संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्| अध्याय १६७ प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ अध्याय २८० अध्याय २८१ अध्याय २८२ अध्याय २८३ अध्याय २८४ अध्याय २८५ अध्याय २८६ अध्याय २८७ अध्याय २८८ अध्याय २८९ अध्याय २९० अध्याय २९१ अध्याय २९२ अध्याय २९३ अध्याय २९४ अध्याय २९५ अध्याय २९६ अध्याय २९७ अध्याय २९८ अध्याय २९९ अध्याय ३०० अध्याय ३०१ अध्याय ३०२ अध्याय ३०३ अध्याय ३०४ अध्याय ३०५ अध्याय ३०६ अध्याय ३०७ अध्याय ३०८ अध्याय ३०९ अध्याय ३१० अध्याय ३११ अध्याय ३१२ अध्याय ३१३ अध्याय ३१४ अध्याय ३१५ अध्याय ३१६ अध्याय ३१७ अध्याय ३१८ अध्याय ३१९ अध्याय ३२० अध्याय ३२१ अध्याय ३२२ अध्याय ३२३ अध्याय ३२४ अध्याय ३२५ अध्याय ३२६ अध्याय ३२७ अध्याय ३२८ अध्याय ३२९ अध्याय ३३० अध्याय ३३१ अध्याय ३३२ अध्याय ३३३ अध्याय ३३४ अध्याय ३३५ अध्याय ३३६ अध्याय ३३७ अध्याय ३३८ अध्याय ३३९ अध्याय ३४० अध्याय ३४१ अध्याय ३४२ अध्याय ३४३ अध्याय ३४४ अध्याय ३४५ अध्याय ३४६ अध्याय ३४७ अध्याय ३४८ अध्याय ३४९ अध्याय ३५० अध्याय ३५१ अध्याय ३५२ अध्याय ३५३ अध्याय ३५४ अध्याय ३५५ अध्याय ३५६ अध्याय ३५७ अध्याय ३५८ अध्याय ३५९ अध्याय ३६० अध्याय ३६१ अध्याय ३६२ अध्याय ३६३ अध्याय ३६४ अध्याय ३६५ अध्याय ३६६ विषयानुक्रमणिका प्रभासक्षेत्र माहात्म्यम् - अध्याय १६७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १६७ Translation - भाषांतर ॥ईश्वर उवाच॥ततो गच्छेन्महादेवि तत्रस्थां भूतमातृकाम् ॥सावित्र्या वारूणे भागे शतधन्वंतरे स्थिताम् ॥नवकोटि गणैर्युक्तां प्रेतभूतसमाकुलाम् ॥पूजितां सिद्धगंधर्वैर्देवादिभिरनेकशः ॥२॥ ॥देव्युवाच॥भूतमातेति संहृष्टा ग्रामेग्रामे पुरेपुरे ॥गायन्नृत्यन्हसँल्लोकः सर्वतः परिधावति ॥३॥उन्मत्तवत्प्रलपते क्षितौ पतति मत्तवत् ॥क्रुद्धवद्धावति परान्मृतवत्कृष्यते हि सः ॥४॥सुखभंगांश्च कुरुते लोको वातगृहीतवत् ॥भूतवद्भस्ममूत्रांबुकर्दमानवगाहते ॥५॥किमेष शास्त्रनिर्दिष्टो मार्गः किमुत लौकिकः ॥मुह्यते मे मनो देव तेन त्वं वक्तुमर्हसि ॥६॥कथं सा पुरुषैः पूज्या प्रभासक्षेत्रवासिभिः ॥कस्मात्तत्र गता देवी कस्मिन्काले समागता ॥कस्मिन्दिने तु मासे तु तस्याः कार्यो महोत्सवः ॥७॥ ॥ईश्वर उवाच॥शृणु देवि प्रवक्ष्यामि यत्ते किंचिन्मनोगतम् ॥आस्तिकाः श्रद्दधानाश्च भवन्तीति मतिर्मम ॥८॥चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वतेऽन्तरे ॥दक्षापमानात्संजाता तदा पर्वतपुत्रिका ॥९॥द्वापरे तु द्वितीये वै दत्ता त्वं पर्वतेन मे ॥विवाहे चैव संजाते सर्वदेवमनोरमे ॥१०॥त्वया च सहितः पूर्वं मन्दरे चारुकंदरे ॥अक्रीडं च मुदा युक्तो दिव्यक्रीडनकैः प्रिये ॥पीनोन्नतनितंबेन भ्राजमाना कुचोन्नताम् ॥११॥सिताब्जवदनां हृष्टां दृष्ट्वाऽहं त्वां महाप्रभाम् ॥दग्धकामतरोः कन्दकंदलीमिव निःसृताम् ॥महार्हशयनस्थां त्वां तदा कामितवानहम् ॥१२॥सुरते तव संजातं दिव्यं वर्षशतं यदा ॥तदा देवि समुत्थाय निरोधान्निर्गता बहिः ॥ ॥१३॥तवोदकात्समुत्तस्थौ नार्येका गह्वरोदरा ॥कृष्णा करालवदना पिंगाक्षी मुक्तमूर्धजा ॥१४॥कपालमालाभरणा बद्धमुण्डार्धपिंडका ॥खट्वांगकंकालधरा रुण्डमुंडकरा शिवा ॥१५॥द्वीपिचर्माम्बरधरा रणत्किंकिणिमेखला ॥डमड्डमरुकारा च फेत्कारपूरिताम्बरा ॥१६॥तस्याश्च पार्श्वगा अन्यास्तासां नामानि मे शृणु ॥सख्यो ब्राह्मणराक्षस्यस्तासां चैव सुदर्शनाः ॥१७॥दशकोटिप्रभेदेन धरां व्याप्य सुसंस्थिताः ॥मुख्यास्तत्र चतस्रो वै महाबलपराक्रमाः ॥१८॥रक्तवर्णा महाजिह्वाऽक्षया वै पापकारिणी ॥एतासामन्वये जाताः पृथिव्यां ब्रह्मराक्षसाः ॥१९॥श्लेष्मातकतरौ ह्येते प्रायशः सुकृतालयाः ॥उत्तालतालचपला नृत्यंति च हसंति च ॥२०॥विज्ञेया इह लोकेऽस्मिन्भूतानां मूलनायकाः ॥अतिकृष्णा भवन्त्येते व्यंतरान्तरचारिणः ॥२१॥वृक्षाग्रमात्रमाकाशं ते चरंति न संशयः ॥ ॥२२॥तथैव मम वीर्यात्तु मद्रूपाभरणः पुमान् ॥कपालखट्वांगधरो जातश्चर्मविगुण्ठितः ॥२३॥अनुगम्यमानो बहुभिर्भूतैरपि भयंकरः ॥सिंहशार्दूलवदनैर्वदनोल्लिखितांबरैः ॥२४॥एवं देवि तदा जातः क्षुधाक्रान्तो बभाष माम् ॥अतोऽहं क्षुधितं दृष्ट्वा वरं हीमं च दत्तवान् ॥२५॥युवयोर्हस्तसंस्पर्शान्नक्तमेवास्तु सर्वशः ॥नक्तं चैव बलीयांसौ दिवा नातिबलावुभौ ॥पुत्रवद्रक्षतं लोकान्धर्मश्चैवानुपाल्यताम् ॥ ॥२६॥इत्युक्तौ तौ मया तत्र भूतमातृगणौ प्रिये ॥एकीभूतौ क्षणेनैव तौ भवानीभवोद्भवौ ॥२७॥दृष्ट्वा हृष्टमनाश्चाहमवोचं त्वां शुचिस्मिते ॥२८॥कल्याणि पश्यपश्यैतौ ममांशाच्च समुद्भवौ ॥बीभत्साद्भुतशृंगारधारिणौ हास्यकारिणौ ॥२९॥भ्रातृभांडा भूतमाता तथैवोदकसेविता ॥संज्ञात्रयं स्मृतं देवि लोके विख्यातपौरुषम् ॥३०॥पुनः कृतांजलिपुटौ दृष्ट्वा मामूचतुस्तदा ॥आवयोर्भगवन्कुत्र स्थाने वासो भविष्यति ॥३१॥इत्युक्तवन्तौ तौ तत्र वरेण च्छन्दितौ मया ॥अस्ति सौराष्ट्रविषये भारते क्षेत्रमुत्तमम् ॥३२॥प्रभासेति समाख्यातं तत्र क्षेमं मम प्रियम् ॥कूर्मस्य नैर्ऋते भागे स्थितं वै दक्षिणे परे॥३३॥स्वाती विशाखा मैत्रं च यत्र ऋक्षत्रयं स्मृतम्॥तस्मिन्स्थाने सदा स्थेयं यावन्मन्वन्तरावधि॥३४॥अन्यदा जीविकं वच्मि तव भूतप्रिये सदा ॥३५॥यत्र कण्टकिनो वृक्षा यत्र निष्पाववल्लरी ॥भार्या पुनर्भूर्वल्मीकस्तास्ते वसतयश्चिरम् ॥३६॥यस्मिन्गृहे नराः पञ्च स्त्रीत्रयं तावतीश्च गाः ॥अन्धकारेंधनाग्निश्च तद्गृहे वसतिस्तव ॥३७॥भूतैः प्रेतैः पिशाचैश्च यत्स्थानं समधिष्ठितम् ॥एकावि चाष्टबालेयं त्रिगवं पञ्चमाहिषम् ॥षडश्वं सप्तमातंगं तद्गृहे वसतिस्तव ॥३८॥उद्दालकान्नपिटकं तद्वत्स्थाल्यादिभाजनम् ॥यत्र तत्रैव क्षिप्तं च तव तच्च प्रतिश्रयम् ॥३९॥मुशलोलूखले स्त्रीणामास्या तद्वदुदुंबरे ॥भाषणं कटुकं चैव तत्र देवि स्थितिस्तव ॥४०॥खाद्यन्ते यत्र धान्यानि पक्वापक्वानि वेश्मनि ॥तद्वच्छाखाश्च तत्र त्वं भूतैः सह चरिष्यसि ॥४१॥स्थालीपिधाने यत्राग्निं ददते विकला नराः ॥गृहे तत्र दुरिष्टानामशेषाणां समाश्रयः ॥४२॥मानुष्यास्थि गृहे यत्र अहोरात्रे व्यवस्थितम् ॥तत्रायं भूतनिवहो यथेष्टं विचरिष्यति ॥४३॥सर्वस्मादधिकं ये न प्रवदन्ति पिनाकिनम् ॥साधारणं वदंत्येनं तत्र भूतैः समाविश ॥४४॥कन्या च यत्र वै वल्ली रोहीनाम जटी गृहे ॥अगस्त्य पादपो वापि बंधुजीवो गृहेषु वै ॥४५॥करवीरो विशेषेण नंद्यावर्तस्तथैव च ॥मल्लिका वा गृहे येषां भूतयोग्यं गृहं हि तत् ॥४६॥तालं तमालं भल्लातं तिंतिणीखंडमेव वा ॥बकुलं कदलीखंडं कदंबः खदिरोऽपि वा ॥४७॥न्यग्रोधो हि गृहे येषामश्वत्थं चूत एव वा ॥उदुंबरश्च पनसः सर्वभूत प्रियं हि तत् ॥४८॥यत्र काकगृहं वै स्यादारामे वा गृहेऽपि वा ॥भिक्षुबिंबं च वै यत्र गृहे दक्षिणके तथा ॥४९॥बिंबमूर्ध्वं च यत्रस्थं तत्र भूतनिवेशनम् ॥५०॥लिंगार्चनं न यत्रैव यत्र नास्ति जपादिकम् ॥यत्र भक्तिविहीना वै भूतानां तान्गृहान्वदेत् ॥५१॥मलिनास्यास्तु ये मर्त्या मलिनांबर धारिणः ॥मलदंता गृहस्था ये गृहं तेषां समाविश ॥५२॥अगम्यनिरता ये तु मैथुने व्यभिचारतः ॥संध्यायां मैथुनं यांति गृहं तेषां समाविश ॥५३॥बहुना किं प्रलापेन नित्यकर्मबहिष्कृताः ॥रुद्रभक्तिविहीना ये गृहं तेषां समाविश ॥५४॥अदत्त्वा भुंजते योऽन्नं बंधुभ्योऽन्नं तथोदकम् ॥सपिण्डान्सोदकांश्चैव तत्कालात्तान्नरान्भज ॥५५॥यत्र भार्या च भर्ता च परस्परविरोधिनौ ॥सह भूतैर्गृहं तस्य विश त्वं भयवर्ज्जिता ॥५६॥वासुदेवे रतिर्नास्ति यत्र नास्ति सदा हरिः ॥जपहोमादिकं नास्ति भस्म नास्ति गृहे नृणाम् ॥५७॥पर्वस्वप्यर्चनं नास्ति चतुर्दश्यां विशेषतः ॥५८॥कृष्णाष्टम्यां च ये मर्त्याः संध्यायां भस्मवर्जिताः ॥पंचदश्यां महादेवं न यजंति च यत्र वै ॥५९॥पौरजानपदैर्यत्र प्राक्प्रसिद्धा महोत्सवाः ॥क्रियते पूर्ववन्नैव तद्गृहं वसतिस्तव ॥६०॥वेदघोषो न यत्रास्ति गुरुपूजादिकं न च ॥पितृकर्मविहीनं च तद्भूतस्य गृहं स्मृतम् ॥। ॥६१॥रात्रौरात्रौ गृहे यस्मिन्कलहो जायते मिथः ॥बालानां प्रेक्षमाणानां यत्र वृद्धश्च पूर्वतः ॥भक्षयेत्तत्र वै हृष्टा भूतैः सह समाविश ॥६२॥कस्मिन्मासे दिने चापि भवित्री लोकपूजिता ॥इत्युक्तोऽहं तया देवि तामवोचं पुनः प्रिये ॥६३॥अमा या माधवे मासि तस्मिन्या च चतुर्दशी ॥तस्यां महोत्सवस्तत्र भविता ते चिरंतनः॥६४॥याः स्त्रियस्तां च यक्ष्यंति तस्मिन्काले महोत्सवे॥बलिभिः पुष्पधूपैश्च मा तासां त्वं गृहे विश॥६५॥नारायण हृषीकेश पुण्डरीकाक्ष माधव ॥अच्युतानंत गोविंद वासुदेव जनार्दन ॥६६॥नृसिंह वामनाचिंत्य केशवेति च ये जनाः ॥रुद्र रुद्रेति रुद्रेति शिवाय च नमोनमः ॥६७॥वक्ष्यंति सततं हृष्टास्तेषां धनगृहादिषु ॥आरामे चैव गोष्ठे च मा विशेथाः कथंचन ॥६८॥देशाचाराञ्ज्ञा तिधर्माञ्जपं होमं च मंगलम् ॥दैवतेज्यां विधानेन शौचं कुर्वंति ये जनाः ॥लोकापवादभीता ये पुमांसस्तेषु मा विश ॥६९॥ ॥देव्युवाच ॥कदा पूजा प्रकर्तव्या भूतमातुः सुखार्थिभिः ॥पुरुषैर्देवदेवेश एतन्मे वक्तुमर्हसि ॥७०॥ ॥ईश्वर उवाच॥सर्वत्रैषा भगवती बालानां हितकारिणी ॥नामभेदैः कालभेदैः क्रियाभेदैश्च पूज्यते ॥७१॥प्रतिपत्प्रभृति वैशाखे यावच्चतुर्दशीतिथिः ॥तावत्पूजा प्रकर्तव्या प्रेरणीप्रेक्षणीयकैः ॥७२॥भग्नामपि गतां चैनां जरत्तरुतले स्थिताम् ॥सेचयिष्यंति ये भक्त्या जलसंपूर्णगंडुकैः ॥७३॥ग्रीवासूत्रकसिन्दूरैः पुष्पैर्धूपैस्तथार्चयेत्॥तत्र सिद्धवटः पूज्यः शाखां चास्य विनिक्षिपेत् ॥७४॥पूजितां तां नरैर्यत्नादवलोक्य शुभेप्सुभिः ॥भोजयेत्क्षिप्रासंयावकृशरापूपपायसैः ॥७५॥एवं विधिं यः कुरुते पुरुषो भक्तिभावतः ॥स पुत्रपशुवृद्धिं च शरीरारोग्यमाप्नुयात् ॥७६॥न शाकिन्यो गृहे तस्य न पिशाचा न राक्षसाः ॥पीडां कुर्वन्ति शिशवो यान्ति वृद्धिमनामयाम् ॥७७॥अथ देवि प्रवक्ष्यामि प्रतिपत्प्रभृति क्रमात् ॥यथोत्सवो नरैः कार्यः प्रेरणीप्रेक्षणीयकैः ॥७८॥विकर्मफलनिर्द्देशैः पाखंडानां विटंबनैः ॥प्रदर्श्यते हास्यपरैर्नरैरद्भुतचेष्टितैः ॥७९॥पञ्चम्यां तु विशेषेण रात्रौ कोलाहलः शुभे ॥जागरं तत्र कुर्वीत देवीं पूज्य प्रयत्नतः ॥८०॥विश्वस्य धनलोभेन स्वाध्यायो निहतः पतिः॥आरोप्यमाणं शूलाग्रमेनं पश्यत भो जनाः॥८१॥दृष्टो भवद्भिर्दुष्टः स परदारावमर्शकः ॥छित्त्वा हस्तौ च खड्गेन खरारूढस्तु गच्छति ॥८२॥शीर्णश्चैवासिपत्रेण अस्याभरणभूषितः ॥सुखासन समारूढः सुकृती यात्यसौ सुखम् ॥८३॥हे जनाः किं न पश्यध्वं स्वामिद्रोहकरं परम् ॥करपत्रैर्विदार्यंतमुच्छलच्छोणितान्तरम् ॥८४॥चौरः किलायं संप्राप्तः सर्वोद्वेगकरः परः ॥दंडप्रहाराभिहतो नीयते दंडपाशकैः ॥८५॥प्रेक्षकैश्चेष्टितः शश्वदारटन्विविधैः स्वरैः ॥संयम्य नीयते हन्तुं लज्जितोऽधोमुखो जनाः ॥८६॥सितकेशं सितश्मश्रुं सितांबरधरध्वजम् ॥विटंकाद्यैश्च चेटीभिर्हन्यमानं न पश्यथि ॥८७॥गृहान्निष्क्राम्य मां रंडां गृहं नीत्वाऽकरोद्रतिम् ॥कस्मादसौ न कुरुते मूढो भरणपोषणम् ॥८८॥भैरवाभरणो नेता सदा घूर्णितलोचनः ॥प्रवृत्ततंद्रवन्मूढो वध्यश्चासावितस्ततः ॥८९॥निर्वेदेकोऽस्य हृदये धनक्षेत्रादिसंभवः ॥गृहीतं यदनेनाद्य बालेनापि महाव्रतम् ॥रक्ताक्षं काककृष्णांगं सत्वरं किं न पश्यथि ॥९०॥तरुकोटरगान्बद्ध्वा अन्याञ्छृंखलया तथा ॥शरौघैः काष्ठकैश्चैव बहुभिः शकलीकृतान् ॥९१॥विमुक्तहक्काहुंकारा न्सुप्रहारान्निरीक्षत ॥९२॥इमां कृष्णार्धवदनां ग्रहीष्यसि दुरात्मिकाम् ॥विमुक्तकेशां नृत्यन्तीं पश्यध्वं योगिनीमिव ॥९३॥गम्भीर नूपुरध्वानप्रवृद्धोद्धततांडवा ॥उन्मत्तनेत्रचरणा यात्येषा डिम्भमण्डली ॥९४॥कटीतटस्थपिटिकोल्लसत्कंबलधारिणी ॥अटते नटती ह्युर्वी परितश्च गृहाद्गृहम् ॥९५॥इत्येवमादिभिर्नित्यं प्रेरणीप्रेक्षणीयकैः ॥प्रेरयेत्तान्महानित्थं पुत्रभ्रातृसुहृद्वृतः ॥९६॥एकादश्यां नवम्यां वा दीपं प्रज्वाल्य कुण्डकम् ॥मुखबिंबानि तत्रैव लेपदारुकृतानि वै ॥९७॥विचित्राणि महार्हाणि रौद्रशान्तानि कारयेत् ॥मातृणां चण्डिकादीनां राक्षसानां तथैव च ॥९८॥भूतप्रेतपिशाचानां शाकिनीनां तथैव च ॥मुखानि कारयेत्तत्र हावभावकृतानि च ॥९९॥रक्षिभिर्बहुभिर्गुप्तं तिर्य ग्ध्वनिपुरःसरम् ॥अमावास्यां महादेवि क्षिपेत्पूजाक्रमैर्नरः ॥१००॥ततः प्रदोषसमये यत्र देवी जनैर्वृता ॥तत्र गच्छेन्महारावैः फेत्कारा कुलकीर्तनैः ॥१०१॥वीरचर्याविधानेन नगरे भ्रामयेन्निशि ॥वीरचर्या स कथितो दीपः सर्वार्थसाधकः ॥१०२॥नित्यं निष्क्रामयेद्दीपं याव त्पञ्चदशी तिथिः ॥पञ्चदश्यां प्रकुर्वीत भूतमातुर्महोत्सवम् ॥तस्य गृहेश्वरं यावद्गृहे विघ्नं न जायते ॥१०३॥अथ कालान्तरेऽतीते भूतमातुः शरीरतः ॥जाताः प्रस्वेदबिन्दुभ्यः पिशाचाः पञ्चकोटयः ॥१०४॥सर्वे ते क्रूरवदना जिह्वाज्वालाकृशोदराः ॥पाणिपात्राः पिशाचास्ते निसृष्टबलिभोजनाः ॥१०५॥धमनीसंतताः शुष्काः श्मश्रुलाश्चर्मवाससः ॥उलूखलैराभरणैः शूर्पच्छत्रासनांबराः ॥१०६॥नक्तं ज्वलितकेशाढ्या अंगारानुद्गिरंति वै ॥अंगारकाः पिशाचास्ते मातृमार्गानुसारिणः ॥१०७॥आकर्णदारितास्याश्च लंबभ्रूस्थूलनासिकाः ॥बलाढ्यास्ते पिशाचा वै सूतिकागृहवासिनः ॥१०८॥पृष्ठतः पाणिपादाश्च पृष्ठगा वातरंहसा ॥विषादनाः पिशाचास्ते संग्रामे पिशिताशनाः ॥ ॥१०९॥एवंविधान्पिशाचांस्तु दृष्ट्वा दीनानुकम्पया ॥तेभ्योऽहमवदं किञ्चित्कारुण्यादल्पचेतसाम् ॥११०॥अन्तर्धानं प्रजादेहे कामरूपित्वमेव च ॥उभयोः संध्ययोश्चारं स्थानान्याजीवितं तथा ॥१११॥गृहाणि यानि नग्नानि शून्यान्यायतनानि च ॥विध्वस्तानि च यानि स्यू रचनारोषितानि च ॥११२॥राजमार्गोपरथ्याश्च चत्वराणि त्रिकाणि च ॥द्वाराण्यट्टालकांश्चैव निर्गमान्संक्रमांस्तथा ॥ ॥११३॥पथो नदीश्च तीर्थानि चैत्यवृक्षान्महापथान् ॥स्थानानि तु पिशाचानां निवासायाददां प्रिये ॥११४॥अधार्मिका जनास्तेषामा जीवो विहितः पुरा ॥वर्णाश्रमाचारहीनाः कारुशिल्पिजनास्तथा ॥११५॥अनुतापाश्च साधूनां चौरा विश्वासघातिनः ॥एतैरन्यैश्च बहुभिरन्यायोपार्जितैर्धनैः ॥११६॥आरभ्यते क्रिया यास्तु पिशाचास्तत्र देवताः ॥मधुमासदिने दध्ना तिलचूर्णसुरासवैः ॥११७॥पूपैर्हारिद्रकृशरैस्तिलैरिक्षुगुडौदनैः ॥कृष्णानि चैव वासांसि धूम्राः सुमनसस्तथा ॥११८॥सर्वभूतपिशाचानां कृता देवी मया शुभा ॥एवंविधा भूतमाता सर्वभूतगणैर्वृता ॥११९॥प्रभासे संस्थिता देवी समुद्रादुत्तरेण तु ॥य एतां वेद वै देव्या उत्पत्तिं पापनाशिनीम् ॥१२०॥कुत्सिता संतति स्तस्य न भवेच्च कदाचन ॥भूतप्रेतपिशाचानां न दोषैः परिभूयते ॥१२१॥सर्वपापविनिर्मुक्तः सर्वसौभाग्यसंयुतः ॥सर्वान्कामानवाप्नोति नारीहृदयनंदनः ॥१२२॥ये मानयंति निजहासकलैर्विलासैः संसेवया अभयदा भवभूतमाताम् ॥ते भ्रातृभृत्यसुतबंधुजनैर्युताश्च सर्वोपसर्ग रहिताः सुखिनो भवन्ति ॥१२३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भूत मातृकामाहात्म्यवर्णनंनाम सप्तषष्ट्युत्तरशततमोऽध्यायः ॥१६७॥ N/A References : N/A Last Updated : January 11, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP