्सेकं तथा क्षांतिं दमं शममथापि च ॥१८॥
एतान्वरान्महादेव त्वदिच्छामि त्रिलोचन ॥१९॥
 ॥ईश्वर उवाच॥
अजरश्चामरश्चैव सर्वशोकविवर्जितः ॥
महायोगी महावीर्यो योगैश्वर्यसमन्वितः ॥२०॥
प्रभावाच्चास्य क्षेत्रस्य गुह्यस्य मम शाश्वतम् ॥
योगाष्टगुणमैश्वर्यं प्राप्स्यसे परमं महत् ॥२१॥
भविष्यसि मुनिश्रेष्ठ योगाचार्यः सुविश्रुतः ॥२२॥
यश्चेदं त्वत्कृतं लिगं नियमेनार्चयिष्यति ॥
सर्वपापविनिर्मुक्तो योगं दिव्यमवाप्स्यति ॥२३॥
जैगीषव्यगुहां चेमां प्राप्य योगं करोति यः ॥
स सप्तरात्राद्युक्तात्मा संसारं संतरिष्यति ॥२४॥
मासेन पूर्वजातिं च जन्मातीतं च वेत्स्यति ॥
एकरात्रात्तनुं शुद्धां द्वाभ्यां तारयते पितॄन्॥
त्रिरात्रेण व्यतीतेन त्वपरान्सप्त तारयेत् ॥२५॥
पुनश्च तव विप्रर्षे अजेयत्वं च योगिभिः ॥
इच्छतो दर्शनं चैव भविष्यति च ते मम ॥२६॥
इति देवो वरान्दत्त्वा तत्रैवांतरधीयत ॥
एतत्कृतयुगे वृत्तं तव देवि प्रभाषितम् ॥२७॥
त्रेतायुगे महादेवि द्वापरेऽपि तथैव च ॥
कलियुगप्रवेशे तु वालखिल्या महर्षयः ॥२८॥
अस्मिन्प्राभासिके क्षेत्रे सूर्यस्थलसमीपतः ॥
आराधयंतो देवेशं गुहामध्यनिवासिनम् ॥२९॥
अष्टाशीतिसहस्राणि ऋषयश्चोर्द्धरेतसः ॥
वर्षायुतं तपस्तप्त्वा सिद्धिं जग्मुस्तदात्मिकाम्॥३०॥
ततः सिद्धेश्वरं लिंगं कलौ ख्यातं वरानने ॥
यदा सोमेन संयुक्ता कृष्णा शिवचतुर्दशी ॥
तदैव तस्य देवस्य दर्शनं देवि दुर्ल्लभम् ॥३१॥
ब्रह्मांडं सकलं दत्त्वा यत्पुण्यमुपजायते ॥
तत्पुण्यं लभते देवि सिद्धलिंगस्य पूजनात् ॥३२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सिद्धेश्वरोत्पत्तिवर्णनंनाम चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : January 07, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP